श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम ।
ते नागराजमामन्त्र्य नेत्रमब्धिं मुदान्विताः ॥१॥
आरेभिरे सुसंयत्ता अमृतार्थ कुरुद्वह ।
हरिः पुरस्ताज्जगृहे पुर्व देवास्ततोऽभवन ॥२॥
तन्नैच्चन दैत्यपतयो महापुरुषचेष्टितम ।
न गृह्णीमो वयं पुच्छमहेरंगममंगलम ॥३॥
स्वाध्यायंश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः ।
इति तृष्णीं स्थितान्दैत्यान विलोक्य प्रुरुषोत्तमः ।
स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥४॥
कृतस्थानविभागस्त एवं कश्यपनन्दनाः ।
ममन्थुः परमायत्ता अमृतार्थ पयोनिधिम ॥५॥
मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यापोऽविशत ।
ध्रियमाणोऽपि बलिभिर्गोरवात पाण्डुनन्दन ॥६॥
ते सुनिर्विण्नमनसः परिम्लानमुखश्रियः ।
आसन स्वपौरुषे नष्टे दैवेनातिबलियसा ॥७॥
विलोक्य विघ्रेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः ।
कृत्वा वपुः काच्छपमद्भुतं महत प्रविश्य तोयं गिरिमुज्जहार ॥८॥
तमुत्थितं वीक्ष्य़ कुलाचलं पुनः समुत्थितां निर्मुथितुं सुरसुराः ।
दधार पृष्ठेत स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान ॥९॥
सुरासुरेन्द्रैर्भुजवेर्यवेपितं परिभ्रमन्तं गिरिमंग पृष्ठतः ।
बिभ्रत तदावर्तनमादिकच्छपो मेनेऽगंकण्डुयनमप्रेमयः ॥१०॥
तथसुरानाविशदासुरेण रुपेण तेषा बलवीर्यमीरयन ।
उद्दीपयन देवगणांश्च विष्णु दैर्वेन नागेन्द्रमबोधरुपः ॥११॥
उपर्यगेन्द्रं गिरिराडिवान्य आक्रम्य हस्तेन सहस्त्रबाहुः ।
तस्थौ दिवि ब्रमाभवेन्द्रमुख्यैः राभिष्टुवद्भिः सुमनोऽभिवृष्टः ॥१२॥
उपर्यधश्चात्मानि गोत्रनेत्रयो परेण ते प्राविशता समोधिताः ।
ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिना क्षोभितनक्रचक्रम ॥१३॥
अहिन्द्रसाहस्रकदृडमुख श्वासाग्निधुमाहतवरसोऽसुराः ।
पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन ॥१४॥
देवांश्च तच्छसशिखाहतप्रभान धुम्राम्बरस्रग्वरक त्र्चुकाननात ।
समभ्यवर्षेन्भगवद्वशा घना ववुः समुद्रोम्युपगुढवायवः ॥१५॥
मथ्यमानात तथा सिन्धोर्देवासुरवारुथपैः ।
यदा सुधा नजायेत निर्ममन्थाजितः स्वयम ॥१६॥
मेघस्यामःकनकपरिधिः कर्णविद्योतविद्यु न्मुर्धिं भ्राजाद्विलुलितकचः स्रग्धरो रक्तनेत्र
जैत्रेर्दोर्भोर्जगदभयदैर्दन्दशुकं गृहीत्वा मथ्यन मथ्ना प्रतिगिरिरिवाशोभतार्थो धृताद्रिः ॥१७॥
निर्मथ्यमानादुदधेरभुद्विषं महोल्बणं हालहलाह्लमग्रत ।
सम्भ्रान्तमीनओन्मकराहिकाच्छपात तिमिद्विपग्राहतिमिगिलाकुलात ॥१८॥
तदुग्रवेगं दिशि दिश्युपर्यधो विसर्पदुत्सर्पदशह्यामप्रति
भीता प्रजा दुद्रुवरुंग सेश्वरा अरक्श्यमाणाः शरणं सदशिवम ॥१९॥
विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम ।
आसीनमद्रवपवर्गहेतो स्तपो जुषाणं स्तुतिभिः प्रणेमुः ॥२०॥
प्रजापतय ऊचुः
देवदेव महादेव भुतात्मन भुतभावन ।
त्राहि नः शरणापन्नंस्त्रेलोक्यदहनाद विषात ॥२१॥
त्वमेक सर्वजगत इश्वरो बन्धमोक्षयोः ।
तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरंगुरुम ॥२२॥
गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान्विभो ।
धत्से यदा स्वदृश भुमन्ब्रहमविष्णुशिवाभिधाम ॥२३॥
त्वं ब्रह्मा परमं गुह्माण सहसद्भावभावनः ।
नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥२४॥
त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्र्व्यगुणस्वभावः ।
कालः क्रतुः सत्यमृतं च धर्म स्त्वय्यक्षरं यत त्रिवृदामनन्ति ॥२५॥
अग्निर्मुखं तेऽखिलदेवतात्मा क्षितिम विदुर्लोकभवांगघ्रिपंकजम ।
कालं गतिं तेऽखिलदेवतात्मनो दिशश्च कर्णी रसनं जलेशम ॥२६॥
नाभिर्नभस्ते श्वसनं नभस्वान सुर्यश्च चक्षुंषि जलं स्म रेतः ।
परावरात्माश्रयणं तवात्मा सोमो मनो द्योर्भगाच्छिरस्ते ॥२७॥
कुक्षिः समुद्रा गिरयोऽस्थिसंगा रोमाणि सर्वाषधिवीरुधस्ते ।
छन्दासि साक्षात तव सप्त धातव स्त्रयीमयत्मन हृदय सर्वधर्मः ॥२८॥
मुकानि पंचोपनिषदस्त्वेश यैस्त्रिशदष्टोत्तरमन्त्रवर्गः ।
यत तच्छिवाख्यं परमार्थतत्त्वं देव स्वयंज्योतिववास्थितिस्ते ॥२९॥
छाया त्वधर्मोर्मिषुः यैर्विसर्गो नेत्रत्रयं सवरजस्तमांसि ।
सांख्यात्मनः शास्त्रकृतस्तवेक्शा छन्दोमयो देव ऋषिः पुराणः ॥३०॥
न ते गिरित्राखिललोकपाल विरित्रवैकुण्ठसुरेन्द्रागम्यम ।
ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद ब्रह्मा निरस्तभेदम ॥३१॥
कामाध्वरत्रिपुरकालगराद्यनेक भूतद्रुहः क्षपयतःस्तुतये न तत ते ।
यस्त्वन्तकाल इदामात्मकृतं स्वनेत्र वह्निस्फुलींगशिखया भसित न वेद ॥३२॥
ये वात्मामरमगुरुभिर्हृदि चिन्तितांघ्रि द्वन्दं चरन्तमुमया तपसाभितप्तम ।
कत्थन्त उग्रपरुशं निरतं श्मशनए ते नुनमुतिमविदंस्तव हातलज्जाः ॥३३॥
तत तस्य ते सदसतोः परतः परस्य नात्र्जः स्वरुपगमने प्रभवन्ति भुम्रः ।
ब्रह्मादयः किमुत संस्तवने वयं तु तत्सर्गसर्गविषया अपि शक्तिमात्रम ॥३४॥
एतत परं प्रपश्यामो न परंते महेश्वरं ।
मॄडनाय हि लोकस्य व्यक्तिस्तेऽव्यक्तकर्मणः ॥३५॥
तद्वीक्ष्य व्यसनं तासां कृपया भृशपीडितः ।
सर्वभुतसुहृद देव इदमाह सतीं प्रियाम ॥३६॥
श्रीशिव उवाच
अहो बत भवान्येतत प्रजानं पश्य वैशसम ।
क्षीरोदमथनोद्भुतात कालकुटादुपस्थितम ॥३७॥
आसां प्राणपरिप्सुनां विध्य्यमभयं हि मे ।
एतावान्हि प्रभोरर्थो यद दीनपरिपालनम ॥३८॥
प्राणैः स्वैः प्राणिनः पान्तिसाधवः क्षणभंगुरैः ।
बद्धवैरेषु भुतेषु मोहितेष्वात्ममाययाः ॥३९॥
पुंसः कॄपयतो भद्रे सर्वात्मा प्रीयते हरिः ।
प्रीते हरौ भगवति प्रीयेऽहे सचरचरः ।
तस्मादिदं गरं भुत्र्जे प्रजानां स्वस्तिरस्तु मे ॥४०॥
श्रीशुक उवाच
एवमामन्त्र्य भगवान्भवानीं विश्वभावनः ।
तद विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥४१॥
ततः करतलीकृत्य व्यापि हालाहलं विषम ।
अभक्षयन्महादेवः कृपया भुतभावनः ॥४२॥
तस्यापि दर्शयामास स्ववीर्य जलकल्मषः ।
यच्चकार गले नीलं तच्च साधोर्विभुषणम ॥४३॥
तप्यन्ते लोकपातेन साधवः प्रायशो जनाः ।
परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥४४॥
निशम्य कर्म तच्छम्भोर्देवदेवस्य मीढुषः ।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शंशसिरे ॥४५॥
प्रस्कन्नं पिबतः पाणेर्यत कित्र्चिज्जगृहः स्म तत ।
वृश्चिकाहिविषौषध्यो दन्दशुकाश्च येऽपते ॥४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने सत्पमोऽध्यायः ॥७॥