श्रीशुक उवाच
तस्य मुलदेशे त्रिंशोद्योजनसहस्रान्तर आस्ते या
वै कला भ्गवतस्तामसी समाख्याताऽनन्त इति
सात्वतीया द्रष्ट्रदृश्ययोः सकर्षणमहमित्याभिमान
लक्षणं यं सकंर्षणीमित्याचक्षते ॥१॥
यस्येदं क्षितिमंण्डलं भगवतोऽनन्तमूर्तेः
शस्रशिरस एकस्मिन्नैव शीर्षणि ध्रियमाणं
सिद्धार्थ इव लक्ष्यते ॥२॥
यस्य ह वा इदं कलएनोपसंजिहीर्षतोऽमर्ष
विरचितरुचिरभ्र्मदभ्रवोरन्तरेण सांकर्षणो नाम
रुद्र एकादशव्युहस्त्र्यक्षस्त्रिशिखं शुलमुतम्भयन्नुदतिष्ठत ॥३॥
यस्याडघ्रिकमलयुगलारुग्णविशदनखमणि
षण्डमण्दलेष्वहितपतयः सह सात्वतर्षभैरकान्त
भक्तिओगेनावनमत्त स्ववदनानि परिस्पुरत
कुण्दलप्रबहमण्डितगण्डस्थलन्यतिमनोहराणि
प्रमुदितमनसः खलु विलोकयन्ति ॥४॥
यस्यैव हि नागराजकुमर्य आशिष
आशासानश्चर्वगंवलयविलसितविशदविपुल
धवलसु भगरुचिरभुजरजतस्तम्भेष्वगुरुचन्दन
कुदकुमपंकानुलेपेनावलिल्म्पमानस्तदभिमर्शनो
न्मथितहृदयमकरद्व्हजावेशरुचिरललितस्मिता
स्तदनुरागमदमुदितमदविघुर्णितारुणकरुनाअलोक
नयनवदनारविन्द्रं सव्रीडं किलं विलोकयन्ति ॥५॥
स एव भगवाननन्तोऽनन्तगुनार्णव आदिदेव उपसंहृतामर्षरोषवेगो
लोकांना स्वस्तय अस्ते ॥६॥
ध्यायमानः सुरासुरोगगसिद्धगन्धार्वविद्याधर मुनिगणैरनवतरतमदमुदितविकृतविह्लललोचन
सुललितमुखरिकामुर्तेनाप्यायमानः स्वपार्षद्विवुध युथपतीनपरिम्लानरागनवतुलसिकामोदमध्वासवेन
माद्यन्मधुकरव्रतमधुरगीतश्रियं वैजयन्तीं स्वं वनमालां नीलवासा एककुण्डलो हलककुदि
कृतसुभगसुन्दरभुजो भ्गवान्माहेन्द्रो वारणेन्द्र इव कात्र्चनी कक्षामुदारलीलो बिभर्ति ॥७॥
य एष एवमनुश्रुतो ध्यायमानो मुमुक्षुणामनादि कालकर्मवासनाग्रथितमविद्यामयं हृदयग्रन्थिं
सत्त्वंरजस्तमोमयमन्तर्हृदयं गत आशु निर्भिनत्ति तस्यानुभावान भगवान स्वायम्भुवो नारदः
सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयामास ॥८॥
उप्तत्तिस्थितिलयहेवतोऽस्य कल्पाः
स्त्त्वाद्याः प्रकृतिगुना यदीक्षयाऽऽसन ।
यद्रुपं ध्रुवमकृतं यदेकमात्मन
नानाधात्कथमु ह वेद तस्य वर्त्म ॥९॥
मूर्तिः नः पुरुकृपया बभार सत्वं संशुद्ध सदसदिदं विभति यत्र ।
यल्लीलां मृगपतिराददेऽनवद्या मादातुं स्वजनमानांस्युदारवीर्यः ॥१०॥
यन्नम श्रुतमनुकीर्तयेदकास्मा दर्तो वा यदि पतितः प्रलम्भनाद्वा ।
हन्त्यंहः सपदि नृणामशेषमन्यं कं शेषाद्भगवत आश्रयेन्मुमुक्षुः ॥११॥
मुर्धन्यर्पितमणुवत्सहस्रमुर्धो भुगोलं सगिरिसरित्समुद्रसत्त्वम ।
आनन्त्यादनिमितविक्रमस्य भुम्रः को वीर्याण्यधिगणयेत्सहस्रजिह्रः ॥१२॥
एवम्प्रभावो भगवाननन्तो दुरन्तवीर्योरुगुणानुभावः ।
मुले रसायाः स्थित आत्मतन्त्रो यो लीलया क्ष्मां स्थितये बिभर्ति ॥१३॥
एता ह्योवेह नृभिरुपगन्तव्या गतयो यथाकर्मविनिर्मिता
यथोपदेशमनुवर्णिताः कामान कामयमानैः ॥१४॥
एतावतीर्हि राजन पुंसः प्रवृत्तिलक्षणस्य धर्मस्य विपाकगतय
उच्चावचा विसदृशा यथाप्रश्नं व्याचख्ये किमन्यत्कथयाम इति ॥१५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां सहिंतायां पंचमस्कन्धे भुविवरविध्यपुवर्णनं नाम पंचविंशोऽध्ययः ॥२५॥