परिक्षिदुवाच
रजस्तमः स्वभावस्य ब्रह्मान वृत्रस्य पाप्मनः ।
नारायणे भगवति कथमासीद दृढा मतिः ॥१॥
देवानां शुद्धसत्वानामृषींना चामलात्मनाम \
भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥२॥
रजोभिः समसंख्याताः पार्थिवैरिह जन्तवः ।
तेषां ये केचनेहन्ते श्रेयो वैमनुजादयाः ॥३॥
प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।
मुमुक्षुणां सहस्रेषुं कश्चिन्मुच्येत सिध्यति ॥४॥
मुक्तानामपि सिद्धांना नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥५॥
वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।
इत्थं दृढमतिः कृष्ण आसीत संग्राम उल्बणे ॥६॥
अत्र नःसंशयो भ्यात्र्छ्रोतुं कौतुहलं प्रभो ।
यः पौरुषेण समरे सहस्त्राक्षमतोषयत ॥७॥
सुत उवाच
परीक्षितोऽथ संपश्नं भगवान बादरायणिः ।
निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत ॥८॥
श्रीशुक उवाच
श्रृणुष्वावहितो राजन्नितिहासमिमं यथा ।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥९॥
आसीद्राजा सार्वभौमः शुरसेनेषु वै नृप ।
चित्रकेतुरिति ख्यातो यस्यासीत कामधुडमही ॥१०॥
तस्य भार्यासहस्राणां सहस्राणि दशाभवन ।
सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम ॥११॥
रुपौदार्यवयोजन्मविद्ये श्वर्यश्रियादिभिः ।
सम्पन्नस्य गुणैः सर्वैश्चिन्ता वन्ध्यापतेरभुत ॥१२॥
न तस्य संपदः सर्वा महिष्यो वामलोचनाः ।
सार्वभौमस्य भुश्चेयमभवन प्रीतिहेतवः ॥१३॥
तस्यैकदा तु भवनमंगिरा भगवानृषिः ।
लोकाननुचरन्ने तानुपागच्छद्यदृच्छया ॥१४॥
तं पुजयित्वा विधिवत्प्रुत्युत्थानार्हणादिभिः ।
कृतातिथ्यमुपासीदतुखासेन समाहितः ॥१५॥
महर्षिस्तमुपासीन प्रश्चयावनतं क्षितौ ।
प्रतिपुज्य महाराज समाभाष्येदमब्रवीत ॥१६॥
अंगिरा उवाच
अपि तेऽनामयंस्वस्ति प्रकृतीनां तथाऽऽत्मनः ।
यथा प्रकृतिभिर्गुप्तः पुमान राजापि सप्तभिः ॥१७॥
आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयत ।
राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥१८॥
अपि दराः प्रजामात्या भ्रुत्याः श्रेण्योऽथ मन्त्रिणाः ।
पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥१९॥
यस्यात्मानुवशश्चेत्स्यात्सर्वे तद्वशगा इमे ।
लोकाः सपाला यच्चन्ति सर्वे बलिमतन्द्रिताः ॥२०॥
आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम ॥२१॥
एवंविकल्पितो राजन विदुषा मुनिनापि सः ।
प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम ॥२२॥
चित्रकेतुरुवाच
भगव्न कि न विदितं तपोज्ञानसमधिभिः ।
योगिनां ध्वस्तंपापाणां बहिरन्तः शरीरिषु ॥२३॥
तथापि पृच्छते ब्रुयां ब्रह्मान्नात्मनि चिन्तितम ।
भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥२४॥
लोकपालैरपि प्रार्थ्याअः साम्राज्यैश्वर्यसम्पदः ।
अ नन्दयन्त्यप्रजं मां क्षुत्तृटकाममिवापरे ॥२५॥
ततःपाहि महाभाग पुर्वैः सह गतं तमः ।
यथा तरेम दुस्तारं प्रजया तद विधेहि नः ॥२६॥
श्रीशुक उवाच
इत्यर्थितः स भगवान कृपालुर्ब्रह्माणः सुतः ।
श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद विभुः ॥२७॥
ज्येष्ठा श्रेष्ठा च या राज्ञो महिर्षींणां च भारत ।
नाम्रा कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद द्विजः ॥२८॥
अथाह नृपतिं राजन भवितैकस्तवात्मजः ।
हर्षशोकप्रदस्तुभ्यामिति ब्रह्मासुतो ययौ ॥२९॥
सापि तत्प्राशनादेव चित्रकेतोरधारयत ।
गर्भ कृतद्युतिर्देवीं कृत्तिकाग्नेरिवात्मजम ॥३०॥
तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।
ववृधे सुरसेनेशतेजसा शनकैर्नृपः ॥३१॥
अथ काल उपावृत्ते कुमारः समजायत ।
जनयन शुरसेनानां श्रृण्वतां परमां मुदम ॥३२॥
हष्टो राजा कुमारस्य स्नातः शुचिरलंकृतः ।
वाचायित्वाऽऽशिपो विप्रैः कारयामास जातकम ॥३३॥
तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।
ग्रामान ह्यान गजान प्रादाद धेनुनामर्बुदानि षट ॥३४॥
ववर्ष काममन्येषां पर्जन्य इव देहिनाम ।
धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥३५॥
कृच्छूलब्धेऽथ राजर्षेस्तनयेऽनुदिअनं पितुः ।
यथा निःस्वरय कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत ॥३६॥
मातृस्त्वतितरां पुत्रे स्नेहो मोहसमुद्द्भवः ।
कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत ॥३७॥
चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति ।
न तथान्येषु सत्र्जज्ञे बालं लालयतोऽन्वहम ॥३८॥
ताः पर्यतप्यन्नात्मन्नं गर्हयन्त्योऽभ्यसुयया ।
आनपत्येन दुःखेन राज्ञोऽनादरणेन च ॥३९॥
धिगप्रजां स्त्रियं पापं पत्युश्चागृहसम्मताम ।
सुप्रजाभिः सपत्नीभिर्दासेमिव तिरस्कृताम ॥४०॥
दासीना को नु सन्तापः स्वामिनः परिचर्यया ।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥४१॥
एव सन्दह्यामानांना सपत्न्याः पुत्रसम्पदाः ।
राजोऽसम्मतवृत्तीनां विद्वेषो बलवानभुत ॥४२॥
विद्वेषनष्टमतयःस्त्रियो दारुणचेतसः ।
गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥४३॥
कृतद्युतिरजानन्ती सपत्नीनामघं महत ।
सिप्त एवेति सचिंन्त्य निरीक्ष्य व्यचरद गृहे ॥४४॥
शयानं सुचिरं बालामुपधार्य मनीषिणी ।
पुत्रमानय मे भद्रे इति धात्रीमचोदयत ॥४५॥
सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम ।
प्राणेन्द्रियात्मभिस्त्यकतं हतस्मीत्यपतद्भुवि ॥४६॥
तस्यास्तदाऽकर्ण्य भृशतुरं स्वरं घ्नन्त्याः काराभ्यामुर उचकैरपि ।
प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम ॥४७॥
पपात भुमौ परिवृद्धया शुचा
मुमोह विभ्रष्टशोरोरुहाम्बरा ॥४८॥
ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम ।
आगत्य तुल्यव्यसनाः सुदुः खिता
स्ताश्च व्यलीकं रुरुदुः कृतागसः ॥४९॥
श्रुत्वा मृत पुत्रमलक्षितान्तकं विनष्टदृष्टि प्रपतन स्खलन पथि ।
स्नेहाबुबन्ध्यैधितया शुचा भृशं विमुर्च्छिताऽनुप्रकृतिर्द्विजैर्वृतः ॥५०॥
पपात बालस्य स पादमुले मृतस्य विस्रस्तशिरोरुहाम्बरः ।
दीर्घ श्वसन बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम ॥५१॥
पतिं निरीक्ष्योरुशुचार्पिंत तदा मृतं च बालं सुतमेकसन्ततिम ।
जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥५२॥
स्तनद्वयं कुंडकुमगन्धमन्डितं निषिंचती सांजनबाष्पबिन्दुभः ।
विकीर्य केशान बिगलत्स्रजः सुतं शिशोच चित्रं कुररीव सुस्वरम ॥५३॥
अहो विधातस्त्व मतीव बालिशो यस्त्वात्मसृष्टय प्रतिरुपमीहसे ।
परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्वमसि ध्रुवः परः ॥५४॥
न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदाऽऽत्मकर्मभिः ।
यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥५५॥
त्वं तात नार्हसि च मां कृपणामनथां त्युक्तं विचक्ष्व पितरं तव शोकतत्पम ।
अत्र्जंस्तरेम भवताप्रजदुस्तरं यद धान्तं न याह्याकरुणेन यमेन दुरम ॥५६॥
उत्तिष्ठ तात त इमे शिशवो वयस्या स्त्वामह्ययन्ति नूपनन्दन संविहर्तुम ।
सृप्तश्चिरं ह्याशनया च भवान परीतो भंक्ष्वं स्तनं शिचो हर नः स्वकानाम ॥५७॥
नाहं तनुज ददृशे हतमंगल ते मृग्धस्मितं मुदितवीक्षणमाननाब्जम ।
किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न श्रृणोमि कला गिरस्ते ॥५८॥
श्रीशुक उवाच
विलपन्त्या मृत पुत्रमिति चित्रविलापनैः ।
चित्रकेतुर्भुशं तप्तो मुक्तकण्ठो रुरोद ह ॥५९॥
तयोर्विलपतोः सर्वे दम्पत्योस्त्दनुव्रताः ।
रुरुदुः स्म नरा नार्यः सर्व मासीदचेतनम ॥६०॥
एवं कश्मलमापत्रं नष्टंसंज्ञमनायकम ।
ज्ञात्वगिंरां नाम मुनिराजगाम सनारदः ॥६१॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहिताया षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्दशोऽध्यायः ॥१४॥