रजोवाज
बलेः पदत्रयं भुमेः कस्माद्धरिरयाचत ।
भुत्वेश्वरः कॄपणवल्लब्धार्थोऽपि बबन्ध तम ॥१॥
एतद वेदितुमिच्छामो महत कौतुहलं हि नः ।
यज्ञेश्वरस्य पुर्णस्य बन्धनं चाप्यनागसः ॥२॥
श्रीशुक उवाच
पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन्भृगुभिः स जीवितः ।
सर्वात्मना तानभज्द भृगुन्बालिः शिष्यो महात्मार्थनिवेदनेने ॥३॥
तं ब्राह्मणां भृगवः प्रीयमाना अजाजयन्विश्वजिता त्रिनाकम ।
जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ॥४॥
ततो रथः कात्र्चनपट्टनद्धो ह्याश्च हर्यश्वतुरंगवर्णाः ।
ध्वजश्च सिंहेन विराजमानो हुताशनादास हरिर्भिरिष्टात ॥५॥
धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचंच दिव्यम ।
पितामहस्तस्य ददौ च माला मम्लानपुष्पां जलजं च शुक्रः ॥६॥
एवं स विप्रार्जितयोधनार्थ स्तैः कल्पितस्वस्त्ययनोऽथ विप्रान ।
प्रदक्षिनीकृत्य कृतप्रणामः प्रह्लादमामन्त्र्य नमश्चकार ॥७॥
अथारुहा रथं दिव्यं भृगुद्त्तं महारथः ।
सुस्रग्धरोऽथं संनह्या धन्वी खड्ग्री धृतेषुधिः ॥८॥
हेमांगदलसद्वाहुः स्फ्रुअन्मकरकुन्डलः ।
रराज रथमरुढो धिष्णस्थ इव हव्यवाट ॥९॥
तुल्यैश्वर्यबलश्रीभिः स्वयुर्थदैत्ययुथपैः ।
पिबविन्द्रपुरीं खं दृग्भिर्दहद्भिः परिधीनिव ॥१०॥
वृतो विकर्षन महतीमासुरीं ध्वजिनीं विभुः ।
ययाविन्द्रपुरीं स्वृद्ध कम्पयन्निव रोदसी ॥११॥
रम्यामुपवनोद्यानैः श्रीमद्धिर्नन्दनादिभिः ।
कुजद्विहगंमिथुनैर्गायन्मत्तमधुव्रतैः ॥१२॥
प्रवालफलपुष्पोरुभारशाखामरद्रुमैः ।
हंससारसचक्राह्वकारण्दवकुलाकुलाः ।
नलिन्यो यत्र क्रीडन्ति प्रमदाः सुरसेविताः ॥१३॥
आकशगंगा देव्या वृतां परिखभुतया ।
प्रकारेणाग्निवर्णेन साट्टालोनोन्नतेन च ॥१४॥
रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः ।
जुष्ठां विभक्तप्रपंथां विश्वकर्मविनिर्मिताम ॥१५॥
सबहचत्वररथ्याढ्यां विमानैर्न्यर्बुदैर्यताम ।
श्रृंगाटकैर्मणिमयैर्वज्वविदुर्मवेदिभिः ॥१६॥
यत्र नित्यवयोरुपाः श्यामा विरजवाससः ।
भ्राजन्ते रुपवन्नायो ह्यार्चिर्भिर्रिव वह्रयः ॥१७॥
सुरस्त्रीके शविभ्रष्टनवासौगन्धिकस्रजाम ।
यत्रामोदमुपादाय मार्ग आवाति मरुतः ॥१८॥
हेमजालाक्षनिर्गच्छद्भ्मेनागुरुगान्धिना ।
पाण्डुरेण प्रतिच्छन्नमर्गे यान्ति सुरप्रियाः ॥१९॥
मुक्तवितनैर्मणिहेमकेतुभि र्नानापताकावलभीभिरावृताम ।
शिखण्डिपरावर्तभृगनादितां वैमानिकस्त्रीकलगीतमंगलाम ॥२०॥
मृदंगंशख्हानकदुन्दुभिस्वनैः सतालवीणामुरजर्ष्टिवेणुभिः ।
नृत्येः सवाद्यरुपदेवगीतकै र्मनोरमां स्वप्रभया जितप्रभाम ॥२१॥
यांन व्रजन्त्यधर्मिष्ठा खला भुतद्रुहः शठाः ।
मानिनः कामिनो लुब्धा एभिर्र्हिना व्रजन्ति यत ॥२२॥
तां देवधानीं स वरुथिनीपति र्बहिःसमन्ताद रुरुधे पृतन्यया ।
आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुत्र्जन्भयमिन्द्रयोषिताम ॥२३॥
मघवांस्तमभिप्रेत्य बलेः परममुद्यमम ।
सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥२४॥
भगवन्नुद्यमो भ्यान्बलेर्नः पुर्ववैरिणः ।
अविषह्मामिमं मन्ये केनासीत्तेजासोर्जितः ॥२५॥
नैनं कश्चित कुतो वापि प्रतिव्योढुमधी श्वरः ।
पिबन्निव मुखेनेदं लिहिन्निव दिशो दश ।
दहन्निव दिशो दृग्भिह संवर्तार्ग्निरिवोत्थितः ॥२६॥
ब्रुहि कारणमेतस्य दुर्धर्षत्वस्य मुद्रिपोः ।
ओजः सहोः बलं तेजो यत एतत्समुद्यमः ॥२७॥
गुरुरुवाच
जानामि मघवत्र्छत्रोरुनन्तेरस्य कारणम ।
शिष्यायोपभॄतआ तेजो भॄगुभिर्ब्रह्मावादिभिः ॥२८॥
भवद्विधो भवान्वापि वर्जय्यित्वेश्वरं हरिम ।
नास्य शक्त पुरः स्थतु कृतन्तस्य यथा जनाः ॥२९॥
तस्मान्निलयमुत्सृज्यं युयं सर्वे त्रिविष्टपम ।
यत कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥३०॥
एष विप्रबलोदर्कः सम्प्रत्युर्जितविक्रमः ।
तेषामेवापमानेन सानुबन्धो विनंक्षयति ॥३१॥
एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना ।
हित्वा त्रिविष्टपं जग्मुर्गीर्वाणः कामरुपिणः ॥३२॥
देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम ।
देवधानीमधिष्ठनवशं निन्ये जगत्त्रयम ॥३३॥
तं विश्वजयिन शिष्यं भृगवः शिष्यवत्सलाः ।
शतेन हयमेधानामनुव्रतमयाजयन ॥३४॥
ततस्तदनुभावेन भुवनत्रयविश्रुताम ।
कीर्ति दिक्षु वितन्वानः स रेज उडुराडीव ॥३५॥
बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम ।
कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥३६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे पंचदशोऽध्यायः ॥१५॥