श्रीबादरायणिरुवाच
वृषध्वजो निशम्येदं योषिद्रुपेण दानवान ।
मोहयित्वा सुरगणान्हारिः सोममपाययत ॥१॥
वृषमारुह्या गिरिशः अर्वभ्तगणैर्वृतः ।
सह देव्या ययौ द्रष्टुं यत्रास्त्रें मधुसुदनः ॥२॥
सभाजितो भगवता सादरं सोमया भवः ।
सुपविष्ट उवचेदं प्रतिपुज्य स्मयन्हरिम ॥३॥
श्रीमहादेव उवाच
देवेदेव जगद्वव्यापित्र्जगदीश जगन्मय ।
सर्वषामपि भावानां त्वमात्म हेतुरिश्वरः ॥४॥
आद्यन्तावस्य यन्मध्यमिदमन्यदहं बहिः ।
यतोऽव्ययस्य नैतानि तत अत्य ब्रह्मा चिद भवान ॥५॥
तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।
विसृज्योभयतःसंगं मुनयः समुपासते ॥६॥
त्वं ब्रह्मा पुर्णममृतं विगुणंविशोक मानन्दमात्रमविकारमनन्यदन्यत ।
विश्वस्य हेतुरुदयस्थितिसंयमना मात्मेश्वरश्व तदपेक्षतयानपेक्षः ॥७॥
एकस्त्वमेव सदसद द्वयमद्वयं च स्वर्णं कृताकृतमिवेह नवस्तुभेदः ।
अज्ञानतस्त्वयि जनैर्विहितो विकल्पो यस्मद गुणैर्व्यतिकरो निरुपाधिकस्य ॥८॥
त्वां ब्रह्मा केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम ।
अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्तम ॥९॥
नाहं यरायुऋषयो न मरिचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।
यन्मायया मुषितचेतस ईश दैत्य मर्त्यादयः किमुद शश्वदभद्रवृत्ताः ॥१०॥
स त्वं समीहितमदः स्थितिजन्मनाशं भुतेहितं च जगतो भवबन्धमोक्षी ।
वायुर्यथा विशति खं च चराचराख्यं सर्व तदात्मकतयावगमोऽवरुत्से ॥११॥
अवतारा म्या दृष्ट रममाणस्य ते गणैः ।
सोऽहं तद द्रष्टमिच्छामि यत ते योशिद्वपृर्धृतम ॥१२॥
येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।
तद दिदृक्षव आयाताः परं कौतुहलं हि नः ॥१३॥
श्रीशुक उवाच
एवमभ्यर्थितो विष्णुर्भगवान शुलपाणिना ।
प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥१४॥
श्रीभगवानुवाच
कौतुहलाय दैत्यांना योषिद्वेषो मया कृतः ।
पश्यता सुरकार्याणि गते पीयुषभाजने ॥१५॥
तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।
कामिनां बहु मन्तव्यं संअल्पप्रभवोदयम ॥१६॥
श्रीशुक उवाच
इक्ति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत ।
सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥१७॥
ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारौणप्ल्लवदुमे ।
विक्रीडतीं कन्दुकलीलया लसद दुकुलपर्यस्तनितम्बमेखलाम ॥१८॥
आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे ।
प्रभज्यमानामिव मध्यतश्च्लत पदप्रवालं नयतीं ततस्ततः ॥१९॥
दिक्षु भमत्कन्दुकचापलैर्भुशं प्रोद्विग्रतारायतलोललोचनाम ।
स्वकर्णाविभ्रजितकुण्डलोल्लसत कपोलनीलालकमण्डिताननाम ॥२०॥
श्लथद दकुलं कबरीं च विच्युतां सन्नहातीं वामकरेण वल्गुना ।
विनिघ्रतीमन्यकरेण कन्दुकं विमोहयन्ती जगदात्ममायया ॥२१॥
तां वीक्ष्य देव इति कन्दुकलीलयेषदु वीडास्फुटस्मिताविसृष्टकटाक्षमुष्टः ।
स्त्रीप्रेक्षप्रतिसमीक्षणविह्ललात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥२२॥
तस्याः कराग्रात स तु कन्दुको यदा गतो विदुरं तमनुव्रजत्स्रियाः ।
वासः ससुतं लघु मारुतोऽहरद भवस्य देवस्य किलानुपश्यतः ॥२३॥
एवं तां रुचिरापांगी दर्शनीयां मनोरमाम \
दृष्टा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥२४॥
तयापहृविज्ञानस्तत्क्रुतस्मरविह्ललः ।
भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥२५॥
सा तमायान्तमालोक्य विवस्त्रा व्रीडिता भृशम ।
निलीयमाना वृक्षेशु हसन्ते नान्वतिष्ठत ॥२६॥
तामन्वगच्छद भगवान भवः प्रमुषितेन्द्रियः ।
कामसुअ च वंश नीतः करेणुमिव युथपः ॥२७॥
सोऽनुव्रज्यतिवेगेन गृहित्वानिच्छतीं स्त्रियम ।
केशबन्ध उपानीध बहुभ्यां परिषस्वजे ॥२८॥
सोपगुढा भगवत करिणा करिणी यथा ।
इतस्ततः प्रसर्पन्ते विप्रकीर्णशिरोरुहा ॥२९॥
आत्मनं मोचयित्वह सुरर्षभभुजान्तरात ।
प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥३०॥
तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।
प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥३१॥
तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः ।
शुष्मिणो युथपस्येव वासितामनु धावतः ॥३२॥
यत्र यत्रापतन्मह्यां रेतस्तस्य महात्मनः ।
तानि रुप्यस्य हेम्रश्च क्षेत्राण्यासन्महीपते ॥३३॥
सरित्सरस्सु शैलेशःउ वनेषुपवनेषु च ।
यत्र क्व चासन्नृषयस्तत्र संनिहितो हरः ॥३४॥
स्कन्ने रेतसि सोऽपश्यदात्मानं देवमायया ।
जडीकृतं नृपश्रेष्ठ संन्यवर्तत कश्मलात ॥३५॥
अथावग्तमहात्म्य आमओ जगदात्मनः ।
अपरिज्ञेयवीर्यस्य न मेने तदु हद्भुताम ॥३६॥
तमविक्लवव्रीदकालक्ष्य मधुसुदनः ।
उवाच परमप्रीतो बिभ्रत्स्वां पौरुषीं तनुम ॥३७॥
श्रीभगवानुवाच
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः ।
यन्मे स्त्रीरुपयां स्वैर मोहितोऽप्यंग मायया ॥३८॥
को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान ।
तांस्तान्विसृजतीं भावान्दुस्तरामक्रुतात्मभिः ॥३९॥
सेयं गुनमये माया न त्वामभिभविष्यति ।
मया समेता कालेन कालरुपेण भागशः ॥४०॥
श्रीशुक उवाच
एवं भगवता राजन श्रीवत्सागेन सत्क्रृतः ।
आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥४१॥
आत्मांशभुतं तां मायं भवानींभगवान्भवः ।
शंसतमृषिमुख्यानां प्रीत्याऽऽचष्टाथ भारत ॥४२॥
अपि व्यपस्यस्त्वमजस्य मायां परस्य पुंअः परदेवतायः ।
अहं कलानाम्रुषभो विमुह्रो ययावशोऽन्ये किमुतास्वतन्त्राः ॥४३॥
यं मामपृच्छस्त्वमुपेत्य योगात समासहस्रान्तं उपारतं वै ।
स एष साक्षात पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥४४॥
श्रीशुक उवाच
इति तेऽभिहितस्तात विक्रमः शार्गधन्वनः ।
सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥४५॥
एतन्मुहुः कीर्तयतोऽनुश्रुण्वतो न रिष्यते जातु समुद्यमः क्वचित ।
यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम ॥४६॥
असदविशयमंगघ्रि भावगम्यं प्रपन्ना नमृतममरवर्यानाशयत सिन्धुमथ्यम ।
कपटयुवतिवेषो मोहयन्य सुरारीं स्तमहमुपसृतानां कामपुरं नतोऽस्मिः ॥४७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायामष्टमस्कन्धे शंकरमोहन नाम द्वादशोऽध्यायः ॥१२॥