श्रीशुक उवाच
इत्युक्तवन्तं पुरुषं पुरातनं महानुभावोऽखिलसांधुसंमतः ।
बद्धात्र्जलिर्बाष्पकलाकुलेक्षणो भक्त्युद्गलो गद्गदया गिराब्रवीत ॥१॥
बलिरुवाच
अहो प्रनामाय कृतः समुद्यमः प्रपन्नभक्तार्थ्विधौ समाहिताः ।
यल्ल्कपालैस्त्वदनुग्रहोऽमरैः रलब्धपुर्वोऽपसदेऽसुरेर्पितः ॥२॥
श्रीशुक उवाच
इत्युक्त्वा हरिमानम्यः ब्रह्माणं सभवं ततः ।
विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥३॥
एवमिन्द्राय भगवान प्रत्यानीय त्रिविष्टपम ।
पुरयित्वादितेः काममशासत सकलं जगत ॥४॥
लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम ।
निशाम्य भक्तिप्रवणः प्रह्लाद इदमब्रवीत ॥५॥
प्रह्लाद उवाच
नेमं विरित्र्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ते ।
यन्नोऽसुराणामसि दुर्गपालो विश्वभिवन्द्यैरपि वन्दितांघ्रिः ॥६॥
यत्पादपद्मकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्रुवते विभुतीः ।
कस्माद वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥७॥
चित्रं तवेहित्रमहोऽमितयोगमायालीलाविसृष्टभुवनस्य विशारदस्य ।
सर्वात्मन समदृशो विषमः स्वभावो भक्तप्रियो यदसि कल्पतरुस्वभावः ॥८॥
श्रीभगवानुवाच
वत्स प्रह्लाद भद्रं ते प्रयाहि सुतलालयम ।
मोदमानः स्वपौत्रेण ज्ञातिनां सुखमावह ॥९॥
नित्यं द्रष्टासि मां तत्र गदापाणि मवस्थितम ।
मद्दर्शनमहाह्लादध्वस्तद्कर्मनिबन्धनः ॥१०॥
श्रीशुक उवाच
आज्ञां भगवतो राजन प्रह्रादो बलिना सह ।
बाढमित्यमलप्रज्ञो मुर्ध्याधाम कृतात्र्जालिः ॥११॥
परिक्रम्यादिपुरुषं सर्वासुरचमुपतिः ।
प्रणत्स्तदनुज्ञात प्रविवेश महाबिलम ॥१२॥
अथाहोशनसं राजन हरिर्नारयमोऽन्तिके ।
आसीनमृत्विजां मध्ये सदसि ब्रहमवादिनाम ॥१३॥
श्रीभगवानुवाच
ब्रह्मान संतनु शिष्यस्य कर्मच्छिद्रं वितन्वतः ।
यत तत कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत ॥१४॥
कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान ।
यज्ञेशो यज्ञपुरुषः सर्वभावेन पुजितः ॥१५॥
मन्त्रतस्तन्त्रताश्छिद्रंक देशकालर्हवस्तुतः ।
सर्व करोति निश्छिद्रं नामसंकीर्तनं तंव ॥१६॥
तथापि वदतो भुमन करिष्याम्यनुशासनम ।
एतच्छ्रेयः परं पुंसांक यत तवाज्ञानुपालनम ॥१७॥
श्रीशुक उवाच
अभिनन्द्य हरेराज्ञामुशना भगवानिति ।
यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥१८॥
एवं बलेर्महीं राजन भिक्षित्वा वामनो हरिः ।
ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत परैर्हृतम ॥१९॥
प्रजापतिपतिर्ब्रह्मा देवर्षितिपितृभुमिपैः ।
दक्षभृग्वागिंरोमुख्यैः कुमारेण भवेन च ॥२०॥
कश्यपस्यादितेः प्रीत्यै सर्वभुतभवाय च ।
लोकांना लोकपालानामकरोद वामनं पतिम ॥२१॥
वेदानां सर्वदेवांना धर्मस्य यशसः श्रियः ।
मंगलनां व्रतानां च कल्पं स्वर्गापवर्गयो ॥२२॥
उपेन्द्रं कल्पयात्र्चकें पतिं सर्वविभुतये ।
तदा सवाणि भुतानि भृशं मुमुदिरे नृप ॥२३॥
ततस्तिन्द्रः पुरस्कृत्य देवयानेन वामनम ।
लोकपालैदिवं निन्ये ब्रह्माणा चानुमोदितः ॥२४॥
प्राप्य त्रिभुवनं चेन्द्रः उपेन्द्रभुजपालितः ।
श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥२५॥
ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप ।
पितरः सर्वभुतानि सिद्धा वैमानिकाश्च ये ॥२६॥
सुमहत कर्म तद विष्णोर्गायन्तः परमाद्भुतम ।
धिष्णानि स्वानि ते जग्मुरदितिं च शंशसिरे ॥२७॥
सर्वमेतन्मयाऽऽख्यातं भवतः कुलनन्दन ।
उरुक्रमस्य चरितं श्रोतुनामघमोचनम ॥२८॥
पारं महिम्र उरु विक्रमतो गृणानो यः पार्थिवानि विममे स रजांसि मर्त्यः ।
किं जायमान उत जात उपैतिं मर्त्य इत्याह मन्त्रदृगृषिः पुरुषस्य यस्य ॥२९॥
य इदं देवदेवस्य हरेरद्भुतकर्मणः ।
अवतरानुचरितं श्रुण्वनं याति परां गतिम ॥३०॥
क्रियमाणे कर्मणीदं दैवे पित्र्येऽथ मानुषे ।
यत्र यत्रानुकेर्त्येत तत तेषां सुकृतं विदुः ॥३१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितयामष्टमस्कन्धे वामनावतारचरिते त्रयोविंशोऽध्यायः ॥२३॥