श्रीशुक उवाच
एवं स्तुतःसुरगणैर्भगवान हरिरीस्वरः ।
मेषामाविरभुद राजन्सहस्रार्कोदयद्युतिः ॥१॥
तेनैव महसा सर्वे देवाःप्रतिहतेक्षणाः ।
नापश्यन्खं दिशः क्षोणिमात्मानं च कुतो विभुम ॥२॥
विरित्र्चो भगवान्दृष्टा सह शर्वेण तां तनुम ।
स्वच्छां मरकतश्यामां कत्र्जगर्बहरुणेक्षणाम ॥३॥
तप्तहेमावदातेन लसत्कौशेयवाससा ।
प्रसन्नचारुर्वागीं सुमुखी सुन्दरभ्रुवम ॥४॥
महामणिकिरीटेन केयुराभ्यांअ भिषिताम ।
कर्णाभरणनिर्भातकपोलश्रीमुखाम्बुजाम ॥५॥
कात्र्चीकलापवलयहारनुपुरुशोभिताम ।
कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम ॥६॥
सुदर्शनादिभिः स्वास्त्रैर्मुर्तिमाद्भिरुपासिताम ।
तुष्टाव देवप्रवरः सशर्वः पुरुषं परम ।
सर्वामरगणैः साकं सर्वागैरवनिं गतैः ॥७॥
ब्रह्मोवाच
अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय ।
अणोरणीम्रेऽपरिगण्यधम्रे महानुभावाय नमो नमस्ते ॥८॥
रुपं तवैतत पुरुषर्षभज्यं श्रेयोऽर्थिभिवैदिकतान्त्रिकेण ।
योगेनधातः सह नस्त्रिलोकानक पश्याम्यमुष्यिन नु ह विश्वमुर्ती ॥९॥
त्वय्यग्र आसीत त्वयि मध्य आसीत त्वय्यन्त असीदिदमात्मतन्ये ।
त्वमादिरन्तो जगतोऽस्य मध्यं घटस्य मृस्त्नेव परः परस्मात ॥१०॥
त्व माययाऽऽत्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्ट ।
पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवायेऽप्यगुणं विपश्चितः ॥११॥
यथाग्निमेधस्यमृतं च गोषु भुव्यन्नमम्बुद्यमने च वृत्तिम ।
योगैर्मनुष्यां अधियन्ति हि त्वं गुणेषु बुद्ध्या कवयो वदन्तिक ॥१२॥
तं त्वांवयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितर्थम ।
दृष्ट्वा गता निर्वितिमद्य सर्वे गजा दवार्ता इव गंगमभ्मः ॥१३॥
स त्वं विधत्स्वाख्ललोकपाला वयं यदर्थास्तव पादमुलम ।
समागतास्ते बहिरन्तरात्मन किं वान्यविज्ञप्यमशेषसाक्षिणः ॥१४॥
अहं गिरित्रश्च सुरदयो ये दक्शादयोऽग्नेरिव केतवस्ते ।
किं वा विदामेश पृथग्विभाता विधस्त्व शंनो द्विजदेवमन्त्रम ॥१५॥
एवं विरित्र्चदिभिरीडिस्तद विज्ञाय तेषां हृदयं तथैव ।
जगाद जीमुतगभीरया गिरा बद्धात्र्जलीन्संवृतसर्वकारकान ॥१६॥
एक एवेश्वास्तस्मिन्सुरकार्ये सुरेश्वरः ।
विहर्तुकामस्तानाह सम्द्रोन्मथनादिभिः ॥१७॥
श्रीभगवानुवाच
हन्त ब्रह्मान्नहो शम्भो हे देवा मम भाषितम ।
श्रृणुतावहिताः सर्व श्रियो वह स्याद यथा सुराः ॥१८॥
यात दानवदैतेयैस्तावत सन्धिर्विधीयताम ।
कालेनानुगृहीतैस्तैर्यावद वो भव आत्मनः ॥१९॥
अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।
अहिमुषकवद देवा ह्रार्थस्य पदवींगतैः ॥२०॥
अमृतोप्तादने यत्नः क्रियतामविलम्बितम ।
यस्य पीतस्य वै जन्तुर्मत्युगस्तोऽमरो भवेत ॥२१॥
क्षिप्त्वा क्षीरोदधौ अर्वा वीरुत्तृणलतौषधीः ।
मन्थानं मन्दरं कृत्वांनेत्र कृत्वा तु वासुकिम ॥२२॥
सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः ।
क्लेशभजो भविष्यन्ति दैत्या युयं फलग्रहाः ॥२३॥
युंय तदनुमोदध्वं यदिच्छन्त्यसुराः सुराः ।
न संरम्भेण सिध्यन्ति सर्वेऽर्था सान्त्वया यथा ॥२४॥
न भेतव्यं कालकुटाद विषाज्जलधिसम्भवात ।
लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥२५॥
श्रीशुक उवाच
इति देवान्समादिश्य भगवान्पुरुषोत्तमः ।
तेषामन्तर्धधे राजन्स्वच्छन्दगतिरेश्वरः ॥२६॥
अथ तस्मै भगवते नमस्कृत्य पितामह ।
भवश्च जग्मतुः स्वं स्वं धमोर्पयुर्बलिं सुराः ॥२७॥
दृष्ट्वारीनप्यसंयत्तात्र्जातक्षोभान्स्वनायकान ।
न्यषेधद दैत्याराट श्लोक्यः सन्धिविग्रहकालवित ॥२८॥
ते वैरोचनिमासीनं गुप्तं चासुरयुथपैः ।
श्रिया परमया जुष्टं जिताश्षमुपागमनः ॥२९॥
महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः ।
अभ्यभाषात तत सर्वं शिक्षित पुरुषोत्तमात ॥३०॥
तदरोचत दैत्यस्य तत्रान्ये येऽसुराधिपाः ।
शम्बरोऽरिष्टनेमिश्चा ये च त्रिपुरवासिनः ॥३१॥
ततो देवसुराः कृत्वा संविदं कृतसौहृदा ।
उद्यमं परमं चक्रुरमृतार्थं परन्तपः ॥३२॥
ततसे मन्दरगिरिमोजसोप्ताट्य दुर्मदाः ।
नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥३३॥
दुरभारोद्वहश्रान्ता शक्रवैरोचनादयः ।
अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥३४॥
निपतन्स गिरिस्तत्र बहुनमरदानवान ।
चुर्णयामास महता भारेण कनकाचलः ॥३५॥
तांस्तथा भग्नमनसो भग्रबाअहुरुकन्धरान ।
विज्ञान भगवांस्त्रत्र बभुब गुरुडध्वजः ॥३६॥
गिरिपातविनिष्पिष्टान्विलोकयामरदानवान ।
ईक्षया जीवयामास निर्जरान निर्व्रणान्यथा ॥३७॥
गिरिं चारोप्य गरुडे हस्तेनैके लीलया ।
आरुह्या प्रययावब्धिं सुरासुरगणैर्वृतः ॥३८॥
अवरोप्य गिरिं स्कन्धांत सुपर्णः पततां वरः ।
ययौ जलन्त उत्सृज्य हरिणा स विसर्जितः ॥३९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽमृतमथने मन्दराचलानयनं नाम षष्ठोऽध्यायः ॥६॥