संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ विंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवण्यते ॥१॥

जम्बुद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा

मेरुर्जम्ब्वाखेयन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन

परिक्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो जम्बुप्रमाणो द्वीपाख्याकरो

हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपातिः प्रियव्रतत्मज

इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सत्पवर्षनामभ्यः आम्तजेभ्य

आकलय्य स्वयमात्मयोगेनोपरराम ॥२॥

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति

वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ॥३॥

मणिकुटो वज्रकुट इंन्द्रसेनो ज्योतिष्मान

सुपर्णो हिरण्यष्ठिवो मेघमाल इति सेतुशैलः ।

अरुना नृम्णाऽऽगिरसी सावित्री सुप्रभाता

ऋतुम्भरा सत्यम्भरा इति महानद्यः यासां

जलोपस्पर्शनविधुतरजस्तमसो महानद्यः

यांसा जलोपस्पर्शनविधुतरजस्तमसो हंसपतगोर्ध्वायन

सत्यागंसंज्ञाश्चत्वरो वर्नाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजनाः

स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रचीमयं सुर्यमात्मानं यजन्ते ॥४॥

प्रत्‍नस्य विष्णो रुपं यत्सत्यस्यर्तस्य ब्रह्मणः ।

अमृतस्य च मृत्योश्च सुर्यमात्मानमीमहीति ॥५॥

प्लक्शादिषु पंचसु पुरुशषाअणामयुरिन्द्रिमोजः

सोह बलं बुद्धीर्विक्रम इति च सर्वेषामौत्पत्तिकी

सिद्धिरविशेषेण वर्तते ॥६॥

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा

द्वीपोऽपि शाल्मलो द्विगुणविशालः समानेन

सुरोदेनावृतः परिवृक्ते ॥७॥

यत्र ह वै शाल्मली प्लक्षायामा यस्या वाव

किल निलयमाहुर्भगवतश्चन्दः स्तुतः पतत्त्रिराजस्य

सा द्वीपहुतये उपलक्ष्यते ॥८॥

तदद्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः

सप्तभ्यस्तन्नामानि सप्तवर्शाणि व्यभज्त्सुरोचनं सौमनस्यं

रमणकं देववर्ष पारिभद्रमाप्यायनमविज्ञातमिति ॥९॥

तेषु वर्शाद्रयो नद्यश्च सप्तैवाभिज्ञाताः स्वरसः शतश्रृंगो

वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्त्रश्रुतिरिति ।

अनुमतिः सिनीवाली सरस्वती कुहु रजनी नन्दा राकेती ॥१०॥

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं

सोममात्मानं वेदेन यजन्ते ॥११॥

स्वगोभिः पितृदेवेभ्यो विभजन कृष्णशुक्लयोः ।

प्रजानां सर्वासा राजान्ध सोमो न आस्त्विति ॥१२॥

एवं सुरोदाद्वतिहिस्तदद्विगुणः समानेनावृतो घृतोदेन यथापुर्वः

कुशद्वीपो यस्मिन कुशस्तम्बो देवकुतस्तदद्वीपाख्याकरो

ज्वलन इवापरः स्वशष्प रोचिषा दिशो विराजयति ॥१३॥

तदएद्वीपपतिः प्रैयव्रतो राजन हिरण्यरेता नाम

स्वं द्वीप सप्तभ्यं स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप

आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तृत्य व्रतविविक्तमानदेवनामभ्यः ॥१४॥

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्त सप्तैव चक्रश्चतःश्रृगः कपिलश्चित्रकुटो देवानीक

ऊर्ध्वारोमा द्रविण इति रसकुल्या मधुकुल्या मित्राविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥१५॥

यांसा पयोभिः कुशद्वीपौकसः

कुशलकोविदाभियुक्तकुलकसंज्ञा

भगवन्तं जातवेदसरुपिणं

कर्मकौशलेन यजन्ते ॥१६॥

परस्य ब्रह्माणः साक्शाज्जातवेदोऽसि हव्यावाट ।

देवांनां पुरुषांगांना यज्ञेन पुरुषं यजेति ॥१७॥

तथाघृतोदाद्वहिः क्रौच्चिद्वीपो द्विगुणः स्वमानेन

क्षीरोदेन परित उपक्लुत्पो वृतो यथा कुशद्वीपो

घृतोदेन यस्मिन क्रौच्त्रो नाम पर्वतराजो द्वीप

नामनिर्वर्तक आस्ते ॥१८॥

योऽसौ गृहप्रहरणोन्मथितनितम्बकुत्र्जोऽपि

क्षीरोदेनासिच्यमानों भगवाता वरुणेनाभिनुप्तो

विभयो बभुव ॥१९॥

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामधिपतिः स्वे

द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसुः सप्त

रिक्थादान वर्षपान्निवेश्य स्वयं भगवान भगवतः

परमकल्याणयशम आत्मभुतस्य हरेश्वरणारविन्दम

उपजगाम ॥२०॥

आमो , मधुरुहो मेघपुष्ठः सुधामा भ्राजिष्ठो लोहितार्णो

वनस्पतिरिति घृतपृष्ठसुतास्तेषां

वर्षागिरयः सत्प सप्तैव नद्यश्चाभिख्याताः शुक्लो

वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र

इति अभया अमृतौहा आर्यका तीर्थवती वृत्तिरुपवती

पवित्रवती शुक्लेति ॥२१॥

यासामभ्यः पवित्रममलमुपयुत्र्जानाः पुरुष

ऋषभद्रविणदेवकसंज्ञा वर्षसुषा आपोमयं

देवमपां पुर्णेनात्र्जालिना यजन्ते ॥२२॥

आपः पुरुषवीर्यः स्थ पुनन्तीर्भुर्भुवः सुवः ।

ता नः पुनीतामीवघ्रीः स्पृशतामात्मनां भुव इति ॥२३॥

एवं पुरस्तात्क्षीरोदाप्तरित उपवेशितः शाकद्वीपोद्वात्रिंशल्लक्षयोजनायामः

समानेन च दधिमण्डोदेन परीतो यस्मिन शाको नम महिरुहः

स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥२४॥

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्रा मेधातिथिः

सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु

स्वात्मजान पुरोजवमनोजवपवमानध्रुम्रनीक

चित्ररेफबहुरुपविश्वधारसंज्ञान्निधाप्यधिपतीन

स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं

प्रविवेश ॥२५॥

एतेष वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव

ईशान उरुश्रृंगो बलभद्र शतकेसरः सहस्रस्रोतो

देवपालो महानस इति अनघाऽऽयुर्दा उभय

स्पृष्टिरपराजिता पंचनदी सहस्रस्रुतिर्निजधृति

रिति ॥२६॥

तद्वर्शपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रत

नामानो भगवन्तं वाय्वात्मकं प्राणायामविधुत

रजस्तमसः परमसमाधिना यजन्ते ॥२७॥

अन्तः प्रविश्यः भुतानि यो बिभत्यात्मकेतुभिः ।

अन्तर्यामीश्वरः साक्षात्पातु नो यद्वशे स्फुटम ॥२८॥

एवमेव दधिमण्डोदाप्तरतः पुष्करद्वीपस्ततो

द्विगुणायामः समन्तत उपकल्पितः समानेन

स्वादुदकेन समुद्रेण बहिरावृतो यस्मिन बृहत्पृषक्रं

ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः

कमलासनस्याध्यासनं परिकल्पितम ॥२९॥

तदद्वीपमध्ये मानसोत्तरनामैक एवार्वाचीन

पराचीनवर्शयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो

यत्र तु चतुसृषु दिक्षु चत्वारि पुराणि लोकपालाना

मिन्द्रादीनां यदुपरिष्टात्सुर्यरथस्य मेरुं परिभ्रमतः

संतत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥३०॥

तद्वद्वीपस्यापत्धिपतिःप्रैयव्रतो वीतिहोत्रो नामिअतस्यात्मजौ

रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं

पुर्वजवद्भगवत्कर्मशील एवास्ते ॥३१॥

तद्वर्षपुरुषा भगवन्तं ब्रह्मारुपिणं सकर्मकेण

कर्मणाऽऽराधयन्तीदं चोदाहरन्ति ॥३२॥

यत्तत्कर्ममयं लिंग ब्रमालिंग जनोऽर्चयेत ।

एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥३३॥

ऋशिरुवाच

ततः परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले

परित उपक्षिप्तः ॥३४॥

यावन्मानसोत्तरमेर्वोन्तरं तावती भुमिः

कात्र्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहितः पदार्थो

न कथत्र्चित्पुमः प्रत्यौपलभ्यते तस्मात्सर्व

सत्वपरिहृताऽऽसीत ॥३५॥

लोकालोक इति समाख्या यदनेनाचलेन

लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥३६॥

स लोकत्रयान्ते परित इश्वरेण विहितो

यस्मात्सूर्यदीनां ध्रुवापवर्गाणां ज्योतिर्गणानां

गभतयोऽर्वाचीनास्त्रीँल्लोकनावितन्वाना न

कदाचिप्तराचीना भवितुमुत्सहन्ते तावदु

न्नहनायामः ॥३७॥

एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभि

र्विचिन्तितः कविभिः सतु पंचाशतोटिगणितस्य

भुगोलस्य तुरीयभागोऽयं लोकालोकाचलः ॥३८॥

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल

जगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः

पुष्करचुडो वामनोऽपराजित इति सकल लोकस्थितिहेतवः ॥३९॥

तेषां स्वविभुतीनां लोकपालांना च

विविधवीर्योपबृहंणाय भगवान परममहापुरुषो

महाविभुतिपरिरन्तर्याम्यात्मनो विशुद्धसत्वं

धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं

विष्वकसेनादिभिः स्वपार्षदप्रवरैः परिवारितो

निजवरायुधोपशोभितैर्निजभुजदण्डैः

सन्धारयमान्णस्तस्मिन गिरिवरे

समन्तात्सकललोकस्वस्तय आस्ते ॥४०॥

आकल्पमेवं वेषं गत एष भगवानात्मयोग

मायया विचचितविविधलोकयात्रागोपीथाय

इत्त्यर्थः ॥४१॥

योऽन्तर्विस्तार एतेन ह्यालोकपरिमाणं च

व्याख्यात यद्वहिर्लोकालोकाचलात ततः

पारस्ताद्योगेश्वरगतिं विशुद्धमुदाहरन्ति ॥४२॥

अण्डमध्यगतः सुर्यो द्यावाभुम्योर्यदन्तरम ।

सुर्योण्डगोलयोर्मध्ये कोट्यः स्युः पंचंविशंतिः ॥४३॥

मृतेण्ड एष एतस्मिन यदभुत्ततो मार्तण्ड इति

व्यपदेशः ।

हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भवः ॥४४॥

सुर्येण हि विभज्यन्ते दिशः खं द्यौर्मही भिदा ।

स्वर्गापवर्गी नरका रसौकांसि च सर्वशः ॥४५॥

देवतिर्यगंष्याणां सरीसृपसवीरुधाम ।

सर्वजीवनिकायाणां सुर्य आत्मा दुगीश्वरः ॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे भुवनकोशवर्णने समुद्रवर्षनिवेशपरिमाणलक्षणे विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP