श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भुरिद ।
सपाला ह्राभवन सद्यो विज्वरा निर्वृतेन्द्रियाः ॥१॥
देवर्षिपित्रुभुतानि दैत्या देवानुगाः स्वयम ।
प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मोशेन्द्रादयस्ततः ॥२॥
राजोवच
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।
येनासन सुखिनो देवा हरेर्दुःखं कुतोऽभवत ॥३॥
श्रीशुक उवाच
वृत्रविकमसंविग्राः सर्व देवाः सहर्षिभिः ।
तद्वधायार्थयन्निन्द्रं नैच्छदं भीतो बृहद्वधात ॥४॥
इन्द्र उवाच
स्त्रीभुजलद्रुमैरेनो विश्वरुपवधोद्भवम ।
विभक्तमनुगृह्णद्भिर्वृत्रहत्यां कव माज्म्यहम ॥५॥
श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन ।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥६॥
हयमेधेन पुरुषं परमात्मानमीश्वरम ।
इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात ॥७॥
ब्रह्माहा पितृहा गोघ्रो मातृहाऽऽचार्यहाघवान ।
श्वादःपुल्कसकोवापि शुद्धयेरन यस्य कीर्तनात ॥८॥
तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।
हत्वापि सब्रहा चराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥९॥
श्रीशुक उवाच
एवं सत्र्चोदितो विप्रैर्मरुत्वानहनद्रिपुम ।
ब्रह्माहत्या हते तस्मिन्नाससाद वृषकपिम ॥१०॥
तयेन्द्रः स्मासहत तापं निर्वृतिर्नामुमाविशत ।
ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यापि नो गुणाः ॥११॥
तं ददर्शानुधावन्तीं चाण्डलीमिव रुपिणीम ।
जरया वेपमानांगे यक्ष्मग्रस्तामसृक्पटाम ॥१२॥
विकीर्य पलितान केशांस्तिष्ठ तिष्ठिति भाषिणीम ।
मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदुषनम ॥१३॥
नभो गतो दिशः सर्वाः सहस्राक्षो विषाम्पते ।
प्रागुदींचीं दिशं तुर्णं प्रविष्टो नृप मानसम ॥१४॥
स आवसत्पुष्करनालतन्त नलब्धभोगो यदिहाग्निदुतः ।
वर्षाणि साहस्रमलक्षितोऽन्तः स चिन्तयन ब्रह्मावधाद विमोक्षम ॥१५॥
तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबालनुभावः ।
स सम्प्रदैश्वर्यमदान्धबुद्धिनीतस्तिरश्चा गतिमिन्द्रपत्न्त्या ॥१६॥
ततो गतो ब्रह्मागिरोपहुत ऋतम्भरध्याननिवारिताघः ।
पापस्तु दिग्देवतया हतौजास्तं नाभ्यभुदवितं विष्णुपन्त्या ॥१७॥
तं च ब्रह्मार्षयोऽभ्येत्य हयमेधेन भारत ।
यथावद्दीक्षयात्र्चक्रुः पुरुशाराधनेन ह ॥१८॥
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।
अश्वमेधे महेन्द्रेण वितते ब्रह्मावादिभिः ॥१९॥
स वै त्वाष्ट्रवधो भुयानपि पापचयो नृप ।
नीतस्तेनैव शुन्याय नीहार इव भानुना ॥२०॥
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः ।
इष्ट्वधियज्ञं पुरुषं पुराण मिन्द्रो महानास विधृतपापः ॥२१॥
इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम ।
भक्त्युच्छ्रयं बह्क्तजनानूवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥२२॥
पठेयुराख्यानमिदं सदा बुधाः श्रृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम ।
धन्यं यशस्यं निखिलाघमोचनं रिपुत्र्जयं स्वस्त्ययनं तथाऽऽयुषम ॥२३॥
इति श्रीमद्भागवते महापुराणे पारमंस्यां संहितायां षष्ठस्कन्धे इन्द्रविजयो नाम त्रयोदशोऽध्यायः ॥१३॥