राजोवाच
निशम्य देवः स्वबह्टोपवर्णितं प्रत्याह किं तान प्रति धर्मराजः ।
एवं हताज्ञो विहतान्मुरारे नैंदेशिकैर्यस्य वशे जनोऽयम ॥१॥
यमस्य देवस्य न दण्डभगः कृतश्चनर्षे श्रुतपुर्व आसीत ।
एतन्मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम ॥२॥
श्रीशुक उवाच
भगवत्पुरुषै रजन याम्याः प्रतिहतोद्यमाः ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम ॥३॥
यमदुतां ऊचुः
कति सन्तीह शास्तीरो जीवलोकस्य वै प्रभो ।
त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥४॥
यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः ।
कस्य स्तातां न वा कस्य मृत्युश्चामृतमेव वा ॥५॥
किन्तु शास्तृबहुत्वे स्याद्वहुनामिह कर्मिणाम ।
शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम ॥६॥
अतस्त्वमेको भुतांनां सेश्वरानामधीश्वरः ।
शास्तां दण्डधरो नृणां शुभाशुभविवेचनः ॥७॥
तस्य ते विहतो दण्डो न लोकेक वर्ततेऽधुना ।
चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥८॥
नीयमानं तवादेशादस्माभिर्यातनागृहान ।
व्यमोचयन पातकिनं छित्त्वा पाशान प्रसह्य ते ॥९॥
तास्तें वेदितुमिच्छामो अदि नो मन्यसे क्षमम ।
नारायणेत्यभिहिते मा भैरित्याययुर्द्रुतम ॥१०॥
श्रीशुक उवाच
इति देवः स आपृष्टः प्रजासंयमनो यमः ।
प्रीतः स्वदुतान प्रत्याह स्मरन पादाम्बुजं हरेः ॥११॥
यम उवाच
परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम ।
यदंशतोऽस्य स्थितिजन्मनाशा नस्योतवद यस्य वशे च लोकः ॥१२॥
यो नामभिर्वाचि जनान्निजायां बध्राति तन्त्यामिव दामभिर्गाः ।
यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति ॥१३॥
अहं महेन्द्रो निऋतिः प्रचेताः सोमोऽग्निरिशः पवनोऽर्को विरित्र्चः ।
आदित्याविश्वे वसवोऽथ साध्या मरुद्रणा रुद्रगणाः ससिद्धाः ॥१४॥
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टमायाः सत्वप्रधाना अपि किं ततोऽन्ये ॥१५॥
यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभुतो विचक्षते ।
आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम ॥१६॥
तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः ।
प्रायेण दुता इह वै मनोहरा श्चरन्ति तद्रुपगुणस्वभावाः ॥१७॥
भुतानि विष्णोः सुरपुजितानि दुर्दर्शलिंगानि महाद्भुतानि ।
रक्षन्ति तद्भाक्तिमत परेभ्यो मत्तश्च मर्त्यानथ सर्वतश्च ॥१८॥
धर्मं तु साक्षाद्भग्वत्प्रणीतं न वै विद्रुऋषयो नापि देवाः ।
न सिद्धमुखा असुरा मनुष्याः कुतश्च विद्याधरचारणादयः ॥१९॥
स्वयम्भुर्नाददःशम्भुःकुमारः कपिलो मनुः ।
प्रह्लादो जनको भीष्मो बलिवैयासकिर्वयम ॥२०॥
द्वादशैते विजानीमो धर्में भागवत भटाः ।
गुह्ना विशुद्ध दुर्बोध यं ज्ञात्वा मृतमश्रुते ॥२१॥
एतावानेव लोकेऽस्मिन पुसं धर्मः परः स्मृतः ।
भक्तियोगी भगवति तत्रास्मग्रहणादिभिः ॥२२॥
नामोच्चारणमहात्म्यं हरेः पश्यत पुत्रकाः ।
अजामिलोऽपि येनैव मृत्युपाशादमुच्यत ॥२३॥
एतावतालमघनिर्हरणाय पुंसां संकीर्तनं भगवतो गुणकर्नाम्राम ।
विक्रुश्य पुत्रमघवान यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिमक ॥२४॥
प्रायेण वेद तदिदं न महाजनोऽयं देवा विमोहितमतिर्बत माययाऽलम ।
त्रय्यां जडीकृतमतिर्मधुपुष्पितायां वैतानिकेमहति कर्मणि युज्यमानः ॥२५॥
एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम ।
ते मे न दण्डमर्हन्त्यथ यद्यमीषां स्यात पातकं तदपि हन्त्युरुगायवादः ॥२६॥
ते देवसिद्धपरिगीतपवित्रगाथा ये साधवः समदृशो भगवत्प्रपन्नाः ।
तान नोपसीदत्त हरेर्गदयाभिगुप्तान नैषां वयं न च वयः प्रभवाम दण्डे ॥२७॥
तानानयध्वमसतो विमुखान मुकुन्द पादारविन्दमकरन्दरसादजस्रम ।
निष्क्रिचनैः परमहंसकुलै रसज्ञैर्जुष्टाद गृहे निरयवर्त्मनि बद्धतृष्णान ॥२८॥
जिल्हा न वक्ति भगवद्गुणनामधेयं चेतश्च न स्मरति तच्चरणारविन्दम ।
कृष्णाय नो नमति यच्छिर एकदापि तानानयध्वमसतोऽकृतविष्णुकृत्यन ॥२९॥
तत क्षम्यतां स भगवान पुरुषः पुराणो नारायणाः स्वरुपुरुषैर्यदसत्कृतं नः ।
स्वानामहो न विदुषां रचितात्र्जलीनां क्षान्तिर्गरीयसि नमः पुरुषाय भुम्ने ॥३०॥
तस्मात संकीर्तन विष्णोर्जगमंगलमहंसाम ।
महतामपि कौरव्य विद्द्यैकान्तिकनिष्कृतिम ॥३१॥
श्रृण्वतां गृणतां वीर्याण्युद्द्यमनि हरेर्मुहुः ।
यथा सुजातया भक्त्या शुध्येन्नात्मा व्रतादिभिः ॥३२॥
कृष्णांघ्रिपदममधुलिण न पुनर्विसृष्टमायागुणेषु रमते वृजिनावहेषु ।
अन्यस्तु कामहत आत्मरजः प्रमाष्टु मीहेत कर्म यत एव रजः पुनः स्यात ॥३३॥
इत्थं स्वभर्तृगदितं भगवन्महित्वं संस्मृत्य विस्मितधियो यमकिंगरास्ते ।
नैवाच्युताश्रयजनं प्रतिशकंराना द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन ॥३४॥
इतिहासमिमं गुह्नां भगवान कुम्भसम्भवः ।
कथयामास मलय आसीनो हरिमर्चयन ॥३५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे यमपुरुषसंवादे तृतीयोऽध्यायः ॥३॥