राजोवाच
यया गुप्तः सहस्राक्षः सवाहान रिपुसैनिकान ।
क्रीडान्निव विनिर्जित्य त्रिलोक्य बुभुजे श्रियम ॥१॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम ।
यथाऽऽततायिनः शत्रुन येन गुप्तोऽजयन्मृधे ॥२॥
श्रीशुक उवाच
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः श्रृणु ॥३॥
विश्वरुप उवाच
धौताड घ्रिपाणिराचम्य सपवित्र उदंडमुखः ।
कृतस्वांगकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥४॥
नारायणमयं वर्म सन्नह्रोद भय आगते ।
पादयोर्जानुनोरुर्वोरुदरे ह्रुद्यथोरसि ॥५॥
मुखे शिरस्यानुपुर्व्यादोकांरादिनी विन्यसेत ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥६॥
करन्यांसं ततः कुर्याद द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमंगुल्यगुंष्ठपर्वसु ॥७॥
न्ययसेदृधय ओकांर विकारमनु मुर्धनि ।
षकारं तु भ्रुवार्मध्ये णकारं शिखया दिशेत ॥८॥
वेकारं नेत्रयोर्युत्र्जयान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमुर्तिर्भवेद बुधः ॥९॥
सविसर्गं फडन्तं तत सर्वदिक्षु विनिर्दिशेत
ॐ विष्णवे नम इति ॥१०॥
आत्मानं परमं ध्यायेद ध्येयं षटशक्तिभिर्युत्तम ।
विद्यातेजस्तपोमुर्तिमिमं मन्त्रमुदाहरेत ॥११॥
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघिर्पद्म पंतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप पाशान दधानोऽष्टगुणोऽष्टबाहुः ॥१२॥
जलेषु मां रक्षतु मत्स्यमुर्ति र्यादोगणेभ्यो वरुणस्य पाशात ।
स्थलेषु मायाबटुवामनोऽव्यात त्रिविक्रमः खेऽवतु विश्वरुपः ॥१३॥
दुर्गेष्वटव्याजिमुखादिषु प्रभुः पयान्नृसिंहोऽसुरयुथपारिः ।
विमुत्र्चतो यस्य महाट्टहांसं दिसो विनेदुर्न्यपतंश्च गर्भाः ॥१४॥
रक्षत्वसौ माऽध्वनि यज्ञकल्पः स्वदंष्ट्रायोन्नीतधरो वराहः ।
रामोऽद्रिकुटेष्वथ विप्रवासे सलक्ष्मणोऽव्याद भरताग्रजोऽस्मान ॥१५॥
मामुग्रधर्मादखिलात प्रमादान्नारायणः पातु नरश्च हासात ।
दत्तस्त्वयोगादथ योगनाथः पायादगुणेशःकपिलः कर्मबन्धात ॥१६॥
सनत्कुमारोऽवतु कामदेवा द्धयशीर्षा मां पथि देवहेलनात ।
देअर्षिवयेः पुरुषार्चनान्तरात कुर्मो हरिर्मा निरयादशेषात ॥१७॥
धन्वन्तारिर्भगवान पात्वपथ्याद द्वन्द्वाद भयादृषभो निर्जितात्मा ।
यज्ञश्च लोकादवयोज्जनान्ताद बलो गणात क्रोधावशादहिन्द्रः ॥१८॥
द्वैपायनो भगवानप्रबोधाद बुद्धस्त पाखण्डगणात प्रमादात ।
कल्किः कलेः कालमलात प्रपातु धर्मावनायोरुकृतवतारः ॥१९॥
मां केशवो गदा प्रातरव्याद गोविन्द आसंगमात्तवेणुः ।
नारायणः प्राह्ण उदात्तशक्ति र्मध्यन्दिने विष्णुररीन्द्रापणिः ॥२०॥
देवोऽपराह्णे मधुहोग्रधन्वा सायंत्रिधामावतु माधवो माम ।
दोषे हृशीकेश उत्तार्धरात्रे निशीथ एकोऽवतु पद्मनाभः ॥२१॥
श्रीवत्सधामापररात्रं ईशः प्रत्युष ईशोऽसिधरो जनार्दनः ।
दामोदारोऽव्यादनौसन्ध्यं प्रभाते विश्वेश्वरो भगवान कालमुर्तिः ॥२२॥
चक्रं युगान्तानलतिग्मनेमि भ्रमत समन्ताद भगवत्प्रयुक्तम ।
दन्दग्धि दन्दग्ध्यसिसैन्यमाशु कक्षं यथा वातसखोहुताशः ॥२३॥
गदेऽशनिस्पर्शनविस्फुलिंगे निष्पिंण्ढि निष्पिण्ढ्यजिताप्रियसि ।
कुष्मान्डवैनायकयक्षरक्षो भुतग्रहाश्चुर्णय चुर्णयारीन ॥२४॥
त्वं यातुधनप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टिन ।
दरेन्द्र विद्रावय कृष्णपुरितो भीमस्वनोऽरेर्हृदयानि कम्पयन ॥२५॥
त्वं तिग्मधारासिवरसन्य मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षुंषि चर्मत्र्छतचन्द्र छादय द्विषमघोनां हर पापचक्षुषाम ॥२६॥
यन्नो भयं ग्रहेभ्योऽभुतं केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रीभ्यो भुतेभ्योंऽहोभ्य एव वा ॥२७॥
सर्वाण्येतानि भगवन्नामरुपास्त्रकीर्तनात ।
प्रयान्तु संक्षंयं सद्यो ये नः श्रेयः प्रतीपकाः ॥२८॥
गरुडो भगवान स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामाभिः ॥२९॥
सर्वापदभ्यो हरेर्नामरुपयानायुधानि नः ।
बुद्धीन्द्रियमनः प्राणान पान्तु पार्षदभुषणाः ॥३०॥
यथा ही भगवानेव वस्तुतः सदसच्च यत ।
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥३१॥
यथैकात्म्यानुभावांनां विकल्परहितः स्वयम ।
भुषणायुधालिंगाख्यां धत्त्ते शक्तिः स्वमायया ॥३२॥
तेनैव सत्यमानेन सर्वज्ञो भगवान हरिः ।
पातु सर्वैः स्वरुपैर्नः सद सर्वत्र सर्वगः ॥३३॥
विदुक्षु दिक्षुर्ध्वमधः समन्ता दन्तर्बहिर्भगवान नारसिंहः ।
प्रहापयँल्लोकभयं स्वनेनं स्वतेजसा ग्रस्तसमस्ततेजाः ॥३४॥
मघवन्निदमाख्यातं वर्म नारायणात्मकम ।
विजेष्यस्यत्र्जसा येन दंशोतोऽसुरयुथपान ॥३५॥
एतद धारयमाणसुत यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत सद्यः साध्यसात स विमुच्यते ॥३६॥
न कुतश्चिदं भयं तस्य विद्यां धारयतो भवेत ।
राजद्रस्युग्रहादिभ्यो व्यघ्रदिभ्यश्च कर्हिचित ॥३७॥
इमां विद्यां पुरा कश्चित कौशिको धारयन द्विजः ।
योगधारणया स्वांग जहौ स मरुधन्वनि ॥३८॥
तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथः स्त्रीभिर्वतो यत्र द्विजक्षयः ॥३९॥
गगनान्न्यपतत सद्यः सविमानो ह्यावाकशिराः ।
स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात ॥४०॥
श्रीशुक उवाच
य इदं श्रृणुयात काले यो धारयति चादृतः ।
तं नमस्यन्ति भुतानि मुच्यते सर्वतो भयात ॥४१॥
एतां विद्यामधिगतो विश्वरुपाच्छतक्रतुः ।
त्रैलोक्यालक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान ॥४२॥
इति श्रीमिद्भागवते महापुराणे संहितायां षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥८॥