श्रीशुक उवाच
यतश्चान्तर्हितोऽनन्तस्तस्यै कृत्वा दिशे नमः ।
विद्याधरश्चित्रकेतुश्चचार गगनेचरः ॥१॥
स लक्षं वर्षलक्षाणाम्व्याहतबलेन्द्रियः ।
स्तुयमानो महायोगी मुनिभिः सिद्धचारणैः ॥२॥
कुलाचएन्द्रदोणीषु नानासंकल्पसिद्धिषु ।
रेमे विद्याधरस्त्रीभिर्गापयन हारिक्मीश्वरम ॥३॥
एकदा स विमानेन विष्णदत्तेन भास्वता ।
गिरिशं ददृशे गच्छन परीतं सिद्धचारणैः ॥४॥
आलिंगग्याकींकृतां देवीं बाहुना मुनिसंसदी ।
उवाच देव्याः श्रृण्वात्या जहासोच्चेस्तदन्तिके ॥५॥
चित्रकेतुरुवाच
एष लोकगुरुह साक्षाद्भर्म वक्ता शरीरिणम ।
आस्ते मुख्यः सभायां वै मिथुनीभुय भार्यया ॥६॥
जटाधरस्तीव्रतपा ब्रह्मादिसभापतिः ।
अंकीकृत्य स्त्रियं चास्ते गतह्नीः प्राकृतो यथा ॥७॥
प्रायशः प्राकृताश्चपि स्त्रिय रहसिं बिभ्रति ।
अयं महाव्रतधरो बिभर्ति सदसिं स्त्रियम ॥८॥
श्रीशुक उवाच
भगवानापि तच्छुत्वा परहस्यागाधधीर्नुप ।
तृष्णीं बभुव सदसि सम्भाश्च तदनुव्रताः ॥९॥
इत्यतद्वीर्यविदुषि ब्रुवाणे बह्रशोबह्नम ।
रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥१०॥
पार्वत्युवाच
अयं किमधुना लोके शास्ता दन्दधरः प्रभुः ।
अस्माद्विधानां दुष्टांना निर्लज्जनां च विप्रकृत ॥११॥
न वेद धर्मं किलं पद्मयोनि र्न ब्रह्मापुत्र भृगुनारदाद्याः ।
न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम ॥१२॥
एषामनुध्येयपदाब्जयुग्मं जगदगुरुं मंगलमंगलं स्वयम ।
यः क्षत्रबन्धुः परिभुय सुरीन प्रशास्ति धृष्टस्तदयं हि दण्डयः ॥१३॥
नायमर्हति वैकुण्ठपादमुलोपसर्पणम ।
सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम ॥१४॥
अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।
यथेह भुयो महतां न कर्ता पुत्र किल्बिषम ॥१५॥
श्रीशुक उवाच
एवं शप्तश्चित्रके तुर्वि मानादवरुह्या सः ।
प्रसादयामास सतीं मुध्ना नम्रेण भारत ॥१६॥
चित्रकेतुरुवाच
प्रतिगृह्नामि ते शापमात्मनोऽत्र्जलिनाम्बिके ।
देवैर्मत्याय यत्प्रोक्तं पुर्वदिष्टं हि तस्य तत ॥१७॥
संसारचक्र एतस्त्मित्र्जनतुरज्ञानमोहितः ।
भ्राम्यन सुखंच दुःखंच च भुडक्तें सर्वत्र सर्वदा ॥१८॥
नैवात्मा न परश्चापि कर्ता स्यात सुखदःखयोः ।
कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥१९॥
गुणप्रवाह एतस्मिन कः शापः कोन्वनुग्रहः ।
कः स्वर्गो नारकः को वा किं सुखं दुःखमेव वा ॥२०॥
एकः सृजति भुतानि भग्वानात्ममायया ।
एषां बन्धं च मोक्षं ; च सुखंदुःखं च निष्कालः ॥२१॥
न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः ।
समस्य सर्वत्र निरत्र्जनस्य सुखे न रागः कृत एव रोषः ॥२२॥
तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखय हिताहिताय ।
बन्धाय मोक्षायः म मृत्युजन्मनोः शरीरीणां संसृतयेऽकवल्पते ॥२३॥
अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।
यन्मन्यसे असाधुकं मम तत्क्षम्यतां सति ॥२४॥
श्रीशुक उवाच
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।
जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥२५॥
ततस्तु भगवानु रुद्रो रुद्राणीमिदमब्रवीत ।
देवर्षिदैत्यसिद्धानां पार्षदानां च श्रुण्वताम ॥२६॥
श्रीरुद्ध उवाच
दृष्टावत्यासि सुश्रोणि हरेरद्भुतकर्मणाः ।
माहात्मयं भृत्यभृत्यंना निःस्पृहांनां महात्मनाम ॥२७॥
नारायणापराः सर्वे न कुतश्चन बिभ्याति ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदशिनः ॥२८॥
देहिनां देहसंयोगाद द्वन्द्वनीश्वरलीलया ।
सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥२९॥
अविवेककृतः पुंसो ह्यार्थभेद इवात्मनि ।
गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥३०॥
वासुदेवे भगवति भक्तिमुद्वहतां नृणाम ।
ज्ञानवैराग्यवीर्याणां नेह कश्चिद व्यपश्रयाः ॥३१॥
नाहं विरित्र्चो न कुमारनारदौ न ब्रह्मापुत्रा मुनयः सुरेशाः ।
विदाय यस्येहितमंशकांशका न तत्स्वरुपं पृथगीशमानिनः ॥३२॥
न ह्रास्यस्ति प्रियः कश्चिन्नाप्रियः स्वः परोऽपिवा ।
आत्मत्वात्सर्वभुतंना सर्वभुतप्रियो हरिः ॥३३॥
तस्य चायं महाभगश्चित्रकेतुः प्रियोऽनुगः ।
सर्वत्र समदृक शान्तो ह्राहं चैवान्युतप्रियः ॥३४॥
तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।
महापुरुषभक्तेशःउ शान्तेषु समदर्शिषु ॥३५॥
श्रीशुक उवाच
इति श्रुत्वा भगवतः शवस्योमाभिभाषितम ।
बभुव शान्तधी राजन देवी विगतविस्मया ॥३६॥
इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।
मुर्ध्ना सत्र्जगृहे शापतेमावत्साधुलक्षणम ॥३७॥
जज्ञे त्वष्टुर्दक्षिणाग्रौ दानवीं योनिमश्रितः ।
वृत्र इत्याभिविख्यातो ज्ञानविज्ञानसंयुक्तः ॥३८॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
वृत्रस्यासुरजातेश्च कारणं भगवन्मते ॥३९॥
इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः ।
महात्म्यं विष्णुभक्तांना श्रुत्वा बन्धाद्विमुच्यते ॥४०॥
य एतच्प्रातरुथाय श्रद्धया वाग्यताः पठेत ।
इतिहास हरिं स्मृत्वा स याति परमां गतिम ॥४१॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्यां संहितांयां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥१७॥