अष्टमः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा ।

हृते त्रिविष्टपे दैत्येः पर्यतप्यदनाथवत ॥१॥

एकदा कश्यपस्तस्या आश्रमंभगवानगात ।

निरुत्सवं निरानन्दं समाधेर्विरताश्चिरात ॥२॥

स पत्‍नीं दीनवदनां कृतसनपरिग्रहः ।

सभाजितो य्थान्यायमिदमह क्रुरूद्वह ॥३॥

अप्यभद्रं न विप्राणांभद्रे लोकेऽधुना‍ऽऽगतम ।

न धर्मस्य न लोकस्यमृत्योश्छन्दानुवर्तिनः ॥४॥

अपि वाकुशलं किचिद गृहेषु गृहमेधिनि ।

धर्मस्यार्थस्य कामस्य यत्र योगो ह्रायोगिनाम ॥५॥

अपि वातिथयोऽभ्येत्य कुटुम्बासक्तया त्वया ।

गृहादपुजिता याताः प्रत्युत्थानेन वा क्वचित ॥६॥

गृहेष येष्वातिथयो नार्चिताः सलिलैरपि ।

यदि निर्यान्ति तेनुनं फेरुराजगृहोपमाः ॥७॥

अप्यग्नयस्तु वेलायां न हुता हविषा सति ।

त्वयोद्विग्नाधिय भद्रे प्रोषिते मयि कर्हिचित ॥८॥

यत्पूजय कमदुघन्यति लोकन्गुहान्वितः ।

ब्रह्मणो‍ऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम ॥९॥

अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनी ।

लक्ष्ये‍ऽस्वस्थमात्मानं भवत्या लक्षणैरहम ॥१०॥

अदितिरुवाच

भद्रं द्विजगवां ब्रह्मन्धर्मस्यास्य जनस्य च ।

त्रिवर्गस्य परं क्षेत्रं गृहमेधिन्गृहा इमे ॥११॥

अग्नयोऽतिथयो भृत्या भिक्षवो ये च लिप्सवः ।

सर्वं भगवतो ब्रह्मान्ननुधान्नान्न रिष्यति ॥१२॥

को नु मे भगवन्कामो न सम्पद्येत मानसः ।

यस्या भ्वान्प्रजाध्यक्ष एवं धर्मान्प्रभाषते ॥१३॥

तवैव मारीच मनःशरीरजः प्रजा इमाः सत्त्वरजस्तमोजुषः ।

समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥१४॥

तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत ।

ह्रुतश्रिय्यो हृतस्थानान्सपत्‍नैः पाहि नः प्रभो ॥१५॥

परैर्विवासिता साहम मग्ना व्यसनसागरे ।

ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥१६॥

यथा तानि पुनः साधो प्रपद्येरन ममात्मजः ।

तथा विधोहि कल्याणं धिय कल्याणकृत्तम ॥१७॥

श्रीशुक उवाच

एवमभ्यार्थितोऽदित्या कस्तामाह स्मयन्निव ।

अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत ॥१८॥

क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।

कस्य के पतिपुत्राद्या मोह एव हि कारणम ॥१९॥

उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम ।

सर्वभुतगुहावासं वासुदेवं जगद्गुरुम ॥२०॥

स विधार्स्यते ते कामान्हरिर्दीनानुकम्पनः ।

अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥२१॥

अदिरिरुवाच

केनाहं विधिना ब्रह्मान्नुपस्थास्ये जगत्पतिम ।

यथा मे सत्यसंकल्पो विदध्यात स मनोरथम ॥२२॥

आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम ।

आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥२३॥

कश्यप उवाच

एतन्मे भगवान्पृष्टः प्रजाकामस्य पद्मजः ।

यदाहते प्रवक्ष्यामि व्रतं केशवतोषणम ॥२४॥

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः ।

अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥२५॥

सिनीवाल्यां मृदाऽऽलिप्य स्नायात क्रोडविदीर्णया ।

यदि लभ्येत वै स्रोतस्येतं सन्त्रमुदीरयेत ॥२६॥

त्वं देव्यदिवराहेण रसायाः स्थानमिच्छता ।

उदधृतसि नमस्तृभ्यं पाप्मानं मे प्रणाशय ॥२७॥

निर्वर्तिताम्यनियमो देवमर्चेत समाहितः ।

अर्चायां स्थण्डिले सुर्ये जले वह्नौ गुरावपि ॥२८॥

नमस्तुभ्यं भगवते पुरुषाय महीयसे ।

सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥२९॥

नमोऽव्यक्ताय सुक्ष्माय प्रधानपुरुषाय च ।

चतुर्विशद्गुणज्ञाय युगसंख्यानहेतवे ॥३०॥

नमो द्विशीर्ष्णै त्रिपदे चतुः श्रुऋगाय तन्तवे ।

सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥३१॥

नमः शिवाय रुद्रय नमः शक्तिधराय च ।

सर्वविद्याधिपतये भुतानां पतये नमः ॥३२॥

नमो ह्रन्यगर्भाय प्रणाम जगदात्ममे ।

योगेश्वर्यशरीराय नमस्ते योगहेतवे ॥३३॥

नमस्त आदिदेवय साक्षिभुताय ते नमः ।

नारायणम ऋषये नरयहरये नमः ॥३४॥

नमो मरकतश्यामवपुषेऽधिगताश्रिये ।

केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥३५॥

त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ ।

अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥३६॥

अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।

स्प्रुहन्त इवामोदं भगवान्मे प्रसीदताम ॥३७॥

एतैर्मन्त्रैर्हृषीकेशमावाहनम्पुरस्कृतम ।

अर्चयेच्छ्रद्धय युक्तः पाद्योपस्पर्शनादिभिः ॥३८॥

अर्चित्वा गन्धमाल्याद्यैः पयस स्नपयेद विभुम ।

वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः ।

गन्धधुपादिभिश्चार्चेद द्वादशाक्षरविद्यया ॥३९॥

श्रृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ।

ससर्पिः सगुडं दत्वा जुहुयान्मुलविद्यया ॥४०॥

निवेदितं तद भक्ताय दद्याद भुत्र्जीत वा स्वयम ।

दत्वाऽऽचमनर्चित्वा ताम्बुलं निवेदयेत ॥४१॥

जपेदष्टोत्तरशतं स्तुवीत सुतिभिः प्रभुम ।

कृत्वा प्रदक्षिणं भुमौ प्रणमेद दण्डवन्मुदा ॥४२॥

कृत्वा शिरसि तच्छेषां देवमुद्वासयेत ततः ।

द्वयवरान्भोजयेद विप्रन्पायसेन यथोचितम ॥४३॥

भुत्र्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः ।

ब्रह्माचार्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहानि ॥४४॥

स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ।

पयसा स्नापयित्वार्चेद यावदव्र्तसमापनम ॥४५॥

पयोभक्षो व्रतमिदं चरेद विष्ण्वर्चनादृतः ।

पुर्ववज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत ॥४६॥

एवं त्वहरहः कुर्याद द्वादशाहं पयोव्रतः ।

हरेराराधनं होममर्हणं द्विजतर्पणम ॥४७॥

प्रतिपद्दिनमारभ्य यावच्छुक्लत्र्योदशी ।

ब्रह्माचर्यमधः स्वप्रं स्नानं त्रिषवणं चरेत ॥४८॥

वर्जयेदसदालापं भोगानुच्चावचांस्तथा ।

अहिंस्त्रः सर्वभुतानां वासुदेवपरायणः ॥४९॥

त्रयोदश्यामथो विष्णोः स्नपनं पंच्कैर्विभोः ।

करयेच्चास्त्रदृष्टेन विधिना विधिकोविदैः ॥५०॥

पुजां च महतीं कुर्याद वित्तशाठ्यविवर्जितः ।

चरुं निरुप्य पयासि शिपिविष्टाय विष्णवे ॥५१॥

श्रुतेन तेन पुरुषं यजेत सुसमाहितः ।

नैवेद्यं चातिगुणवद दत्यात्पुरुषतुष्टिदम ॥५२॥

आचार्य ज्ञानसम्पन्नं वस्त्रभरणधेनुभिः ।

तोषयेदृत्विजश्चैव तद्विद्धयाराधनं हरेः ॥५३॥

भोजयेत तन गुणवता सदन्नेन शुचिस्मिते ।

अन्यांश्च ब्राह्मणात्र्छक्त्या ये च तत्र समागताः ॥५४॥

दक्षिणं गुरवे दद्यादृत्विगभश्च यथार्हतः ।

अन्नाद्येनाश्वपाकांश्च प्रीणयेत्समुपागतान ॥५५॥

भुक्तवत्सु च सर्वेषु दीनान्धकृपणेषु च ।

विष्णोस्तत्प्रीणनं विद्वन्भुत्र्जीत सह बन्धुभिः ॥५६॥

नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः ।

कारयेत्तत्कथाभिश्छ पुजां भगवतोऽन्वहम ॥५७॥

एतत्पयोव्रतं नाम पुरुषाराधनं परम ।

पितामहेनाभिहितं मया ते समुदाह्रुतम ॥५८॥

त्व चानेन महाभागो सम्यकचीर्णेन केशवम ।

आत्मना शुद्धभावेन नियतात्म भजाव्ययम ॥५९॥

अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम ।

तपः सारमिदं भद्रे दानं चेश्वरतर्पणम ॥६०॥

त एव नियमाः साक्षात्त एव च यमोत्तमाः ।

तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ॥६१॥

तस्मादेतद व्रतं भद्रे प्रयता श्रद्धया चर ।

भगवान्परितुष्टस्ते वरानाशु विधास्यति ॥६२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धेऽदितिपयोव्रतकथनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP