श्रीशुक उवाच
राजन्नुदितमेतत ते हरेः कर्माघनाशनम ।
गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं श्रृणु ॥१॥
पंचमो रैवतो नाम मनुस्तामससोदरः ।
बालिविन्ध्यादयस्तस्य सुता अर्जुनपूर्वकाः ॥२॥
विभुरिन्द्रः सुरगणा राजन्भुतरयादयः ।
हिरण्यरोमा विदशिरा ऊर्ध्वबाह्मदयो द्विजाः ॥३॥
पत्नी विकुण्ठा शुभस्य वैकुण्ठैः सुरसत्तमैः ।
तयोः स्वकलय जज्ञे वैकुण्ठो भगवान्स्वयम ॥४॥
वैकुण्ठ कल्पितो येन लोको लोकनमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥५॥
तस्यानुभावः कथितो गुणाश्च परमोदयाः ।
भौमान रेणुन्स विममे यो विश्णोर्वर्णयेद गुणान ॥६॥
षण्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः ।
पुरुपुरुषसुद्युम्रप्रमुखाश्चाक्षुषात्मजाः ॥७॥
इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः ।
मुनयस्तत्र वै राजन्हविष्मद्वीरकादयः ॥८॥
तत्रापि देवः सम्भुत्यां वैराजस्याभवत सुतः ।
अजितो नाम भगवानंशेन जगत पतिः ॥९॥
पयोधिं येन निर्मथ्य सुराणां सधिता सुधा ।
भ्रममाणोऽम्भसि धृतः कूर्मरुपेण मन्दरः ॥१०॥
राजोवाच
यथा भगवता ब्रह्मन्मथितः क्षीरसागरः ।
यदर्थ वा यतश्चद्रि दधाराम्भुचरात्मना ॥११॥
यथामृतं सुरैः प्राप्तं किंचान्यदभवत ततः ।
एतद भगवतः कर्म वदस्व परमाद्भुतम ॥१२॥
त्वया संकथ्यमानेन महिम्रा सात्वतां पतेः ।
नातितृप्यति मे चित्तं सुचिरं तापतापितम ॥१३॥
सुत उवाच
सम्पृष्टो भगवानेवं द्वैपायनसुतो द्विजाः ।
अभिनन्द्य हरेवीर्यमेभ्याचष्टुं प्रचक्रमे ॥१४॥
श्रीशुक उवाच
यदा युद्धेऽसुरैर्देवा बाध्यामानाः शितायुधैः ।
गतासवो निपतिता नोत्तिष्ठेरन्स्म भुयशः ॥१५॥
यदा दुर्वाससः शापात सेन्द्रा लोकास्त्रयो नृप ।
निः श्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥१६॥
निशम्यैतत सुरगणा महेन्द्रवरुणादयः ।
नाध्यगच्छन्स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चयन ॥१७॥
ततो ब्रह्मासभां जग्मुर्मेरोर्मुर्धनि सर्वशः ।
सर्व विज्ञापयात्र्चक्रुः प्रणताःपरमेष्ठिने ॥१८॥
स विलोक्येन्द्रवाय्वादिन निःसत्वन्वितप्रभाग ।
लोकानमंगलप्रायानसुरानयथा विभुः ॥१९॥
समाहितेन मनसा संस्मरन्पुरुषं परम ।
उवाचोत्फुल्लवदनो देवान्स भगवान्परः ॥२०॥
अहं भवो युयमथोऽसुरादयो मनुष्यतिर्यग्द्रुमर्मजातयः ।
यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम ॥२१॥
न यस्य वध्यो न च रक्षणोयो नोपेक्षीयादरणीयपक्षः ।
अथापि सर्गस्थितिसंयंमार्थं धत्ते रजः सत्वतमांसि काले ॥२२॥
अयं च तस्य स्थितिपालनक्षणः सत्वं जुषाणस्य भवाय देहिनाम ।
तस्माद व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥२३॥
श्रीशुक उवाच
इत्याभाष्य सुरान्वेधाः सह देवैररिन्दम ।
अजितस्य पदं साक्षाज्जगाम तमसः परम ॥२४॥
ततादृष्टस्वरुपाय श्रुतपुर्वाय वै विभो ।
स्तुतिमब्रुत दैविभिर्गीर्भिस्त्ववहितेन्द्रियः ॥२५॥
ब्रह्मोवाच
अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम \
मनोऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम ॥२६॥
विपश्चितं प्राणमनोधियात्मना मर्थेन्द्रियाभासमनिद्रमव्रणम ।
छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥२७॥
अजस्य चक्रं त्वजयेर्यमानं मनोमयं पंचदशारमाशु ।
त्रिणाभि विद्युच्चलमष्टनेमि यदक्शमाहुस्तमृतं प्रपद्ये ॥२८॥
य एकवर्ण तमसः परं प दलोकमव्यक्तमनतपारम ।
आसत्र्चकरोपसुपर्णमेन मुपासते योगरथेन धीराः ॥२९॥
न यस्य कश्चातितितर्ति मायं यया जनो मुह्राति वेद नार्थम ।
तं निर्जितात्मात्मगुणं परेशं नमाम भुतेषु समं चरन्तम ॥३०॥
इमेवयं यत्प्रिययैव तन्वा सत्वेन सृष्टा बहिरन्तराविः ।
गतिं न सुक्ष्मामृषयश्च विद्यहे कृतोऽसुराद्या इतरप्रधानः ॥३१॥
पादौ महीयं स्वकृतै यस्य चतुर्विधो यत्र हि भुतसर्गः ।
स वै महापुरुष आत्मतन्त्रः प्रसीदतां ब्रह्मामहाविभुतिः ॥३२॥
अम्भस्तु यद्रेत उदारवीर्य सिध्द्यन्ति जेवन्त्युत वर्धमानाः ।
लोकास्त्रयेऽथाखिललोकपालः प्रसीदतं ब्रह्मा महाविभुतिः ॥३३॥
सोमंमनो यस्य समामनन्ति देवौकसंवै बलमन्ध आयुः ।
ईशो नगानां प्रजनः प्रजानाः प्रसीदतां नः स महाविभुतिः ॥३४॥
अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा ।
अन्तःसमुद्रेऽनुपचन स्वधातुन प्रसीदतां न स महाविभुतिः ॥३५॥
यच्चक्षुरासीत तरणिर्देयानं त्रयीमयो ब्रह्माणएष धिष्णम ।
द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभुतिः ॥३६॥
प्राणादभुद यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः ।
अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभुतिः ॥३७॥
श्रोत्राद दिशो यस्य ह्रुदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः ।
प्राणेन्द्रियात्मासुशरीरकेतं प्रसीदतां नः स महाविभुतिः ॥३८॥
बलान्महेन्द्रस्त्रिदशा प्रसादा न्मन्योर्गिरीशो धिषणाद विरित्र्चः ।
खेभ्यश्च छन्द्रास्यृषयो मेढ्रतः कः प्रसीदतां न स महाविभुतिः ॥३९॥
श्रीर्वक्षसः पितश्छाययाऽऽसन धर्मः स्तनादितरः पृष्ठतोऽभुत ।
द्योर्यस्य शीर्ष्णोऽपसरसो विहारात प्रसीदत्तां नः स महाविभुति ॥४०॥
विप्रो मुखं ब्रह्मा च यस्य गुह्नां राजन्य आसीद भुजयोर्बलं च ।
उर्वोविडोजोऽडघ्रिरवेशुद्रौ प्रसीदता नः स महाविभुतिः ॥४१॥
लोभोऽधरात प्रीतिरुपर्यभुद द्युति र्नस्तः पशव्यः स्पर्शेन कामः ।
भ्रुर्वोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभुतिः ॥४२॥
द्रव्यं वयः कर्म गुणान्विशेषं यद्योगमायाविहितान्वदन्ति ।
यद दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभुतिः ॥४३॥
नमोऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपुरितात्मने ।
गुणेशु मायारचितेषु वृत्तिभि र्न सज्जमानाय नभस्वदूतये ॥४४॥
स त्वं ने दर्शयात्मानमस्मत्करणगोचरम ।
प्रपन्नानां दिदृक्षूणां सस्मितां ते मुखाम्बुजम ॥४५॥
तैस्तैः स्वेच्छधृते रुपैः काले काले स्वयं विभो ।
कर्म दुर्विषहं यन्नो भगवांस्तत करोति हि ॥४६॥
क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा ।
देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥४७॥
नावमः कर्मकल्पऽपि विफलायेश्वरार्पितः ।
कल्पते पुरुषस्यैष स ह्मात्मा दयितो हितः ॥४८॥
यथा हि स्कन्धशाखानां तरोर्मूलाअसेचनम ।
एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥४९॥
नमस्तुभ्यमनन्तय दुर्वितर्क्यात्मकर्मणे ।
निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम ॥५०॥
इति श्रीमद्भागवते महापुरुषे पारमहंस्या संहितायामष्टमस्कन्धेऽमृतमथने पंचमोऽध्यायः ॥५॥