श्रीशुक उवाच
इन्द्रमेवं समादिश्य भगवान विश्वभावनः ।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः ॥१॥
तथाभियाचितो देवैऋषिराथर्वणो महान ।
मोदमान उवाचेदं प्रहान्निव भारत ॥२॥
अपि वृन्दारका युयं न जानीथ शरीरिणाम ।
संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहृः ॥३॥
जिजीविषुणां जीवानामात्मा प्रेष्ठ इहेप्सितः ।
क उत्सहेत तं दातुं भिक्षमायाय विष्णवे ॥४॥
देवा ऊचुः
किं नु तद दुस्त्यजं ब्रह्मान पुंसां भुतानुकम्पिनाम ; ।
भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम ॥५॥
ननु स्वार्थपरो लोको न वेद परसंकटम ।
यदि वेद न याचेच नेति नाह यदीश्वरः ॥६॥
ऋषिरुवाच
धर्मं वः श्रोतुकामेन युयं मे प्रत्यदाहृताः ।
एष वः प्रियमात्मानं त्यजन्तं संत्यजाम्यहम ॥७॥
योऽध्रुवेणात्मना नाथा न धर्म यशः पुमान ।
ईहेत भुतदयया स शोच्यः स्थावरैरपि ॥८॥
एतावानव्ययो धर्म पुण्यश्लोकैरुपासितः ।
यो भुतशोकर्षाभ्यामात्मा शोचति हृष्यति ॥९॥
अहो दैन्यमहो कष्टं पारक्यैः क्षणभंगुरैः ।
यन्नोप्कुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥१०॥
श्रीशुक उवाच
एवं कृतव्यवसितो दध्यंडाथर्वस्तनुम ।
परे भगवति ब्रह्माण्यात्माने सन्नयत्र्जहौ ॥११॥
यताक्षासुमबोबुद्धीस्तत्वदृग ध्वतबन्धनः
आस्थितः परम योगं न देहं बुबुधे गतम ॥१२॥
अथेन्द्रो वज्रमुद्यम्न निर्मितं विश्वकर्मणा ।
मुने शक्तिभिरुत्सिक्तो भगवत्तेजसान्वित ॥१३॥
वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत ।
स्तुयमानो मुनिगणिस्त्रैलोक्यं हर्षयन्निव ॥१४॥
वृत्रमभ्यद्रवछेत्तुमसुरानीकयुथपैः ।
पर्यस्तमोजसा राजन क्रुद्धो रुद्र इवान्तकम ॥१५॥
ततः सुराणामसुरै रणः परमदारुणः ।
त्रेतामुखे नर्मदायामभवतः प्रथमे युगे ॥१६॥
रुद्रैर्वसुभ्जिरादित्यैरश्विभ्यां पितृवह्रिभिः ।
मरुद्भिऋभुभिः साध्यैर्विश्वेदेवैर्मरुप्ततिम ॥१७॥
दृष्व्ट्वा वज्रधरं शक्रं रोचमान स्वया श्रिया ।
नामृष्यन्नसुरा राजन मृधे वृत्रपुरः सराः ॥१८॥
नमुचि शम्बरोऽनर्वा द्विमुर्धा ऋषभोऽम्बरः ।
हयग्रीवः शंकुशिरा विप्रचित्तिरयोमुखः ॥१९॥
पुलोमा वृषपर्वा च प्रहेतिर्हितिरुत्कलः ।
दैतेया दानवा यक्षा रक्षांसि च सहस्त्रशः ॥२०॥
सुमालिमालिप्रमुखाः कर्तस्वरपरिच्छदाः ।
प्रतिविध्येन्द्रसेनाग्रं मृत्यारपि दुरासदम ॥२१॥
अभ्यर्दयन्नसंभ्रान्ताः सिंहनादेन दुर्मदाः ।
गदाभिः परिघैर्बाणैः प्रासमुद्गतोमरैः ॥२२॥
शुलैः परश्वधैः खंगैः शतघ्रीभिर्भुशुण्डिभिः ।
सर्वतोऽवाकिरन शस्त्रैरस्त्रैश्च विबुधर्षभान ॥२३॥
न तेऽदृश्यन्तं संछन्नाः शरजालैः समन्ततः ।
पुंखंनुपख्खपतितैर्ज्योतींषीवं नभोघनैः ॥२४॥
न ते शस्त्रास्त्रवर्षाघा ह्यसेदुः सुरसैनिकान ।
छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधाः ॥२५॥
अथ क्षीणास्त्रशस्त्रौधा गिरिश्रृंगद्र्मोपलैः ।
अभ्यवर्षन सुरबलं चिच्छिदुस्तांश्च पुर्ववत ॥२६॥
तानक्षतान स्वस्तिमतो निशाम्य शस्त्रास्त्रपुगैरथ वृत्रनाथाः ।
द्रुमैर्दृषिद्भिर्विविधाद्रिश्रृगैरविक्षतांस्तत्रसुरिन्द्रसैनिकान ॥२७॥
सर्वे प्रयासा अभवन विमोघाः कृता कृता देवगणेषु दैत्यैः ।
कृष्णानुकुलेषु यथा महत्सु क्षुदैः प्रयुक्ता रुशती रुक्षवाचः ॥२८॥
ते स्वप्रयासं वितथं निरिक्ष्यं हरावभक्तां हतयुद्धदर्पाः ।
पलायनायाजिमुखे विसृजय पतिं मनस्ते दधुरात्त सराः ॥२९॥
वृत्रोऽसुरांस्ताननुगान मनस्वी प्रधावतः प्रेक्ष्यं बभाष एतत ।
पलायितंक प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥३०॥
कालोपपन्नां रुचिरां मनस्विनामुवाच वाचं पुरुषप्रवीरः ।
हे विप्रचित्ते नमुचे पुलोमन मयानार्वत्र्छम्बर मे श्रृणुध्वम ॥३१॥
जातस्य मृत्युर्ध्रुव एष सर्वतः प्रतिक्रिया यस्य न चेह क्लृप्ता ।
लोको यशश्चाथ ततो यदि ह्यामं को नाम मृत्युं न वृणीत युक्तम ॥३२॥
द्वौ संमताविह मृत्यु दुरापौ यद ब्रह्मासंधारणया जितासुः ।
कलेवरं योगरतो विजह्याद यदग्रणीर्वीरशयेऽनिवृत्तः ॥३३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम दशमोऽध्यायः ॥१०॥