ब्राह्मण उवाच
अकोविदः कोविदवादवादान
वदस्यथो नातिविदां वरिष्ठः ।
न सुरयो हि व्यवहारमेनं तत्त्वावमर्शेन सहामनन्ति ॥१॥
तथैव राजन्नुरुगार्हमेध वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः ॥२॥
न तस्य तत्त्वग्रहणाय साक्षाद वरीयसीरपि वाचः समासन ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात ॥३॥
यावन्मनो राजसा पुरुषस्य सत्वेन वा तमसा वानुरुद्धम ।
चेतोभिराकूतिभिरातनोति निरंगकुशं कुशलं चेतरं वा ॥४॥
स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथड नामभि रुपभेदमन्तर्बहिष्ट्वं च पुरैस्तनोति ॥५॥
दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलमाव्यनक्ति ।
आलिंगं मायारचितान्तरात्मा स्वदेहिन संसृतिचक्रकुटः ॥६॥
तावानयं व्यवहारः सदाविः क्षेत्रसाक्ष्यो भवति स्थुलसुक्ष्मः ।
तस्मान्मनो लिंगमदो वदन्ति गुणागुणत्वस्य परावरस्य ॥७॥
गुणानुरक्तं व्यसनय जन्तोः क्षेमाय नैर्गुण्यमथो मनः स्यात ।
यथा प्रदीपो घृतवर्तिमश्रन शिखाः सधुमा भजति ह्यान्तदा स्वम ।
पदं तथा गुणकर्मानुबद्धं वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम ॥८॥
एकादशासन्मनसो हि वृत्तय आकूतयः पंच धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ॥९॥
गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति शय्यामहं द्वादशमेक आहुः ॥१०॥
द्रव्यस्वभावाशयकर्मकालै रेकादशामी मनसो विकाराः ।
सहस्त्रशः शतश कोटिशश्च क्षेत्रज्ञतो न मिथो न स्वतु स्युः ॥११॥
क्षेत्रज्ञ एता मनसो विभुती र्जीवस्य मायरचितस्य नित्याः ।
आर्विर्हिताः क्वापि तिरोहिताश्च शुद्धो विचेष्टे ह्यविशिद्धुकर्तुः ॥१२॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात्स्वयंज्योतिरजः परेशः ।
नारायणो भगवान वासुदेव स्वमाययाऽऽत्मन्यवधीयमानः ॥१३॥
यथानिलः स्थावरजंगमानामात्मस्वरुपेण निविष्ट ईशेत ।
एवं परो भगवान वसुदेव क्षेत्रज्ञ आत्मेदननुप्रविष्टः ॥१४॥
न यावदेतां तनुभृन्नरेन्द्र विधुय मायां वयुनोदयेन ।
विमुक्तसंगो जितषेटसपन्तो वेदात्मतत्त्वं भ्रमतीह तावत ॥१५॥
न यावदेतन्मन आत्मलिंग संसारपावपनं जनस्य ।
यच्छोकमोहामयरागलोभ वैरानुबन्धं ममतां विधत्ते ॥१६॥
भ्रतृव्यमेनं तददभ्रवीर्य मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो जहि व्यलींक स्वयमात्ममोषम ॥१७॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां पंचमस्कन्धे ब्राह्मणरहुगणसंवादे एकादशोऽध्यायः ॥११॥