श्रीशुक उवाच
ऊचुतुर्मुतकोपान्ते पतितं मृतकोपमम ।
शोकाभिभुतं राजानं बोधयन्तौ सदुक्तिभिः ॥१॥
कोऽयं स्यात तव राजेन्द्र भवान यमनुशोचति ।
त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम ॥२॥
यथा प्रयान्ति संयान्ति स्रोतावेगेन वालुकाः ।
संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥३॥
यथा धानासु वै धाना भवान्ति न भवान्ति च ।
एवं भुतेषु भुतानि चोदितानीशमायया ॥४॥
वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।
जन्ममृत्योर्यथा पश्चात प्राड्नैवमधुनापि भोः ॥५॥
भुतैर्भूतानि भुतेशः सृजत्यवति हन्त्यजः ।
आत्मसृष्टैरस्वन्त्रैरनपेक्षोऽपि बालवत ॥६॥
देहेन देहिनो राजन देहाद्देहोऽभिजायते ।
बीजादेव यथा बीजं देह्यार्थ इव शाश्वतः ॥७॥
देहदेहिविब्व्होऽयमविवेककृतः पुरा ।
जातिव्यक्तिविभागोऽयं यथा वस्तुरि कल्पितः ॥८॥
श्रीशुक उवाच
एवमाश्वासितो राजा चित्रकेर्द्विजोक्तिभिः ।
प्रमृज्य पाणिना वक्त्रमाधिल्मानमभाषत ॥९॥
राजोवाच
कौ युवां ज्ञनसम्पन्नौ महिष्ठौ च महीयसाम ।
अवधुतेन वेषेण गुढाविह समगतौ ॥१०॥
चरन्ति ह्यावनौ कामं ब्राह्मणा भगवत्प्रियाः ।
मादृशां ग्राम्यबुद्धीनांबोधायोन्मत्तलिगिंनः ॥११॥
कुमारो नारद ऋभिरंगिरा देवलोऽसितः ।
अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥१२॥
वरिष्ठो भगवान रामः कपिलो बादरायणिः ।
दुर्वासि याज्ञवल्क्यश्च जातुकर्ण्यस्तथाऽऽरुणिः ॥१३॥
रोमशश्च्यवनो दत्त आसुरिः सपतत्र्जलिः ।
ऋषिर्वेद्शिरा बोध्यो मुनिः पंचशिरास्तथा ॥१४॥
हिरण्यनाभःकौसल्यः श्रुतदेव ऋतध्वजः ।
एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥१५॥
तस्माद्युवां ग्राम्यपशोर्मम मुढधियः प्रभु ।
अन्धे तमसि मग्रस्य ज्ञानदीप उदीर्यतम ॥१६॥
अगिंरा उवाच
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यगिंरा नृप ।
एष बह्मासुतः साक्शान्नारदो भगवानृषिः ॥१७॥
इत्थं त्वां पुत्रशोकेनमग्नं तमसि दुस्तरे ।
अतदर्हमौस्मृत्य महापुरुषगोचरम ॥१८॥
अनुग्रहाय भवतः प्रप्तावावमिह प्रभोः ।
ब्रह्मण्यो भगवद्भक्तो नावसीदितुमर्हति ॥१९॥
तदैव ते परं ज्ञानं ददामि गृहमागतः ।
ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम ॥२०॥
अधुना पुत्रिणं तापो भवतैवानुभुयते ।
एवं दारा गृहा रायो विविधैश्च्वर्यसम्पदः ॥२१॥
शब्दादयश्च विषयाश्चला राज्यविभुतयः ।
मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥२२॥
सर्वेऽपि शुरसेनेमे शोकमोहभयार्तिदाः ।
गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥२३॥
दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।
कर्मभिर्ध्यायतो नानाकर्माणि मनसोऽभवन ॥२४॥
अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
देहिनो विविधक्लेशसन्तापकृदुदाह्रुतः ॥२५॥
तस्मात स्वस्थेन मनसा विमृश्य गतिमात्मनः ।
द्वैते ध्रुवार्थविश्वम्भं त्यजोपशमाविश ॥२६॥
नरद उवाच
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।
यां धारयन सप्तरात्राद द्रष्टा संकर्षणं प्रभुम ॥२७॥
यत्पादम्कुलमुपसृत्य नरेन्द्र पुर्वे शर्वदयो भ्रममिमं द्वितयं विसृज्य ।
सद्यस्तदीयमतुलानधिकं महित्वं प्रपुर्भवानपि परं नचिरादुपैति ॥२८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्याम संहितायां षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पंचदशोऽध्यायः ॥१५॥