राजोवाच
महर्ष एतद्वैचित्र्यं लोकस्य कथामिति ॥१॥
ऋषिरुवाच
त्रिगुनात्वात्कर्तुः श्रद्धया कर्मगतयः पृथग्विधाः
सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥२॥
अथेदानीं प्रतिषिद्धलक्षणस्याधर्मस्य तथैव
कर्तुः श्रद्धाया वैसादृश्यात्कर्मफलं विसदृशं
भवति या ह्यानाद्यविद्यया कृतकामानां
तत्परिणामलक्षणाः सृतयः सहस्रशः
प्रवृत्तास्तांसां प्राचुर्येणानुवर्नायिष्यामः ॥३॥
राजोवाच
नरका नाम भगवान किं देशविशेषा अथवा
बहिर्स्त्रिलोक्या अहोस्विदन्तराल इति ॥४॥
ऋषिरुवाच
अन्तराल एव त्रिजगत्यास्तु दिशी
दक्षिनस्यामधस्ताद्भुमेरुपरिष्टाच्च जलद्यस्याम
अग्निष्वात्तादय पितृगणा दिशी स्वानां गोत्राणां
परमेन समधिना सत्या एवाशिष आशासाना
निवसन्ति ॥५॥
यत्र ह वाव भगवान पित्रूराजो वैवस्वतः
स्वविषयं प्रापितेषु स्वपुरुषैर्जन्तुषु सम्परेतेषु
यथाकर्मावद्य दोषमेवानुल्लघिंतभगवच्छसानः
सगणो दमं धारयति ॥६॥
तत्र हैके नरकानेकविशतिम गणयन्ति अथ
तास्तें राजन्नामरुपलक्षणतोऽनुक्रमिष्याम
स्तामिस्रोऽन्धुतामिसो रौरवो महारौरवः कुम्भोपाकः
भोजन सन्दंशस्तप्तसुर्मिरज्रकण्टकशाल्मली
वैतरणी पुयोदः प्राणरोधी विशसनं लालाभक्षः
सारमेयाअनमवीचिरयः पानमिती ।
किंच क्षारकर्दमो रक्षोगणभोजनः शुलप्रोतो
दन्दशुकोऽवटनिरोधनः पर्यावर्तनः सुचीमुखमित्य
ष्टाविंशतिर्नरका विविधयातनाभुमयः ॥७॥
तत्र यस्तु परवित्तापत्यकलत्राण्यपहरति सहि
कालपाशबद्धो यमपुरुषैरतिभयानकैस्तामिस्त्रे
नरके बलान्निपात्यते अनशनानुदपानदण्डताडन
संतर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र
कश्मलमसादित एकदैव मुच्छामुपयाति तामिस्रपाये ॥८॥
एवमेवान्धतामिस्त्रे यस्तु व्चंयित्वा पुरुषं दरदीनपुयुक्ते
यत्र शरीरी निपात्यामानो यातनास्थो वेदनया नष्टमतिर्नष्टदुष्टिश्च
भवति यथा वनस्पतिर्वृश्यच्यमानमुलस्तस्मादन्धतामिस्रं तमुपदिशन्ति ॥९॥
यस्त्विह वा एतदहमिति ममेदमिति भुतद्रोहेण
केवल स्वकुटुम्बमेवानुदिनं प्रपुष्णति स तदिह
विहाय स्वयमेव तदशुभेन रौरवे निपतति ॥१०॥
ये त्विह यथैवामुना विर्हिंसिता जन्तवः परत्र
यमयातनामुपगतं त एव रुरवो भुत्वा तथा तमेव
विहिंसन्ति तस्माद्रोवमित्याहु रुरुरिति सर्पादति
क्रुरसत्वस्यापदेशः ॥११॥
एवमेव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा
नाम रुरवस्तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥१२॥
यस्तिह वा उग्रः पशुन पक्षिणो वा प्राणत
उपरन्धयति तमपकरुणं पुरुषदैरपि विगर्हितममुत्र
यमानुचराः कुम्भीपाके तत्पतैले उपरन्धयन्ति ॥१३॥
यस्तिवह पितृविप्रब्रह्मधुर्क स कालसुत्रसंज्ञके
नरके अयुतयोजापरिमण्डलं ताम्रमये तप्तखले
उपर्यधस्तादग्न्यर्काभ्यामतितप्यमानेऽभिनिवेशितः
क्षुप्तिपासाभ्यां च दह्यामानान्तर्बहिःशरीर आस्ते शेते
चेष्टतेऽवतिष्ठति परिधावति च यावन्ति पशुरोमानि तावएद्वर्षसहस्राणि ॥१४॥
यास्त्विह वै निजवेदपथादनापद्यपगतः
पाखण्ड चोपगतस्तमसिपत्रवनं प्रवेश्य कशया
प्रहरन्ति तत्र हासवितस्ततो धावमान उभयतोधारै
स्तालवनासिपत्रैश्छिद्यमानसर्वांगो हा हतोऽस्मीते
परमया वेदनया मुर्च्छितः पदे पदे निपतित स्वधर्महा
पाखण्डानुगतं फलं भुडक्तेः ॥१५॥
यस्त्विह वै राजा राजपुरुषो वा अदण्डे दण्डं
प्रणयति ब्राह्मणो वा शरीरदन्डं स पापीयान्नरकेऽमुत्र
सुकरमुखे निपतति तत्रातिबलैर्विनिष्पिमाणावयवो
यथैवेहेक्षुखण्ड आर्तस्वरेण स्वनयन क्वचिन्मुच्छितः
कश्मलमुपगतो यथैवेहादृष्टदोषा उपरुद्धाः ॥१६॥
यस्त्विह वै भुतानामी श्वरोपकल्पितवृत्तीनामविविक्तपरव्यथानां
स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथो व्यथामाचरति स
परत्रान्धकुपे तदभिद्रोहेण निपतति तत्र हासौ तैर्जैन्तुभिः पशुमृग
पक्षिसरीसृऐर्मशकयुकामत्कुणमक्शिकदिभिर्ये के चाभिद्र्गुग्धास्तेः
सर्वतोऽभिद्रह्माणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः
परिक्रामति यथा कुशरीरे जीवः ॥१७॥
यस्तिवह वा असंहविभज्याश्रन्ति यत्कित्र्चनोपनतमनिर्मितपंचयज्ञो
वायससंस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शतसहस्रयोजने
कुमिकुण्डे कृमिभुतः स्वयं कृमिभिरेव भक्ष्यमाणः कृमिभोजनो
यावत्तदप्रत्ताप्रहुतादोऽनिर्वेशमात्मानं यातयते ॥१८॥
यस्तिह वै स्तेयेन बलाद्वा हिरण्यरत्नादिईनि
ब्राह्मणस्य वापहरत्यन्यस्य वानापदि पुरुषस्तममुत्र
राजन यमपुरुषा अयस्मयैरग्निपण्डैः सन्दंशैस्त्वचि
निष्कुषन्ति ॥१९॥
यस्त्विह वा अगम्यां स्त्रियमगस्यं वा पुरुषं योषिदभिगच्छति
तावमुत्र कशया ताडन्तस्तिग्मया सुम्यां लोहमय्या पुरुषमालिंगन्ति
स्त्रियं च पुरुषरुपया सुम्या ॥२०॥
यस्त्विह वै सर्वाभिअमस्तममुत्र निरये वर्तमानं वज्रकण्टकशाल्मलीमारोप्य
निष्कर्षिन्ति ॥२१॥
ये त्विह वै राजन्या राजपुरुषां वा अपाखण्डा धर्मसेतुन भिन्दन्त ते सम्परेत्य
वैतरिण्यां निपतन्ति भिन्नमयादास्तस्यां निरयपरिखाभुतायां नद्याम
यादोअणैरितस्ततो भक्ष्यमाणा आतम्ना च वियुज्यमानाश्चासुभिरुह्यामानाः
स्वाघेन कर्मपाकमनुस्मरत्नो विण्मुत्रपुयशोणितकेश नखास्थिमेदामांसवसावाहिन्यामुपतप्यन्ये ॥२२॥
ये त्व्ह वै वृषलीपतयो नष्टसौचाचारनियमा स्त्यक्तलज्जाः पशुचर्या चरन्ति ते चापि प्रेत्य
पुयविण्मुत्रश्लेष्ममलापुर्णार्णवे निपतन्ति तदेवातिबीभत्सितमश्रन्ति ॥२३॥
ये त्विह वै श्वगर्दभपतयो ब्राह्मणादयो मृगयाविहारा अतीर्थे च मृगान्निघ्रान्ति
तानपि सम्परेताँल्लक्ष्यभुतान यमपुरुषा इषुभिर्विध्यन्ति ॥२४॥
ये त्विह वै दाम्भिका दम्भयज्ञेषु पशुन विशसन्ति तानमुष्मिँल्लोके वैशसे
नरके पतितान्निरयपतयो यातयित्वा विशसन्ति ॥२५॥
यस्तिवह वै सवर्न भार्यां द्विजो रेतः पाययति
काममोहितस्तं पापकृतममुत्र रेतः कुल्यायां
पातयित्वा रेतः सम्पाययन्ति ॥२६॥
ये त्विह वै दस्यवोऽग्निदा गरदा ग्रामान सार्थान वा विलुम्पन्ति राजानो
रजाभटा वा तांश्चपि हि परेत्य यमदुता वज्रद्वंष्टाः श्वानः सप्तशतानि
विशिंतैश्च सरभसं खादन्ति ॥२७॥
यस्त्विह वा अन्रुतं वदति साक्ष्ये द्रव्यविनिमये
दाने वा काथत्र्चित्स वै प्रेत्य नरकेऽवीचिमत्यधः शिरा
निरवकाशे योजनशतोऽच्छायाद निरिमुर्धः सम्पात्यते
यत्र जलमिव स्थलमश्मपृष्ठमवभासते
तदवीच्मत्तिलशो विशीर्यमाणशरीरो न
म्रियमाणः पुनरारोपैतो निपताति ॥२८॥
यस्त्विह वै विप्रो राजन्यो वैश्यो वा
सोमपीथस्तत्कलत्रं वां सुरां व्रतस्थोऽपि
वा पिबति प्रमादतस्तेषां निरयं नीतानामुरसि
पदाऽऽक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं
निषित्र्चन्ति ॥२९॥
अथ च यस्व्तिह वा आत्मसम्भावनेन
स्वयमधमो जन्मतपोविद्याचारवर्नाश्रमवतो
वरीयसो न बहु मन्येत स मृतक एव मुत्वा
क्षारकर्दमें निरयेऽवाक शिरा निपातितो
दुरन्ता यातना ह्याश्रुते ॥३०॥
ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते याश्च
स्त्रियो नूपशुतअ खादन्ति तांश्च ते पशन इव
निहता यमसदने यातयन्तो रक्षोगणाः सौनिका
इव स्वाधितिनाऽवदायासुकू पिबन्ति नृत्यान्ति
च गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥३१॥
ये त्विह वा अनागसोऽरण्ये ग्रामे वा
वैश्वमभकैरुपसृतानुपविश्रम्भय्य
जिजीविषुन शुलसुत्रादिषुपप्रोतान
क्रीडानकतया यातयन्ति तेऽपि च प्रेत्य
यमयातनासु शुलादिषुअ प्रोतात्मानः
क्षुत्तुडभ्यां चाभिहताः कंकवटादिभिश्चेतस्तत
स्तिग्मतुण्डैराहन्यमाना आत्मशमलं स्मरन्ति ॥३२॥
ये त्विह वै भुतान्युद्वेजयन्ति नरा
उल्बणस्वभावा यथा दन्दशुकास्तेऽपि प्रेत्त्य नरके
दन्दशुकाख्यें निपतन्ति यत्र नृप दन्दशुकाः
पंचमुखाः सप्तमुखा उपसृत्य ग्रसन्ति यथा
बिलेशयान ॥३३॥
ये त्विह वा अन्धावतकुसुलगुहादिषु भुतानि
निरुन्धान्ति तथामुत्र तेष्वेवोपवेश्य सगरेण वह्निना
धुमेन निरुन्धन्ति ॥३४॥
यस्तिव्ह वा अतिथिनभ्यागतान वा गृहपतिरसकृदुपगतमन्युर्दिधनक्षुरिव
पापेन चक्षुषा निरीक्षते तस्य चापि निरये पापदृष्टेरक्षिणी वज्रतुण्डा गृध्राः
कंककाकवटादयः प्रसह्योरुबलादुप्ताटयन्ति ॥३५॥
यस्त्विह वा आढ्याभिमातिरहडकृतिस्तिर्यकुप्रेक्षण
सर्वतोऽभिविशकौं अर्थव्ययनाशचिन्तया
परिशुष्यमाणहृदयवदनो निर्वृतिमनवगतो
ग्रह इवार्थमभिरक्षिति स चापि प्रेत्य
तदुप्तादनोत्कर्षणसंरक्ष्णशमलग्रहः
सुचीमुखे नरके निपतति यत्र ह
वित्तग्रहं पापपुरुषं धर्मराजपुरुषां वायका इव
सर्वतोऽगेषु सुतैः परिवयन्ति ॥३६॥
एवंविधा नरका यमालये सन्ति शतशः
शस्त्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो
ये केचिदिहोदिता अनुदिताश्चावनिपते
पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र
इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥३७॥
निवृत्तिलक्षणमार्ग आदावेव व्याख्यातः ।
एतावानेवाण्दकोशो यश्चतर्दशधा पुराणेषु
विकल्पित उपगीयते यत्तद्भगवतो नारायणस्य
साक्षान्महापुरुषस्य स्थविष्ठं रुपमात्ममाया
गुणमयमनुवर्णितमादृतः पठति श्रृणोति
श्रावयति स उपगेयं भगवतः परमात्मानोऽग्राह्ममपि
श्रद्धाभक्तिविशुद्धबुद्धिर्वेद ॥३८॥
श्रुत्वा स्थुलं तथा सुक्ष्मं रुपं भगवतो यतिः ।
स्थुलं निर्जितमात्मनं शनैः सुक्ष्मं धिया नयेदिति ॥३९॥
भूद्विपवर्षसरिदद्रिनभः समुद्र पातालदिडनरकभागणलोकसंस्था ।
गीता मया तव नृपाद्भुतमीश्वरस्य स्थुलं वपुः सकलजीवनिकायधाम ॥४०॥
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रष्ट्यां पारमहंस्या संहितायां पंचमस्कन्धे नरकानुवर्णनं नाम षडविंशोऽध्यायः ॥२६॥
॥ इति पंचमः स्कन्ध समाप्त ॥
॥ हरिः ॐ तत्सत ॥