श्रीशुक उवाच
तदा देवर्षिगन्धर्वा ब्रह्मोशानपुरोगमाः ।
मुमुचुःकुसुमासरं शंसन्तः कर्म तद्धरे ॥१॥
नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः ।
ऋषयश्चरणाः सिद्धस्तुष्टुवुः पुरुषोत्तमम ॥२॥
योऽसौ ग्राहः स वै सद्यः परमाश्चर्यरुपधॄक ।
मुक्तो देवलशापेन हुहुर्गन्धर्वसत्तम ॥३॥
प्रणम्य शिरसाधीस्गमुत्तमस्लोकमव्ययम ।
अगायत यशोधाम कीर्तन्यगुणसत्कथम ॥४॥
सोऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम ।
लोकस्य पश्यतो लोकंस्वमगान्मुक्तकिल्बिषः ॥५॥
गनेन्द्रो भगवत्स्पर्शाद विमुक्तोऽज्ञानबन्धनात ।
प्राप्तो भगवतो रुपं पीतवासाश्चतुभुजः ॥६॥
स ऐ पुर्वमभुद राजा पाण्डयो द्रविडसत्तमः ।
इन्द्रद्युम्र इतिख्यातो विश्णुव्रतपरायण ॥७॥
स एकदाऽऽराधनकाल आत्मवान गृहीतमौनव्र ईश्वरं हरिम ।
जटाधरस्तपस आप्लुतोऽच्युतं समर्चयामास कुलाचलाश्रमः ॥८॥
युदृच्छया तत्र महायशा मुनिः समागमच्छिष्यगणैः परिश्रितः ।
तं वीक्ष्य तुष्णीमकृतार्हणदिकं रहस्युपासीनमृषिश्चुकोप ह ॥९॥
तस्मा इमं शापमदादसाधु रयं दुरत्माकृतबुद्धीरद्य ।
विप्रावमन्ता विशतां तमोऽन्धं यथा गजः स्तब्धमतिः स एव ॥१०॥
श्रीशुक उवाच
एवं शप्त्वा गतोऽगस्त्यो भगवान नृप सानुगः ।
इन्द्रद्युम्रोऽपि राजर्शिर्दिष्टं तदुपधारयण ॥११॥
आपन्नःकौत्र्जरीं योनिमात्मस्मृतिविनाशिनीम ।
हर्यर्चनानुभवेन यद्गजत्वेऽप्युनुस्मृतिः ॥१२॥
एवं विमोक्ष्य गजयुथपमब्जनाभ स्तेनापि पार्षदगतिं गमितेन युक्तः ।
गन्धर्वसिद्धविबुधैरुपगीयमान कर्माद्भुतं स्वभवनं गरुडासनोऽगात ॥१३॥
एतन्महाराज तवोरितो मया कॄष्णानुभावो गजराजमोक्षणम ।
स्वर्ग्य यशस्यं कलिकल्मषापहं दुःस्वप्रनाशं कुरुवर्य श्रृण्वताम ॥१४॥
यथानुकीर्तयन्त्येतच्छ्रेयस्कामा द्विजातयः ।
शुचयः प्रतरुत्थाय दुःस्वप्राद्युपशान्तये ॥१५॥
इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम ।
श्रृण्वतां सर्व भुताणां सर्व भुतमयो विभूः ॥१६॥
श्रीभगवानुवाच
ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम ।
वेत्रकीचकवेणुनां गुल्मानि सुरपादपान ॥१७॥
श्रृंगणीमानि धिष्णानि ब्रह्माणि मे शिवस्यच ।
क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम ॥१८॥
श्रीवर्सं कस्तुभं मालां गदां कौमोदकीं मम ।
सुदर्शनं पात्रंजन्य सुपर्ण पतगेश्वरम ॥१९॥
शेषंच मत्कलां सुक्ष्मां श्रियं देवीं मदाश्रयाम ।
ब्रह्माण नारदमृषिं भिवं प्रह्लादमेव च ॥२०॥
मत्स्यकुर्मवराहद्यैवतारैः कृतानि मे ।
कर्माण्यनन्तपुण्यानि सुर्य सोमं हुताशनम ॥२१॥
प्रणवं सत्यमव्यक्तं गोविप्राण धर्ममव्ययम ।
दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥२२॥
गंगा सरस्वतीं नन्दां कालिन्दीं सितवारणम ।
धुवं ब्रह्माऋषींन्सप्त पुण्यश्लोकांश्च मानवान ॥२३॥
उत्थायापररात्रान्ते प्रयताः सुसमाहिताः ।
स्मरन्ति मम रुपाणि मुच्यन्ते ह्रोनसोऽखिलात ॥२४॥
ये मां स्तुतिन्त्यनेवांग प्रतिबुध्य निशात्येय ।
तेषां प्राणात्यये चाहं ददाइ विमलं मतिम ॥२५॥
श्रीशुक उवाच
इत्यादिश्य हृषीकेशः प्रध्माय जलजोत्तमम ।
हर्षयन्विबुधानीकमारुरोह खगाधिपम ॥२६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे गजेन्द्रमोक्षणं नाम चतुर्थोऽध्यायः ॥४॥