श्रीशुक उवाच
एवं व्यवसितो बुद्धया समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ॥१॥
गजेन्द्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम ।
पुण्यषयादिबीजाय परेशायाभिधीमहि ॥२॥
यस्मिन्निदं यतश्चेदं येदेन य इदं स्वयम ।
योऽस्मत परस्माच्च परस्तं प्रपद्ये स्वयम्भुवस ॥३॥
यः स्वात्मनीदं निजमययार्पितं क्वचिद विभातं क्व च तत तिरोहितम ।
अविद्धदृक साक्ष्युभयं तदीक्षते स आत्ममुलोऽवतु मां परात्परः ॥४॥
कालेन पंचत्वमितेषु कृस्त्न लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदोऽऽसीद गहनं गभीरं यस्तस्य पारेऽभिविरजते विभुः ॥५॥
न यस्य देवा ऋषयः पदं विदु र्जन्तुः पुनः कोऽर्हति गन्तुमीरितुम ।
यथा नटस्यकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणःस मावतु ॥६॥
दिदृक्षवो यस्य पदं सुमंगलं विमुक्तसंगा मुनयः सुसाधवः ।
चरन्त्यलोकव्रतमव्रणं वने भुततात्मभुताः सुहृदः स मे गतिः ॥७॥
न विद्यते यस्य च जन्म कर्म वा न नामरुपे गुणदोष एव वा ।
तथापि लोकाप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छति ॥८॥
तस्मै नमः परेशाय ब्रह्माणेऽनन्तशक्तये ।
अरुपायोरुरुपाय नम आश्चर्यकर्मणे ॥९॥
नम आमप्रदीपाय साक्षिये प्रमात्मने ।
नमो गिरां विदुराय मनसश्चेतसामापि ॥१०॥
सत्वेन प्रतिलभाय नैष्कम्येण विपश्चिता ।
नमः कैवल्यनाथय निराणसुखसंविदे ॥११॥
नमः शान्ताय घोराय मुढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥१२॥
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षय साक्षिणे ।
पुरुशायात्ममुलाय मुलप्रकृतये नमः ॥१३॥
सवेन्द्रियागुणद्रहे सर्वप्रत्ययहेतवे ।
असत छाययोक्ताय सदाभासाय ते नमः ॥१४॥
नमो नमस्तेऽखिलकारणाय निश्कारणायद्भुतकारणाय ।
सर्वागमाम्रायमहार्णवाय नमोऽपवर्गय परायणाय ॥१५॥
गुणरणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फुर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ॥१६॥
माऋक्प्रपनपशुपाशविमोक्षणाय मुक्ताय भुरिकरुणाय नमोऽलयाय ।
स्वांशेन सर्वतनुभृन्मनासि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ॥१७॥
आत्मात्मजाप्तगृहवितत्तजेनेषु सक्ते र्दुष्प्रापणाय गुणसंगविवर्जिताय ।
मुक्तात्मभिः स्वहृदये परिभावितय ज्ञानात्मने भगवते नम ईश्वराय ॥१८॥
यं धर्मकमार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्रुवन्ति ।
किं त्वाशिषो रात्यपि देहमाव्ययं करोतु मेऽदभ्रदयो विमोक्षणम ॥१९॥
एकान्तितो यस्य न कंचनार्थ वाच्छन्ति ये वै भगवत्प्रपत्राः ।
अत्यद्भुतं तच्चरितं सुमंगलं गायन्तं आनन्दसमुद्रमग्नाः ॥२०॥
तमक्षरं ब्रह्मा परं परेश मव्यक्तमाध्यात्मिकयोगगम्यम ।
अतीन्द्रियं सुक्ष्ममिवातिदुर मनन्तमाद्यं परिपुर्णमीडे ॥२१॥
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः ।
नामरुपविभेदेन फल्ग्वया च कलया कृताः ॥२२॥
यथार्चिषोऽग्रेः सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत स्वरोचिषः ।
तथा यतोऽयंगुणसंप्रवाहो बुद्धीर्मनः खानि शरीरसर्गाः ॥२३॥
स वै न देवासुरमर्त्यतिर्यड न स्त्री न षन्ढो न पुमान न जन्तुः ।
नायं गुणः कर्म न सन्न चासन निषेधशेषो जयतादशेषः ॥२४॥
जिजीविषे नाहमिहामुया कि मन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम ॥२५॥
सोऽहं विश्चसुजंविश्वमविभं विश्ववेदसम ।
विश्वात्मानमजं ब्रह्मा प्रणतोऽस्मि परं पदम ॥२६॥
योगरन्धितकर्माणो हृदि योगविभावितो ।
योगिनो यं प्रपंश्यन्ति योगेशं तं नतोऽस्मयहम ॥२७॥
नमो नमस्तुभ्यमसह्रावेग शक्तित्रयायखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये कदीन्द्रियाणामन्वाप्यवर्त्मने ॥२८॥
नायं वेद स्वमात्मान यच्छक्त्याहंधिया हतम ।
तं दुरत्ययमाहात्म्यं भगवन्तमितोऽस्महम ॥२९॥
श्रीशुक उवाच
एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिंगंभिदाभिमानाः ।
नैते यदोपससृपुर्निखिलात्मकत्वत तत्राखिलामरमयो हरिराविरासीत ॥३०॥
तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः ।
छन्दोमयेन गुरुडेन समुह्रामान श्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥३१॥
सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्टा गरुत्मति हरिं ख उपात्तचक्रम ।
उत्क्षित्य साम्बुजकरं गिरमाह कृच्छ्रा न्नाराय्णाखिलगुरो भगवन नमस्ते ॥३२॥
तं वीक्ष्यं पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपयोज्जहार ।
ग्रहाद विपाटितमुखादरिणा गजेन्द्रं संपश्यतां हरिरमुमुचदुस्त्रियाणाम ॥३३॥
इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितयामष्टमस्कन्धे गजेन्द्रमोक्षणे तृतीयोऽध्यायः ॥३॥