राजोवाच
निवृत्तिमार्गः कथित आदौ भगवता यथा ।
क्रमयोगोपलब्धेन ब्रह्माणा यदसंसृतिः ॥१॥
प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।
योऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥२॥
अध्र्मलक्षणा नानानरकाश्चानुवर्णिताः ।
मन्वन्तरश्च व्याख्यात आद्यः स्वायाम्भुवो यतः ॥३॥
प्रियव्रतोत्तानपदोर्वशस्तच्चरितानि च ।
द्वीपवर्षसमुद्रद्रिनद्युद्यानवनस्पतीन ॥४॥
धरामण्डलसंस्थानंभागलक्षणमानतः ।
ज्योतिषं विवरणांचयथेदमसृजद्विभुः ॥५॥
अधुनेह महाभाग यथैव नरकान्नरः ।
नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि ॥६॥
श्रीशुक उवाच
न चेदिहैवापचिंति यथांहसः कुतस्य कुर्यान्मनौक्तिपाणिभिः ।
ध्रुवं स वै प्रेत्य नरकानुपैति ये कीर्तितामेभवतस्तिग्मयतनाः ॥७॥
तस्मात्पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यताऽत्मना ।
दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषख चिकित्सेत रुजां निदानवित ॥८॥
दृष्तश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम ।
करोति भुयो विविशः प्रायश्चित्तमथो कथम ॥९॥
क्वचिन्निवर्ततेऽभद्रात्क्वचिच्चरति तत्पुनः ।
प्रायश्चितमतोऽपार्थ मन्ये कत्र्जरशौचवत ॥१०॥
श्रीशुक उवाच
कर्मणा कर्मनिर्हारो न ह्यात्यान्तिक इष्यते ।
अविद्वदाधिकारित्य्वात्प्रायश्चितं विमर्शनमे ॥११॥
नाश्नतः पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।
एवं नियमकृद्राजन शनैः क्षेमाय कल्पते ॥१२॥
तपसा ब्रह्माचर्यण शमेन दमेण च ।
त्यागेन सत्यशौचाभ्यां यमेन नियमेन च ॥१३॥
देहवाग्बुद्धिजं धीरा धर्मज्ञः श्रद्धयान्विताः ।
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानलः ॥१४॥
केचित्केवलय भक्त्या वासुदेवपरायणाः ।
अघं धुन्वन्ति कात्स्न्यैन नीहारमिव भास्करः ॥१५॥
न तथा ह्याघवान राजन पुयेत तप आदिभिः ।
यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥१६॥
सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः ।
सुशीलाःसाधवो यत्र नारायणपरायणाः ॥१७॥
प्रायश्चित्तानि चीर्णानि नारायणपरांगमुखम ।
न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥१८॥
सकृन्मनःकृश्णपदारविन्दयो र्निवेशितं तदगुणरागि यैरिह ।
न ते यमं पाशभूतश्च तद्भटान स्वप्रेऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥१९॥
अथ चोदाहरन्तीममितिहासं पुरातनम \
दुतानां विष्णुयमयोः संवादस्तं निबोध मे ॥२०॥
कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः ।
नाम्रा नष्टसदाचारो दास्याः संसर्गदुषितः ॥२१॥
बन्द्यक्षकैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः ।
बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिनः ॥२२॥
एवं निवसतस्तस्य लालयानस्य तत्सुतान ।
कालोऽत्यगान्महान राजन्नष्टाशीत्यायुषः समाः ॥२३॥
तस्य प्रवयसः पुत्रा दश तेषां यु योऽवमः ।
बालो नारायणो नाम्रा पित्रोश्च दयितो भृशम ॥२४॥
स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।
निरिक्षमानस्तल्लीलांमिमुदे जरठो भृशम ॥२५॥
भुत्र्जनः प्रपिबन खादन बालकस्नेहयन्त्रितः ।
भोजयन पाययन्मुढो न वेदागतमन्तकम ॥२६॥
स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।
मतिं चकार तनये बाले नारायणाह्वये ॥२७॥
स पाशहस्तास्त्रीन्दृष्ट्वा पुरुषान भृशदरुणान ।
वक्रतुण्डानुर्ध्वरोम्णं आत्मानं नेतुमगतान ॥२८॥
दुरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम ।
प्लावितेन स्वरेणोचैराजुहावाकुलेन्द्रियः ॥२९॥
निशम्य म्रियमाणस्य ब्रुवतो हरिकीर्तनम ।
भर्तुर्नाम महाराज पार्षदाः सहसाऽपतन ॥३०॥
विकर्षतोऽन्तर्हृदयाद्दासीसीपातिमजामिलम ।
यमप्रेष्यान विष्णुदुता वारयामासुरोजसा ॥३१॥
ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरः सराः ।
के युयं प्रतिषेद्धारो धर्मराजस्य शासनम ॥३२॥
कास्य वा कुल आयाताः कस्मादस्य निषेधथ ।
किं देवा उपदेवा वा युयं किं सिद्धसत्तमाः ॥३३॥
सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससाः ।
कीरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥३४॥
सर्वे च नुप्नवयसः सर्वे चरुचतुर्भुजाः ।
धनुर्निषगंसिगदाशखंचक्राम्बुश्रियः ॥३५॥
दिशोवितमिरालोकः कुर्वन्तः स्वेन रोचिषा ।
किमर्थं धर्मपालस्य किंकरात्रो निषेधथ ॥३६॥
श्रीशुक उवाच
इत्युक्ते यमदुतैस्तैर्वासुदेवोक्तकारिणः ।
तान प्रत्युचः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥३७॥
विष्णुदुता ऊचुः
युयं वैधर्मराजस्य यदि निर्देशकारिणः ।
ब्रुत धर्मस्य नस्तत्वं यच्च धर्मस्य लक्षणम ॥३८॥
कथंस्विदं ध्रियते दण्ड किं वास्य स्थानमीप्तितम ।
दंण्ड्याः किंकारिणः सर्वे अहोस्वित्कातिचिन्नृणाम ॥३९॥
यमदुता उचुः वेदप्राणिहितो धर्मा ह्यधर्मस्तद्विपर्ययः ।
वेदो नारायणः साक्शात्स्वयम्भुरिति शुश्रुम ॥४०॥
येन स्वधाम्नमी भावा रजः सत्त्वतमोमयाः ।
गुणनामक्रियारुपैर्विभाव्यन्ते यथातथम ॥४१॥
सुर्योऽग्रिः खं मरुद्गावः सोम सन्ध्याहनी दिशः ।
कंकुः कालो धर्म इति ह्रोते दैह्रास्य साक्षिणः ॥४२॥
एतैरधर्मो विज्ञातः स्थानं दन्डस्य युज्यते ।
सर्वे कर्मानुरोधेन दण्दमर्हन्ति कारिणः ॥४३॥
सम्भवन्ति हि भद्रानि विपरितानि चानघाः ।
कारिणां गुनसंगोऽस्ति देहवान न ह्राकर्मकृत ॥४४॥
येन यावान यथाऽधर्मो धर्मो वेह समीहितः ।
स एव तत्फलं भुडक्तें तथा तावदमुत्र वै ॥४५॥
यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।
भुतेषु गुणाइचित्र्यात्तथान्यत्रानुमीयते ॥४६॥
वर्तमानोऽन्ययोः कालो गुणाभिज्ञापको यथा ।
एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम ॥४७॥
मनसैव पुरे देव पुर्वरुपं विपश्यति ।
अनुमीमांअतेऽपुर्वं मनसा भगवानजः ॥४८॥
यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।
न वेद पुर्वमपरं नष्टजन्मस्मृतिस्तथा ॥४९॥
पंचभिः कुरुते स्वार्थान पंच वेदाथ पंचभिः ।
एकस्तु षोडशेन त्रीन स्वयं सप्तदशोऽश्रुते ॥५०॥
तदेतत षोडशकलं लिंगं शक्तित्रयं महत ।
धत्ते७नुसंसृतिं पुंसि हर्षशोकभयार्तिदाम ॥५१॥
देह्याज्ञोऽजितषडवर्गो नेच्छन कर्माणि कार्यते ।
कोशकार इवात्मानं कर्मणाऽऽचछाद्य मुह्याति ॥५२॥
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत ।
कार्यते ह्यावशः कर्म गुणैः स्वाभाव्कैर्बलात ॥५३॥
लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।
यथायोनि यथाबीजं स्वभावेन बलीयसा ॥५४॥
एष प्रकतिसंगेन पुरुषस्य विपर्ययः ।
आसीत मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥५५॥
अयं हि श्रुतसम्पत्रः शीलवृत्तगुणालयः ।
धृतव्रतो मृदुर्दान्तः सत्यवान्मन्त्रविच्छुचिः ॥५६॥
गुर्वग्न्यतिथिवृद्धांना शुश्रुषुर्निरहकृतः ।
सर्वभुतसुहृत्साधुर्मितवागनसुयकः ॥५७॥
एकदासौ वनंयातः पितृसन्देशकृद द्विजः ।
आदाय ततः आवृत्तः फलपुष्पसमित्कुशान ॥५८॥
ददर्श कामिनं कत्र्चिच्छुदं सह भुजिष्यया ।
पीत्वा च मधु मैरेयं मदाघुर्णितनेत्रया ॥५९॥
मत्तया विश्लथनीव्या व्यपेत्तं निरपत्रपम ।
क्रीडन्तमनु गायन्तं हसन्तमनयान्तिके ॥६०॥
दृष्वा तां कामलिप्तेनं बाहुना परिरम्भिताम ।
जगम हृच्छयवशं सहसैव विमोहितः ॥६१॥
स्तम्भयन्नात्मनाऽऽत्मानं यावत्सत्त्वं यथाश्रुतम ।
न शशाक समाधातुं मनो मदनवेपितम ॥६२॥
तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतनः ।
तामेव मनसा ध्यायन स्वदह्र्माद्विराराम ह ॥६३॥
तामेव तोषयामास पित्र्येनार्थेन यावता ।
ग्राम्यैर्मनोरमैः कामैः प्रस्सीदेत यथा तथा ॥६४॥
विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम ।
विससर्जाचिरात्पापः स्वैरिण्यापांगविरुद्धधीः ॥६५॥
यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम ।
बभारास्याः कुटुम्बिन्याः कुतुम्बं मन्दधीरयम ॥६६॥
यदसौ शास्त्रमुल्लघं स्वैरचार्यार्गगर्हितः ।
अवर्तत चिरं कालमघायुरशुचिर्मलात ॥६७॥
तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम ।
नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुध्यति ॥६८॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायाम षष्ठस्कन्धेऽजामिलोपाख्याने प्रथमोऽध्यायः ॥१॥