संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ अष्टादशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः

पुरुषा भद्राश्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां

तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना

संनिधाप्येदमभिगृणन्त उपधावान्ति ॥१॥

भद्रश्रवस ऊचुः

ॐ नमो भगवत धर्मायात्मविशोधनाय नम इति ॥२॥

अहो विचित्र भगवद्विचेष्टितं घ्रन्तं जनोऽयं हि मिषन्न पश्यति ।

ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ॥३॥

वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्तिं चाध्यात्मविदो विपश्चितः ।

तथापि मुह्यान्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम ॥४॥

विश्वोद्भवस्थाननिरोधकर्म ते ह्याकर्तुरंगीकृतमप्यपावृतः ।

युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्तेच वस्तुतः ॥५॥

वेदान युगान्ते तमसातिरस्कृतान रसातलाद्यो नृतुरंगविग्रहः ।

प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्तेऽवितथेहिताय इति ॥६॥

हरिवर्षे चापि भगवान्नरहरिरुपेणास्ते ।

तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये ।

तदयितं रुप महापुरुषगुणभाजनो महाभागवतो

दैत्यदानवकुलतीर्थाकरणशीलाचरितः प्रह्लादोऽव्यवधानानन्यभक्तियोगेन

सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥७॥

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र

कर्माशयान रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयमभय मात्मनि

भुयिष्ठा ॐ क्ष्‍रौम ॥८॥

स्वस्त्यस्तु विश्वस्य खलः प्रसीदतां ध्यायस्तु भुतानि शिवं मिथो धिया ।

मनश्व भद्रं भजतादधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी ॥९॥

माऽगारदारात्मजवित्तबन्धुषु संगोक यदि स्याद्भगवात्प्रियषु नः ।

यः प्राणवृत्या परितुष्ट आत्मवान सिद्धायत्यदुरान्न तथेन्द्रियप्रिय ॥१०॥

यत्संगलब्धं निजवीर्यवैभवं तीर्थ मुहुः संस्पृशतां हि मानसम ।

हरत्यजोऽन्तः श्रुतिभिर्गतोऽगंजं को वै न सेवेत मुकुन्दविक्रमम ॥११॥

यस्यास्ति भत्किर्भगवत्यकिंचना सर्वैर्गुणैस्तत्र समासते सुराः ।

हरावभक्तस्य कुतो महद्रुणा मनोरथेनासति धावतो बहिः ॥१२॥

हरिर्हि साक्षाद्भागवान शरीरिणामात्मा झषाणामिव तोयमीप्सितम ।

हित्वा महांस्तं यदि सज्जते गृहे तदा महत्वं वयसा दम्पतीनाम ॥१३॥

तस्माद्रजोरागविषदमन्यु मानस्पृहाभयदैन्याधिमुलम ।

हित्वा गृहं संसृतिचक्रावालं नृसिंहपादं भजताकुतोभयमिति ॥१४॥

केतुमालेऽपि भगवान कामदेवस्वरुपेण लक्ष्म्याः प्रियचिकीर्षया

प्रजापतेर्दुहितृणां पुत्रांना तद्वर्षपतींना पुरुषायुषाहोरात्रपरिसंख्यानानां यांसां

गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनासां विध्वस्ता व्यसवः संवत्सरान्ते

विनिपतन्ति ॥१५॥

अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया

कत्र्चिदुत्तम्भित सुन्दरभ्रुण्डलसुभगवदनारविन्दश्रिया रमां

रमायन्निन्द्रियानि रमयते ॥१६॥

तद्भगवतो मायमयं रुपं परमसमाधियोगेन रमा देवी संवत्सरस्य

रात्रिषु प्रजापतेर्दुहितृभिरुपेताहः सुच तद्भर्तृभिरुपास्ते इदं चोदाहरति ॥१७॥

ॐ ह्रां ह्रीं ह्रँ ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेशैर्विलक्षितात्मने

आकूतीनां चित्तीणां चेतसां विशेषाणां चाधिपतये षोडशकलाय

च्छन्दोमयायान्नमायायामॄतमयाय सर्वमयाया सहसे ओजसे बलाय

कान्ताय नमस्ते उभयत्र भुयात ॥१८॥

स्त्रियो व्रतैत्वा हृषिकेश्वरं स्वतो

ह्रयराध्य लोके पतिमाशासतेऽन्यम ।

तासां न ते वै परिपान्त्यपत्यं प्रियं धनायुषिं यतोऽस्वतन्त्रः ॥१९॥

स वै पतिः स्यादकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम ।

स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मान्यते परम ॥२०॥

या तस्य ते पादसरोरुहार्हणं निकामयित्साखिलकामलम्पटा ।

तदेवरासीप्सितमीप्सितोऽर्चितो यद्भग्रयात्र्चा भगवन प्रतप्यते ॥२१॥

मप्त्रात्पयेऽजेशसुरासुराद्य स्तप्यन्त उग्रं तप ऐन्द्रियेधियः ।

ऋते भवत्पादपरायणान्न मां विन्दत्यहं त्वदधृदया यतोऽजित ॥२२॥

स त्वं ममाप्यच्यतु शीष्णि वन्दितं कराम्बुजं यत्वदधायि सात्वताम ।

बिभर्षि मां लक्ष्य वरेण्य मायया क ईश्वरस्येहितमूहितुं विभुरिति ॥२३॥

रम्यके च भगवतः प्रियतमं मात्स्यमवताररुपं तद्वर्षपुरुषस्य मनोः

प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति ॥२४॥

ॐ नमो भगवते मुख्यतमाय नमः सत्वाय प्राणायौजसे सहसे बलाय

महामस्याय नम इति ॥२५॥

अन्तर्बहिश्चाखिललोकपालकै रदृष्टरुपो विचरस्युरुस्वनः ।

स ईश्वरस्त्वं य इदं वशेऽनय न्नाम्रा यथा दारुमयीं नरः स्त्रियम ॥२६॥

यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक समेत्य च ।

पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ॥२७॥

भवान युगान्तार्णव ऊर्मिमालिनि क्षोणामिमामोषधिविरुधां निधिम ।

मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ॥२८॥

हिरण्मयेऽपि भगवान्निवसति कुर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा

सहवर्षपुरुषैः पितृगणाधिपातिरुपधावाति मन्त्रमिमं चानुजपति ॥२९॥

ॐ नमो भगवते अकूपाराय सर्वसत्वगुण विशेषणायानु पलक्षितस्थानाय

नमो वर्ष्मणे नमो नमो नमोऽवस्थानाय नमस्ते ॥३०॥

यद्गूपमेतन्निजमययार्पित मर्थस्वरुपं बहुरुपपितम ।

संख्या न यस्यास्त्ययथोपलम्भनात तस्मै नमस्तेऽव्यपदेशरुपिणे ॥३१॥

जरायुजं स्वेदजमन्डजोद्भिदं चराचरं देवर्षितितृभुतमैन्द्रियम ।

द्यौः खं क्षितिः शैलसरित्समुद्र द्वीपग्रहक्षैत्यभिधेय एकः ॥३२॥

यस्मिन्नसंख्येयविशेषनामरुपाकृतौ कविभिः कल्पितेयम ।

संख्या यया तत्त्वदृशापनीयते तस्मै नमः सांख्यानिदर्शनाय ते इति ॥३३॥

उत्तरेषु च कुरुषु भगवान यज्ञपुरुषः कृतवराहरुप आस्ते तं तु देवी हैषा भुः

सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥३४॥

ॐ नमो भगवते मन्त्रतत्वलिंगाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय

नमः कर्मशुक्लाय त्रियुगाय नमस्ते ॥३५॥

यस्य स्वरुपं कवयो विपश्चितो गुणेषु दारुष्विव जातवेदसम ।

मथ्यन्ति मथ्ना मनसा दिदृक्षवो गुढं क्रियार्थैनेम ईर्मितात्माने ॥३६॥

द्रव्यक्रियाहेत्वयनेश्कर्तृभिर्मायागुणैर्वस्तुनिरीक्षितात्मने ।

अन्वीक्षयागंतिशयात्मबुद्धीभि र्निरस्तमायाकृतये नमो नमः ॥३७॥

करोति विश्वस्थितिसंयमोदयं यस्येस्पितं नेप्सितमीक्षीतुर्गौणैः ।

माया यथाऽयो भ्रमते तदाश्रयं ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥३८॥

प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसुकरः ।

कृत्वाग्रदंष्टे निरगादुदन्वतः क्रीडान्निवेभः प्रणतास्मिं तं विभिमिति ॥३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहिंतायां पंचमस्कन्धे भुवनेकोशवर्णनं नामाष्टादशोऽध्ययः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP