श्रीशुक उवाच
तस्यां स पांचजन्यां वै विष्णुमायोपबृहिंतः ।
हर्यश्वसंज्ञानयुतं पुत्रानजनयद विभुः ॥१॥
अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप ।
पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम ॥२॥
तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः ।
संगमो यत्र सुमहन्मुनिसिद्धनिषेवितम ॥३॥
तदुपस्पर्शनादेव विनिर्धुतमलाशयाः ।
धर्मे पारमहंस्ये च प्रोत्पन्नमतयोऽप्युतः ॥४॥
तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः ।
प्रजाविवृद्धये यत्तान देवर्षिस्तान ददर्श ह ॥५॥
उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः ।
अदृष्टान्तं भुवो युयं बालिशा बत पालकाः ॥६॥
तथैक्पुरुषं राष्ट्रं बिलं चादृष्टनिर्गमम ।
बहुरुपां स्त्रियां चापि पुमांसं पुश्चिलीपतिम ॥७॥
नदीमुषभयोवाहां पंचपंचाद्भुतं गृहम ।
क्वचिद्धसं चित्रकथं क्षौरपव्यं स्वयं भ्रमिम ॥८॥
कथं स्वतिपुरादेशमविद्वासो विपश्चितः ।
अनुरुपमविज्ञान्य अहो सर्ग करिष्यथ ॥९॥
श्रीशुक उवाच
तन्निशम्याथ हर्यश्वा औप्तत्तिकमनीषय ।
वाचः कुटं तु देवर्षेः स्वयं विममृशुर्धिया ॥१०॥
भुः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम ।
अदृष्टवा तस्य निर्वाणं किमसत्कर्मभिर्भवेत ॥११॥
एक एवेश्वरसुर्यो भगवान स्वाश्रयः परः ।
तमदृष्टाभवं पुंसः किमसत्कर्मभिर्भवेत ॥१२॥
पुमान नैवैति यद गत्वा बिलस्वर्गं गतो यथा ।
प्रत्यग्धामाविद इह किमसत्कर्म भिर्भवेत ॥१३॥
नानारुपाऽऽत्मनो बुद्धीः स्वैरिणीव गुणान्विता ।
तान्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत ॥१४॥
तत्संगभ्रंशितैश्वयै संसरन्तं कुभार्यवत ।
तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत ॥१५॥
सृष्टयप्यकरीं मायां वेलाकूलान्तवेगिताम ।
मत्तस्य तामाविज्ञस्य किमसत्कर्मभिर्भवेत ॥१६॥
पंचविंशतितत्वानां पुरुषोऽद्धुतदर्पणम ।
अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत ॥१७॥
ऐश्वरं शास्त्रमुत्सृज्य बन्धममोक्षदर्शनम ।
विविक्तपदमज्ञाय विकसत्कर्मभिर्भवेत ॥१८॥
कालचंक्र भ्रमितीक्ष्णं सर्व निष्कर्षयज्जगत ।
स्वतन्त्रमबुस्येह किमसत्कर्मभिर्भवेत ॥१९॥
शास्त्रस्य पितृरादेशं यो न वेद निवर्तकम ।
कथं तदनुरुपाय गुणविश्रम्भ्युपक्रमेत ॥२०॥
इति व्यवसिता राजन हर्यश्वा एकचतेस ।
प्रययुस्तं परिक्रम पन्थानमनिवर्तनम ॥२१॥
स्वरब्रह्माणि निर्भातहृषीकेशपदाम्बुजे ।
अखंण्ड चित्तमावेश्य लोकाननुचरन्मुनिः ॥२२॥
नाशं निशम्य पुत्राणां नारदाच्छीलशालिनाम ।
अन्वतप्यत कः शोचन सुप्रजस्त्वं शुचां पदम ॥२३॥
स भुयः पांचजन्यायामजेन परिसान्त्वितः ।
पुत्रानजनयद दक्षः शबलाश्वान सहस्रशः ॥२४॥
तेऽपि पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः ।
नारायणसरो जग्मुर्गत्र सुद्धाः स्वपुर्वजाः ॥२५॥
तदुपस्पर्शनादेव विनिर्धूतमलाशयाः ।
जपन्तो ब्रह्मा परमं तेपुस्तेऽत्र महत तपः ॥२६॥
अब्भक्षाः कतिचिन्मासान कतिचिद्वायुभोजनाः ।
आराधयन मन्त्रमिममभ्यस्यन्त इडस्पतिम ॥२७॥
ॐ नमो नारायणमाय पुरुषाय महात्मने ।
विशुद्धसत्वधिष्णाय महाहंसाय धीमहि ॥२८॥
इति तानपि राजेन्द्र प्रतिसर्गधियो मुनिः ।
उपेत्य नारदः प्राह वाच कुटानि पुर्ववतः ॥२९॥
दाक्षायणाः संश्रृणुतगदतो निगमं मम ।
अन्विच्छतानुपदवीं भ्रातृणां भ्रातृवत्सलाः ॥३०॥
भ्रातृणां प्रायणां भ्रातां योऽनुतिष्ठति धर्मवित ।
स पुण्यबन्धुः पुरुषो मरुद्धिः सह मोदते ॥३१॥
एतावदुक्त्वा प्रययौ नारदोऽमोघदर्शनः ।
तेऽपि चान्वमन्मार्ग भ्रातृणामेव मारिष ॥३२॥
सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः ।
नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिवः ॥३३॥
एतस्मिन काल उप्तातान बहुन पश्यन प्रजापतिः ।
पुर्ववन्नारदकृतं ज्पुत्रनाशमुपाश्रृणोत ॥३४॥
चक्रोध नारदायासौ पुत्रशोकविमुर्च्छितः ।
देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥३५॥
दक्ष उवाच
अहो असाधो साधुनां साधुलिंगेन नस्त्वया ।
असाध्वकर्यर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥३६॥
ऋणैस्त्रिभिरमुक्तानामीमासितकर्मणाम ।
विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥३७॥
एवं त्वं निरनुक्रोशो बालांना मतिभिद्धरेः ।
पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥३८॥
ननु भागवता नित्यं भुतानुग्रहकातराः ।
ऋते त्वां सौहृदघ्रं वै वैरकंरवैरिणाम ॥३९॥
नेत्थं पुंसां विरागः स्यात त्वया केवलिना मृषा ।
मन्यसे यद्युपशमं स्नेहपाशनिकृन्तनम ॥४०॥
नानुभुय न जानाति पुमान विषयतीक्ष्नताम ।
निर्विद्यते स्वयं तस्मान्न तथा भिन्नधीः परैः ॥४१॥
यन्नस्त्वं कर्मसन्धानां साधुनां गृहमेधिनाम ।
कृतवानसि दुर्मर्षं विप्रियं तव मर्षितम ॥४२॥
तन्तुकृन्तन यन्नस्त्वमभद्रमचरः पुनः ।
तस्माल्लोकेषु ते मुढ न भवेद भ्रमतः पदम ॥४३॥
श्रीशुक उवाच
प्रतिजग्राह तंद्वाढं नारदः साधुसम्मतः ।
एतावान साधुवादो हि तितिक्षेतेश्वरः स्वयमः ॥४४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां षष्ठस्कन्धे नारदशापो नाम पंचमोऽध्यायः ॥५॥