श्रीशुक उवाच
सत्यं समीक्ष्याब्जभवो नखेन्दुभिर्हतस्वधामद्युतिरावृतोऽभ्यगात ।
मरीचिमिश्रा ऋषयो बृहदव्रताः सनन्दनाद्या नरदेव योगिनः ॥१॥
वेदोपवेदा नियमान्विता यमा स्तर्केतिहासांगपुराणसंहिताः ।
ये चापरे योगसमीरदीपित ज्ञानग्निना रन्धितकर्मकल्मषाः ।
ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ॥२॥
अथांड्घ्रये प्रोन्नमिताय विष्णोरुपाहरत पद्मभवोऽर्हणोदकम ।
समर्च्य भक्त्याभ्यगृणाच्छुचिश्रवा यन्नाभिपकेंरुहसंभवः स्वयम ॥३॥
धातुः कमण्डलुजलं तदरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र ।
स्वर्धुनभुन्नभसि सा पतती निमार्ष्टि लोकत्रयं भगवती विशदेव कीर्तिः ॥४॥
ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः ।
सानुगा बलिमाजह्रुः संक्षिप्तात्मविभुतये ॥५॥
तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः ।
धुपैर्दीपैः सुरभिभिर्लाजाक्षतफलांकुरैः ॥६॥
स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमांकितैः ।
नृत्यवादित्रगीतैश्च शंखदुन्दुभिनिःस्वनैः ॥७॥
जाम्बवानृक्षराजस्तु भेरीशब्दैर्म्नोजवः ।
विजयं दिक्षु सर्वासु महोत्सवमघोषयत ॥८॥
महीं सर्वा हृतां दृष्टां त्रिपदव्याजयाच्त्रया ।
ऊचुः स्वभर्तुरसुरां दीक्षितस्यात्यमर्षिताः ॥९॥
न वा अयं ब्रह्माबन्धुर्विष्णुर्मायाविनां वरः ।
द्विजरुपप्रतिच्छन्नो देवकार्य चिकीर्षति ॥१०॥
अनेन याचमानेन शत्रुणा बटुरुपिणा ।
सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥११॥
सत्यव्रतस्य सततं दीक्षितस्य विशेषतः ।
नानृतं भाषितुं शक्यं ब्रह्माण्यस्य दयावतः ॥१२॥
तस्मादस्य वधो धर्मो भर्तुः शुश्रुषणं च नः ।
इत्यायुधानि जगृहर्बलेरनुचरासुराः ॥१३॥
ते सर्वे वामनं हन्तुं शुलपटिटशपाणयः ।
अनिच्छतो बले राजन प्राद्रवत्र्जातमन्यवः ॥१४॥
तनभिद्रवतो दृष्ट्वा दितिजानीकपान नृप ।
प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥१५॥
नन्दः सुनन्दोऽथ जयो विजयः प्रबलो बलः ।
कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिराट ॥१६॥
जयन्तः श्रुतदेवश्च पुष्पदन्त्योऽथ सात्वतः ।
सर्वे नगायुतप्राणाश्चमुं ते जघ्रुरासुरीम ॥१७॥
हन्यमानान स्वकान दृष्ट्वा पुरुषानुचरैर्बलिः ।
वारयामास संरब्धान काव्यशापम्नुस्मरन ॥१८॥
हे विप्रचित्ते हे राहो हे नेमे श्रुयतां वचः ।
मा युध्यतं निवर्तध्वं न नः कालिय़मर्थकृत ॥१९॥
यः प्रभुः सर्वभुतानां सुखदुःखोपपत्तये ।
तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान ॥२०॥
यो नो भवाय प्रागासीदभवाय दिवौकसाम ।
स एव भगवानद्य वर्तते तद्विपर्ययम ॥२१॥
बलेन सचिवैर्बुद्धय दुर्गैर्मन्त्रौषधादिभिः ।
सामादिभिरुपायैश्च कलं नात्येति वै जनः ॥२२॥
भवद्भिर्निर्जिता ह्योते बहुशोऽनुचरा हरेः ।
दैवेनद्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥२३॥
एतान वयं विजेष्यामो यदि दैवं प्रसीदति ।
तस्मात कालं प्रतीक्षध्वं नोऽर्थत्वाय कल्पते ॥२४॥
श्रीशुक उवाच
पत्युर्निगदितं श्रुत्वा दैत्यदानवयुथपः ।
रसां निविविशु राजन विष्णुपार्षदताडिताः ॥२५॥
अथ तार्क्ष्यसुतो ज्ञात्वा विराट प्रभुचिकीर्षितम ।
बबन्ध वारुणैः पाशैर्बलिं सौत्येऽहनि क्रतौ ॥२६॥
हाहाकारो महानासीद रोदस्योः सर्वतोदिशम ।
गृह्मामाणेऽसुरपतौ विष्णुन प्रभाविष्णुना ॥२७॥
तं बद्धं वारुणैः पाशैर्भगवानाह वामनः ।
नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥२८॥
पदानि त्रीणि दत्तानि भुमेर्मह्यां त्वयासुर ।
द्वाभ्यां क्रान्ता मही सर्व तृतीयमुपकल्पय ॥२९॥
यावत तपत्यसौ गोभिर्यावदिन्दुः सहोडुभिः ।
यावद वर्षति पर्जन्यस्तावती भुरियं तव ॥३०॥
पदैकेन मया क्रान्तो भुर्लोकः खं दिशस्तनोः ।
स्वर्लोकस्तु द्वितीयेन पश्यतस्ते स्वमात्मना ॥३१॥
प्रतिश्रुतमदास्ते निरये वास इष्यते ।
विश त्वं निरयं तस्माद गुरुणा चानुमोदितः ॥३२॥
वृथा मनोरथस्तस्य दुरे स्वर्गः पतत्यधः ।
प्रतिश्रुतस्यादानेन योऽर्थिनं विप्रलम्भते ॥३३॥
विप्रलब्धो ददामीति त्वयाहं चाढ्यमानिना ।
तदव्यलीकफलं भुंक्ष्व निरयं कतिचित समाः ॥३४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे वामनप्रादुर्भावे बलिनिग्रहो नामैकविंशोऽध्यायः ॥२१॥