श्रीशुक उवाच
तस्यासन विश्वरुपस्य शिरांसि त्रीणि भारत ।
सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥१॥
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः ।
अवदद यस्य पितरो देवाः सप्रश्रयं नृप ॥२॥
स एव हि ददौ भागं परोक्षमसुरान प्रति ।
यजमानोऽवहद भागं मातृस्नेहवशानुगः ॥३॥
तद देवहेलनं तस्य धर्मालीकं सुरेश्वरः ।
आलक्ष्य तरसा बीतस्तच्छीर्षाण्यच्छिनद रुषा ॥४॥
सोमपीथं तु यत तस्य शिर आसीत कपित्र्जलः ।
कवविंकः सुरापीथमन्नादं यत स तित्तिरिः ॥५॥
ब्रह्माहत्यामत्र्जलिना जग्राह यदपीश्वरः ।
संवत्सरान्ते तदघं भुतानां स विशुद्धये ।
भुम्यम्भुद्रुगम्योषिदभ्यश्चुतुर्धा व्यभजद्धरिः ॥६॥
भुमिस्तुरीयां जग्राह खातपुरवरेण वै ।
ईरिणं ब्रह्माहत्याया रुपं भुमौ प्रदृश्यते ॥७॥
तुर्यं छेदविरोहेण वरेण जगृह्रुद्रुमाः ।
तेषां निर्यासरुपेण ब्रह्महत्या प्रदृश्यते ॥८॥
शश्वत्कामवरेणांहस्तुरीयं जगृहः स्त्रियः ।
रजोरुपेण तास्वंहो मासि मासि प्रदृश्यते ॥९॥
द्रव्यभुयोवरेणापस्तुरीयं जगृहुर्मलम ।
तासु बुदबुदफेनाभ्यां दृष्टं तद्धरति क्षिपन ॥१०॥
हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ।
इन्द्रशत्रो विवर्धस्व माचिंर जहि विद्विषम ॥११॥
अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ।
कृतान्त इव लोकानां युगान्तसमये यथा ॥१२॥
विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ।
दग्धशैलप्रतीकशं सन्ध्याभ्रानीकवर्चसम ॥१३॥
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनमः ॥१४॥
देदीप्यमाने त्रिशिले शुल आरोप्य रोदसी ।
नृप्यन्तमुन्नदन्तं च चालयन्तं पदा महीम ॥१५॥
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम ।
लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम ॥१६॥
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहः ।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्ण सर्वे दिशो दश ॥१७॥
येनावृता इमे लोकास्तमसाः त्वाष्टूमूर्तिना ।
स वै वृत्र इति प्रोक्ताः पापः परमदारुणः ॥१८॥
तं निजघ्नुरभिद्रुप्य सगणा विबुधर्षभाः ।
स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सोऽग्रसत तानि कृत्स्नशः ॥१९॥
ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः ।
प्रत्यत्र्चमादिपुरुषमुपतस्थुः समाहिताः ॥२०॥
देवा ऊचुः
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः ।
हराम यस्मै बलिमन्तकोऽसौ बिभेति यस्मादरणं ततो नः ॥२१॥
अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम ।
विनोपसर्पत्यपरं हि बालिशः श्वलागुलेनातितितर्ति सिन्धुम ॥२२॥
यस्योरुश्रृंगे जगतीं स्वनावं मनुर्यथाऽऽबध्य ततार दुर्गम ।
स एव नस्त्वाष्ट्रभयाद दुरन्तात त्राताऽऽश्रितान वारेइचरोऽपि नुनम ॥२३॥
पुरा स्वयम्भुरपि संयमाभ्म स्युदीर्णवतोर्मिरवैः कराले ।
एकोऽरविन्दात पतितस्ततार तस्माद भयाद येन स नोऽस्तु पारः ॥२४॥
य एक इशो निजमायया नः ससर्ज येनानु सृजाम विश्वम ।
वयं न यस्यापि पुरः समीहतः पश्याम लिंग पृथगीशमानिनः ॥२५॥
यो नः सपत्नैर्भृशमर्द्यमानान देवर्षितिर्यडनृषु नित्य एव ।
कृतावतारस्तनुभिः स्वमायया कृत्वाऽऽत्मसात पाति युगे युगे च ॥२६॥
तमेव देव वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम ।
व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥२७॥
श्रीशुक उवाच
इति तेषां महाराज सुराणामुपहितष्ठताम ।
प्रतीच्यां दिश्यभुदाविः शंखचक्रगदाधरः ॥२८॥
आत्मतुल्यैः षोडशर्भिर्विना श्रेवत्सकौस्तुभौ ।
पर्युपासितमुत्रिद्रशरदम्बुरुहे क्षणम ॥२९॥
दृष्ट्व तमवनो सर्व इक्षणाह्लादविक्लवाः ।
दन्डवत पतिता राजत्र्छनैरुत्थाय तुष्टुवुः ॥३०॥
देवा उचुः
नमस्ते यज्ञवीर्याय वयसे उत ते नमः ।
नमस्ते ह्रास्तचक्राय नमः सुपुरुहुतये ॥३१॥
यत ते गतीनां तिसृणामीशितुः परमं पदम ।
नार्वाचीनो विसर्गस्य धातुर्वैदितुमर्हति ॥३२॥
यत ते गतीनां तिसृणामिशितु परमं पदम ।
नीर्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥३२॥
ॐ नमस्तेऽस्तु भगवन नारायण वासुदेव अदिपुरुष
महापुरुष महानुभाव परमंगल परमकलुयाण
प्रमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर
लक्ष्मीनाथ परमहंस परिव्राजकेः परमेणात्मयोगसमाधिना
परिभावितपरिस्पूटपारमहंस्यदह्र्मेणोदघाटिततमः कपाटद्वरे
चित्तेऽपावृत आत्मलोक स्वयमुपलब्धनिजसुखानुभवो भवान ॥३३॥
दुरवबोध इव तवायं विहारयोगो
यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय
आत्मनैवाइक्रियमाणेन सगुणमगुणः
सृजसि पासि हरसि ॥३४॥
अथ तत्र भवान कीं देवदत्त्तवदिह
गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाऽकुशलं
फलमुपाददात्याहोस्विदात्माराम उपशमशील
समत्र्जसदर्शन उदास्त इति ह वाव न विदामः ॥३५॥
न हि विरोध उभयं भगवत्यपरिगणितगुणगणे
इश्वरेऽनवगाह्यामाहात्मेत्यऽर्वाची विकल्पवितक्रे
विचारप्रमाणाभासक्रुतर्क शास्त्रक लिलान्तः
करणाश्रयदुरवग्रहवादिनां विवादानवसर उपरत
समस्तमायामये केवल एवात्ममायामन्तर्धाय को
न्वर्थो दुर्घट इव भवति स्वरुपद्वयाभावात ॥३६॥
समविषममतींना मतमनुसरसि यथा रज्जुखण्ड
सर्पादिधियाम ॥३७॥
स एव हि पुनः सर्वस्तुनि वस्तुस्वरुपः
सर्वेश्वर सकलजनत्कारणकारणभुतः
सर्वप्रत्यागात्मत्वात सर्वगुनाभासोपलक्षित
एक एव पर्यवशेषितः ॥३८॥
अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा
सकृदवलीढ्या स्वमनसि निष्यन्दमानानवरत
सुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः
परमभागवता एकान्तिनो भगवति सर्वभुताप्रिय
सुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः
कथमु हवा एते मधुमथन पुनः स्वार्थकुशला
ह्यात्मप्रिय सुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां
विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥३९॥
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन
त्रिलोकमनोहरानुभाव तवैव विभुतये
दितिजदनुजादयश्चापि तेषामनुपक्रमसमयो
ऽयमिति स्वात्ममायया सुरनरमृगमिश्रित
जलचक्राकृतिभिर्यथापराधं दण्डं दण्ड्धर दधर्थ
एवमेनमपि भगवत्र्जहि त्वाष्ट्रामुत यदि मन्यते ॥४०॥
अस्माकं तावकानां तव नतानां तत ततामह ।
तव चरणनलिनयुगलध्यानानुबद्धहऋदयनिगडानां
स्वलिंगविवरणेनात्मसात्कृतानामनुकम्पानुरंजित
विश्दरुचिरशिशिरस्मितावलोकेन विगलितमधुर
मुखरसामृतकलया चान्तस्तापमनघार्हसि
शमयितुम ॥४१॥
अथ भगवंस्तवास्माभिरखिल जगदुप्तत्ति
स्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य
सकल्जीवनिकायानामन्तर्हृदयषु बहिरपि
च ब्रह्मप्रत्यगात्मसरुपेण प्रधानरुपेण च यथा
देशकालदेहावस्थाअनविशेष पदुपादानोपलम्भक
तयानुभवतः सरप्रत्ययसाक्षिण आकाशसहरीरस्य
साक्षात्परब्रह्माणः परमात्मनः कियानिह वा
अर्थविशेषो विज्ञापनीयः स्याद विस्फुलिंगा
दिभिरिव हिरण्यरेतसः ॥४२॥
अथ बह्गवंस्तवास्माबिह्रखिलजगदुप्तत्ति
स्थितिलयनिमित्तयमानदिव्यमायाविनोदस्य
सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च
ब्रह्माप्रत्यगात्मस्वरुपेण प्रधानरुपेण च यथा
देशकालदेहावस्थानविशेषं दतुपादानोपलाम्भक
तयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य
अर्थविशेषो विज्ञापनीयः स्याद विस्फुलिंगा
दिभिरिव हिरण्यरेतसः ॥४२॥
अत एव स्वयं तदुपकल्पयास्माकं भगवतः
परमगुरोस्तव चरणशतपलाशच्छायां विविध
वृजिनसंसरपरिश्रमोपशमनीमुपसृतानां वयं
यत्कामेनोपसादिताः ॥४३॥
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम ।
ग्रस्तानि येन न कृष्णं तेजास्यस्त्रायुधानि च ॥४४॥
हंसाय दह्ननिलयाय निरिक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय ।
सत्संग्रहाय भवपान्थनिजाश्रमाप्ता वन्ते परिष्टगतये हरये नमस्ते ॥४५॥
श्रीशुक उवाच
अर्थैवमीडिते राजन सादरं त्रिदशैर्हरिः ।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दितः ॥४६॥
श्रीभगवानुवाच
प्रेतोऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया ।
आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥४७॥
किं दुरापं मयि प्रीते तथापि विबुधर्षभाः ।
मय्येकान्तमतिर्नान्यन्मतो वात्छति तत्वावित ॥४८॥
न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक ।
तस्य तानिश्चतो यच्छेद यदि सोऽपि तथाविधः ॥४९॥
स्वयं नि श्रेयसं विद्वान न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वात्र्छतो हि भिषक्तमः ॥५०॥
मघवन यात भद्रं वो दध्यत्र्चंमृषिसत्तमम ।
विद्याव्रततपः सारं गात्रं याचत मा चिरम ॥५१॥
स वा अधिगतो दध्यंडश्विभ्यां ब्रह्मा निष्कलम ।
यद वा अश्वशिरो नाम तयोरमरतां व्यधात ॥५२॥
दध्यंडाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम ।
विश्वरुपाय यत प्रादात त्वष्टा यत त्वमधस्ततः ॥५३॥
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञऽगंनि दास्यति ।
ततस्तैरायुधश्रेष्ठो विश्वकर्माविनिर्मितः ।
येन वृत्राशिरो हर्ता मत्तेजौपबृहिंतः ॥५४॥
तस्मिन विनिहते युयं तेजोऽस्त्रायुधसम्पदः ।
भूयः प्राप्सथ भद्रं वो न हिंसन्ति च मत्परान ॥५५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धे नवमोऽध्यायः ॥९॥