अष्टमः स्कन्धः - अथ नवमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

तेऽन्योन्यतोऽसुराः पात्रं हरन्त्यस्यक्तसौह्रुदाः ।

क्षिपन्तो दस्युधर्माणि आयान्ती ददृशुः स्त्रियम ॥१॥

अहो रुपमहो धाम अहो अस्या नवं वयः ।

इति ते तामभिद्रत्य पप्रच्छुर्जातहृच्छयाः ॥२॥

क त्वं कत्र्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।

कस्यासि वद वामोरु मथ्नन्तीव मनांसि नः ॥३॥

न वयं त्वामरैदैत्यैः सिद्धगन्धर्वचारणैः ।

नास्पृष्टपुर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥४॥

नुनं त्वं विधिनांसुभ्रुः प्रेषितासि शरीरिनाम ।

सर्वेंन्द्रियमनः प्रीतिं विधातुं सघृणेन किम ॥५॥

सा त्व नः स्पर्धमानानामेकवस्तुनि मानिनि ।

ज्ञातीनां बद्धवैरणंशं विधत्स्व सुमध्यमे ॥६॥

वय कश्यपदायादा भ्रातरः कृतपौरुषाः ।

विभजस्व यथान्यायं नैव भदो यथा भवेत ॥७॥

इत्युपामन्त्रितो दैत्यैर्माययोषिद वपुर्हरिः ।

प्रहस्य रुचिरापागैःर्निरीक्षन्निदमब्रवीत ॥८॥

श्रीभगवानुवाच

कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः ।

विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥९॥

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।

सख्यान्याहुरनित्यानि नुत्नं नुत्‍नं विचिन्वताम ॥१०॥

श्रीशुक उवाच

इति ते क्ष्वेलीतैस्तस्या आश्रस्तमनोऽसुराः ।

जहसुर्भावगम्भीरं ददुश्रामृतभाजनम ॥११॥

ततो गृएहीत्वामृतभाजनं हरि र्बभाष ईषत्स्मितशोभया गिरा ।

यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधमिमाम ॥१२॥

इत्यभिव्यहृतं तस्या आकर्ण्यासुरपुगंवा ।

अप्रमाणविदस्तस्यास्तत तथेत्यन्वमंसत ॥१३॥

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम ।

दत्वा गोविप्रभुतेभ्यः कृतस्वस्त्ययना द्विजैः ॥१४॥

यथोपजोषं वासांसि परिधायाहतानि ते ।

कुशेषु प्राविशन्सर्वे प्रागग्रेष्वभिभुषिताः ॥१५॥

प्रांमुखेषुपविष्टेषु सुरेषु दितिजेषु च ।

धुपामोदितशालायां जुष्टायांमाल्यदीपकैः ॥१६॥

तस्यां नरेन्द्र करभोरुरुशद्दुकुलश्रोणीतटालसगतिर्मदविह्ललाक्षी ।

सा कुजती कनकनुपुरशित्र्जितेन कुम्भस्तनी कलशपाणिरथी विवेश ॥१७॥

तां श्रीसखीं कनककुन्डलचारुकर्णं नासाकपोलवदनां परदेवताख्याम ।

संवीक्ष्य संमुमुहुरुत्स्मितवीक्षणेन देवासुर विगलितस्तनपट्टिकान्ताम ॥१८॥

असुराणां सुधादानं सर्पाणमिव दुर्नयम ।

मत्वा जातिनृशसानां न तां व्यभजदच्युतः ॥१९॥

कल्पयित्वा पृथकपडक्तिरुभयेषां जगत्पत्तिः ।

तांश्चोपवेशयामास स्वेषु स्वेषु च पडक्तिषु ॥२०॥

दैत्यन्गृहित्कलशो वंचयन्नुपात्र्चरैः ।

दुरस्थान पाययामास जरामत्युहरां सुधाम ॥२१॥

ते पालयन्तः समयमसुराःस्वकृतं नॄप ।

तुष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥२२॥

तस्या कृतातिप्रणयाः प्रणयापायकातराः ।

बहुमानेन चाबद्धा नोचुः किंचन विप्रियम ॥२३॥

देवालिंगप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।

प्रविष्टः सोममपिबच्चन्द्रार्काभ्यां च सुचितः ॥२४॥

चक्रेण क्षुरधारेण जहार पिबतः शिरः ।

हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत ॥२५॥

शिरस्त्वमरतां नीजमजो ग्रहमचीक्लॄपत ।

यस्तु पर्वणि चन्द्रर्कावभिधावति वैरधीः ॥२६॥

पीतप्रायेऽमृते देवैर्भगावाँल्लोकभावनः ।

पश्यतामसुरेन्द्राणां स्वं रुपं जगृहे हरिः ॥२७॥

एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकल्पाः ।

तत्रामृतं सुरगणाः फलमत्र्जासाऽऽपु र्यत्पादपंकजरजः श्रयणान्न दैत्याः ॥२८॥

यद युज्यतेऽसुवसुकर्ममनोवचोभि र्देहात्मजादिषु नृभिस्तदसत पृथक्त्वात ।

तैरेव सद भवति यत क्रियतेऽपृथक्त्वात सर्वस्य तद भवति मुलानिषेचनं यत ॥२९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP