श्रीशुक उवाच
पृश्रिस्तु पत्नी सवितुः सावित्रीं व्यहृतिं त्रयीम ।
अग्निहोत्रं पशुं सोमं चतुर्मास्यं महामखान ॥१॥
सिद्धिर्भगस्य भार्यांग महिमांनां विभुं प्रभुम ।
आशिषं च वरारोहां कन्यां प्रासुतं सुव्रताम ॥२॥
धातुः कुहुः सिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रातः पुर्णमासमनुक्रमात ॥३॥
अग्नीन पुरीष्यानाधस्त क्रियांया समनन्तरः ।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥४॥
वाल्मीकीश्च महायोगी वल्मीकादभवत्किलः ।
अगस्त्यश्र्च वसिष्ठश्च मित्रावरुणयोऋषी ॥५॥
रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम ।
रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात ॥६॥
पौलोम्यामिन्द्र आधत्त त्रीन पुत्रानिति न श्रुतम ।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥७॥
उरुक्रमस्य देवस्य मायावामनरुपिण ।
कीर्तौ पत्न्यां बृहच्छलोकस्तस्यासन सौभगादयः ॥८॥
तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः ।
पश्चाद्वक्ष्यामहेऽदित्यां यथा वावरतार ह ॥९॥
अथ कश्यपदायादान दैतेयान कीर्तयामि ते ।
यत्र भागवतः श्रीमान प्रह्लादो बलिरेव च ॥१०॥
दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्णाम हिरन्याक्षश्च कीर्तितौ ॥११॥
हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी ।
जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान ॥१२॥
संह्रादं प्रागनुह्रादं ह्रादं प्रह्लादमेव च ।
तत्स्वदा सिंहिका नाम राहुं विप्रचितोऽग्रहीत ॥१३॥
शिरोऽहरद्यस्य हरिश्चकेण पिबतोऽमृतम ।
संह्रदस्य कृतिर्भार्याऽसुत पंचजनं ततः ॥१४॥
ह्रादस्य धमनिर्भार्याऽसुत वातापिमिल्वलम ।
योऽगस्त्याय त्वतिश्रये पेचे वातापिमिल्वलः ॥१५॥
अनुह्रादस्य मुर्म्यायां बाष्कलो महिषस्तथा ।
विरोचनस्तु प्राह्लदिर्देव्यास्तस्याभगद्वलिः ॥१६॥
बाणज्येष्ठं पुत्रशतशनायां ततोऽभवत ।
तस्यानुभावः सुश्लोक्यः पश्चादेवाभिधास्यते ॥१७॥
बाण आराध्यगिरिशं लेभे तद्गणमुख्यताम ।
यत्पार्श्व भगवानास्ते ह्राद्यापि पुरपालकः ॥१८॥
मरुतश्च दितेः पुत्राश्चत्वारिशंन्नवधिकाः ।
त आसन्नप्रजाः सर्व नीता इन्द्रेण सात्मताम ॥१९॥
राजोवाच
कथं त आसुरं भावमपोह्यौत्पत्तिकं गुरो ।
इन्द्रेण प्रापिताः सात्म्यं किं तत्साधु कृतं हि तैः ॥२०॥
इमे श्रद्दधते ब्रह्मान्नृषयो हि मया सह ।
परिज्ञानय भगवंस्तयो व्याख्यातुमर्हसि ॥२१॥
सुत उवाच
तद्विष्णुरातस्य स बादरायणि र्वचो निशम्यादृतमल्पमर्थवत ।
सभाजयन संनिभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥२२॥
श्रीशुक उवाच
हतपुत्रा दितीः शक्रपार्ष्णिग्राहेण विष्णुना ।
मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत ॥२३॥
कदा नु भ्रातृन्तारमिन्द्रियाराममुल्बणम ।
अक्लिन्नहृदयं पापं घातयित्व शये सुखम ॥२४॥
कृमिविडभस्मसंज्ञाऽऽसिद्यस्येशाभिहितस्य च ।
भुतध्रुक तत्कृते स्वार्थंकिं वेद निरयो यतः ॥२५॥
आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः ।
मदशोषक इन्द्रस्य भुयाद्येन सुतो हि मे ॥२६॥
इति भावेन सा भर्तुराचचारसक्रुत्प्रियम ।
शुश्रुषयानुरागेण प्रश्रयेण दमेन च ॥२७॥
भक्त्या परमया राजन मनोज्ञैर्वग्लुभाषितैः ।
मनो जग्राह भावज्ञा सुस्मितापांगवीक्षणैः ॥२८॥
एवं स्त्रिया जडीभुतो विद्वानपि विदग्धया ।
बाढमित्याह विवशो न तच्चित्रं हि योषिति ॥२९॥
विलोक्यैकान्तभुतानि भुतान्यादौ प्रजापतिः ।
स्त्रियं चक्रे स्वदेहार्ध यया पुंसां मतिर्हृता ॥३०॥
एवं ; शुश्रुषितस्तात भगवान कश्यपःस्त्रिया ।
प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥३१॥
कश्यप उवाच
वरं वरय वामोरु प्रीतस्तेऽहमनिन्दिते ।
स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥३२॥
पतिरेव हि नारीणां दैवतं परमं स्मृतम ।
मानसः सर्वभुतानां वासुदेवः श्रियः पतिः ॥३३॥
स एव देवतालिंगौर्नामरुपविकल्पितौः ।
इज्यते भगवान पुम्भिः स्त्रीभिश्च पतिरुपधृक ॥३४॥
तस्मात्पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे ।
यजन्तेऽनन्यभावेन पतिमात्मानमीश्वरम ॥३५॥
सोऽहं त्वयार्चितो भद्रें ईद्रग्भावेन भक्तितः ।
तत्तेसम्पादये काममसतीनां सुदुर्लभम ॥३६॥
दितिरुवाच
वरदो यदि मे ब्रह्मान पुत्रमिन्द्रहणं वृणे ।
अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥३७॥
निशम्य तद्वचो विप्रो विमनः पर्यतप्यत ।
अहो अधर्मः सुमहानद्य मे समुपस्थितः ॥३८॥
अहो अद्येन्द्रियारामो योषिन्मय्येह मायया ।
गृहितचेताः कृपणः पतिष्ये नरके ध्रुवम ॥३९॥
कोऽतिक्रमोऽनुवर्तन्त्याः स्वभावमिह योषितः ।
धिड मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥४०॥
शरत्पदमोत्सवं वक्त्रं वचश्च श्रवनामृतम ।
हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम ॥४१॥
न हि कश्चित्प्रियः स्त्रीणामत्र्जसा स्वाशिषात्मनाम ।
पतिं पुत्रं भ्रातंर वा घ्रन्त्यर्थे घातयन्ति च ॥४२॥
प्रतिश्रुतं ददामीति वचस्तत्र मृषा भवेत ।
वंधंनर्हति चेन्द्रो७पि तत्रेदमुपकल्पते ॥४३॥
इति संचिन्त्य भगवान्मारीचः कुरुनन्दन ।
उवाच किचितकुपित आत्मानं च विगर्हयन ॥४४॥
कश्यप उवाच
पुत्रस्ते भविता भद्रे इन्द्रहा देवबान्धवः ।
संवत्सरं व्रतमिदं यद्यत्र्जो दहरयिष्यसि ॥४५॥
दितिरुवाच
धारयिष्ये व्रतं ब्रह्मान्ब्रुहि कार्याणि यानि मे ।
यानि चेह निषिद्धानि न व्रतं घ्रान्ति यानि तु ॥४६॥
कश्यप उवाच
न हिंस्याद्भुतजातानि न शपेन्नानृतं वदेत ।
न च्छिन्द्यान्नखरोमाणि न स्पृशेद्यमंगलम ॥४७॥
नाप्सु स्नायान्न कुप्येत न सम्भाषेत दुर्जनैः ।
न वासेताधौतवासः स्रजं च विधृतां क्वचित ॥४८॥
नोच्छिष्टंचण्डिकान्नं च सामिषंवृषाहृतम ।
भुत्र्जीतोदक्यया द्रुष्टं पिबेदत्र्जलिना त्वपः ॥४९॥
नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमुर्धजा ।
अनर्चितासंयतवाड नासंवीता बहिश्चरेद ॥५०॥
नाधौतपादाप्रयता नार्द्रपान्नो उदक्शिराः ।
शयीत नापरांगनान्यैर्न नग्ना न च सन्ध्यायोः ॥५१॥
धौतवासः शुचिर्नित्यं सर्वमंगलसंयुता ।
पुजयेत्य्प्रातराशात्प्राग्गोविप्रान श्रियमच्युतम ॥५२॥
स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः ।
पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम ॥५३॥
सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम ।
धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥५४॥
बाढमित्यभिप्रेत्याथ दिती राजन महामनाः ।
काश्यपं गर्भमाधत्तः व्रतं चात्र्जो दधार सा ॥५५॥
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ।
शुश्रुषणेनाश्रमस्थां दितिं पर्यचरत्कविः ॥५६॥
नित्यं वनात्सुमनसः फलमुलसमित्कुशान ।
पत्रांकुरमृदोऽपश्च काले काल उपाहरत ॥५७॥
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नुप ।
प्रेप्सुः पर्यचरज्जिह्यो मृगहेव मृगाकृतिः ॥५८॥
नाध्यगच्छदव्रतच्छिद्रं तत्परोऽथ महीपते ।
चिन्तां तीव्रागतःशक्र केन मे स्याच्छिवं त्विहः ॥५९॥
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता ।
अस्पृष्टवार्यधौतांगघ्रिः सुष्वाप विधिमोहिता ॥६०॥
लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।
दितेः प्रविष्ट उदरं योगेशौ योगमायया ॥६१॥
चकर्त सप्तधा गर्भ वज्रेण कनकप्रभम ।
रुदन्तं सप्तधैकैकं मा रोदीरीति तान पुत्रः ॥६२॥
ते तमुचुः पाट्यमानाः सर्वे प्रात्र्जलयो नृप ।
नो जिघांससि किमिन्द्र भ्रातरो मरुतस्तव ॥६३॥
मा भैष्ट भ्रातरो मह्रां युयमित्याह कौशिकः ।
अनन्यभावान पार्षदानात्मनो मरुतां गणान ॥६४॥
न ममार दितेर्गर्भः श्रीनिवासनुकम्पया ।
बहुधा कुलिशक्षुण्णोद्रौण्यस्त्रेण यथा भवान ॥६५॥
सकृदिष्ट्वाऽऽदिपुरुषं पुरुषो याति साम्यताम ।
संवत्सरं कित्र्चिदुंनं दित्यां यद्धरिरर्चितः ॥६६॥
सजुरिन्द्रेण पंचाशद्देवास्ते मरुतोऽभवन ।
व्यपोह्या मातृदोषं ते हरिणा सोमपाह्कृताः ॥६७॥
दितिरुत्थाय ददृशे कुमाराननलप्रभान ।
इन्द्रेण सहितान देवी पर्यतुष्यदनिन्दिता ॥६८॥
अथेन्द्रमाह तातामहादित्यांना भयावहम ।
अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम ॥६९॥
एकः संकल्पितः पुत्रः सप्त सत्पाभवन कथम ।
यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥७०॥
इन्द्र उवाच
अम्ब तेऽहं व्यवस्तितमुपधार्यागतोऽन्तिकम ।
लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धीने धर्मवित ॥७१॥
कृत्तो मे सप्तधा गर्भ आसन सप्त कुमारकाः ।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥७२॥
ततस्तत्परमाश्चर्यं वीक्ष्याध्यवसितं मया ।
महापुरुषपुजायाः सिद्धिः काप्यनुषंगिणी ॥७३॥
आराधनां भगवत ईहमाना निराशिषः ।
येतुनेच्छन्त्यापि परं ते स्वार्थकुशलाः स्मृताः ॥७४॥
आराध्यात्मप्रदं देवं स्वत्मानं जगदीश्वरम ।
को वृणीते गुणस्पर्शं बुधः स्यन्नरकेऽपि यत ॥७५॥
तदिदं मम दौर्जन्यं बालिशस्यं महीयसि ।
क्षन्तुमर्हसि मातस्त्वं दिष्टा गर्भो म्रुतोत्थितः ॥७६॥
श्रीशुक उवाच
इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।
मरुद्धिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥७७॥
एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
मंगलं मरुतां जन्म किं भुयः कथयामि ते ॥७८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धे मरुदुत्पत्तिकथनं नामाष्टादशोऽध्यायः ॥१८॥