संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ चतुर्विंशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

अधतात्सवितुर्योजनायुते स्वर्भानुर्नक्षत्रवच्चरतीत्येक योऽसावमरत्वं

ग्रहत्वं चालभत भगवदनुकम्पया स्वयमसुरापसदः सैंहिकेयो ह्यातदर्हस्तस्य

तात जन्मकर्माणि चोपरिष्टाद्वक्षयाम्यः ॥१॥

यददस्तरणेर्मण्डलं प्रतपतस्तद्विस्तरतो

योजनायुतमाचक्षते द्वादशसहस्त्रं सोमस्य

त्रयोदशसहस्त्रं राहोर्यः पर्वणि तदव्यवधान

कृद्वैरानुबन्धः सुर्याचन्द्रमसावभिधावति ॥२॥

तन्निशम्योभयत्रापि भगवतारक्षणाय प्रयुक्तं

सुदर्शनं नाम भागवतं दयितमस्त्रं तत्तेजसा दुर्विषहं

मुहुः परिवर्तमानमभ्यवस्थिती मुहुर्तमुद्विजमान

श्चकितह्रुदय आरादेव निवर्तते तदुपरागमिति

वदन्ति लोकाः ॥३॥

ततोऽधस्तात्सिद्धचारणविद्याधारणां सदनानि

तावन्मात्र एव ॥४॥

ततोऽधस्ताद्यक्षरक्षः पिशाचप्रेतभूतगणानां

विहाराजिरमन्तरिक्षं यावद्वायुः प्रावाति

यावन्मेद्या उपलभ्यन्ते ॥५॥

ततोऽधस्ताच्छातयोजनान्तर इयं पृथिवी

यावद्भसंभासश्येनसुपर्णदयः पतत्त्रिप्रवरा

उप्ततन्तीति ॥६॥

उपवर्णितं भुमेर्यथासंनिवेशावस्थानमवने

रप्यधस्तात सप्त भुविवरा एकैकशो योजनायुता

न्तरेणायामविस्तारेणोपक्लृप्ता अतलं वितलं सुतलं

तलातलं महातलं रसातलं पातालमिति ॥७॥

एतेषु हि बिलस्वर्गेषु स्वर्गादप्यभिककाम

भोर्गेश्वर्यानन्दभुतिविभुतिभिः सुसमृद्धभवनोद्याना

क्रीडाविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदिता

नुरक्ताकलत्रापत्यबन्धुसुहृदनुचरा गृहपतय ईश्वरा

दप्यप्रतिहतकामा मायाविनोदा निवसन्ति ॥८॥

येषु महाराज मयेन मायाविना विनिर्मिताः पुरो

नानामणिप्रवरप्रवेकविचरचितविचित्रभ्वनप्रकार

गोपुरसभाचै त्यचत्वरायतनादिभिर्नागासुर

मिथुनपरावतशुकसारिककीर्णकृत्रिमभुमिभि

र्विवरेश्वरगृहोत्तमैः समलंडकृताश्चकासति ॥९॥

उद्यानानि चारितरां मन इन्द्रियानन्दिभिः

कुसुमफलस्तबकसुभगकिसलयावनतरुचिर

विपविटपिनां लतांगलिगिंतानां श्री़भिः समिथुन

विविधविहमंगजलाशयाना ममलजलपुर्णानां

झषकुलोललंघन्क्षुनिभितनईरनीरजकुमुदकुवलय

कह्लारनीलोप्तललोहितशतपत्रादिवनेषु कृतनिकेत

नानामेकविहाराकुलमधुरविविधस्वनादिभि

रिन्द्रियोत्सवैरमरलोकश्रियमतिशयितानि ॥१०॥

यत्र ह वाव न भयमहोरात्रदिभिः कालविभोगैरुपलक्ष्यते ॥११॥

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते ॥१२॥

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्न

पानस्नानादिभिराधयो व्याधयो वलीपलितजरादयश्च

देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिरिति वयोऽवस्थाश्चभवन्ति ॥१३॥

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युविना भगवत्तेजसा श्चक्रापदेशात ॥१४॥

यस्मिन प्रविष्टेऽसुरवधुनां प्रायः पुंसवनानि

भयादेव स्रवन्ति पतन्ति च ॥१५॥

अथातले मयपुत्रोऽसुरो बलो निवसति येन

हवाइह सृष्टाः षण्णावतिर्मायाः काश्चनाद्यापि

मायाविनो धरयन्ति यस्य च जृभ्ममाणस्य

मायाविनो धारयन्ति यस्य च जृम्भमाणस्य

मुखतस्त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः

कामिन्यः पुंश्चल्य इति या वै बिलायनं

प्रविष्टं पुरुषं रसेन हाटकाख्येन सधायित्य्वा

स्वविलासावलोकना नुरागस्मितसंलापोपगुहनादिभि

स्वैरं किल रमयन्ति यस्मिन्नुपयुक्ते पुरुष

इश्वरोऽहं सिद्धोऽह मित्यय तमहागजबलमात्मनमभिमन्यमानः

कत्थते मदान्ध इव ॥१६॥

ततोऽधस्ताद्वितले हरो भगवान हाटकेश्वरः

स्वपार्षदभुतगणावृतः प्रजापतिसर्गापबृंहणाय

भवो भवान्या सग मिथुनीभुत आस्ते यतः

प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर्वीर्येण

यत्र चित्रभानुर्मातारिश्वना समिध्यमान ओजसा

पिबति तन्निष्ठयुतं हाटकाख्यं सुवर्ण भुषणेनासुरेन्द्रावराधेषु

पुरुषाः सह पुरुषीभिर्धारयन्ति ॥१७॥

ततोऽधस्तात्सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो

बलिर्भगवता महेन्द्रस्य प्रियं चिकिर्षमाणेनादितेर्लब्धकायो

भूत्वा बटुवामन रूपेण पराक्षित्पलोकत्रयो भगवदनुकम्पयैव

पुनः प्रवेशित इन्द्रादिष्वविद्यमानया सुसमृद्धया श्रियाभिजुष्टः

स्वधर्मेणाराधयंस्तमेव भगवन्तम आराधनीयमपगतसाध्वस

आस्तेऽधुनापि ॥१८॥

नो एवैतत्साक्षात्कारो भुमिदानस्य यत्तद्भगत्यशेषजीवनिकायानां

जीवभुतात्मभुते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपत्रे परया

श्रद्धया पर्मादरसमाहिमनसा सम्प्रतिपादितस्य साक्षादपवर्गद्वारस्य

यद्विलनिलयैश्वर्यम ॥१९॥

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः

सकृन्नामाभिनृणन पुरुषः कर्मबन्धनमत्र्जसा

विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवोऽन्यथैवोपलभन्ते ॥२०॥

तद्भक्तानानात्मावतां सर्वेषामात्मन्यात्मद आत्मतयैव ॥२१॥

न वै भगवान्नुनममुष्यानुजग्राह यदुत

पुनरात्मानुस्मृतिषोषणं मायामयभोगैश्वर्य

मेवातनुतेति ॥२२॥

यत्तद्भगवतानधिगतान्योपायेन यात्र्जाच्छलेना

पहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश्च

सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥२३॥

नुनं बतायं भगवानर्थेषु न निष्णातो

योऽसाविन्द्रो यस्य सचिवो मन्त्राय वृत

एकान्ततो बृहस्पतिस्तमतिहाय स्वयमुपेन्द्रेणात्मानमयाचत्ता

त्मनश्चाशिषो नो एव तद्दास्यमतिगम्भीरवयसः

कालस्य मन्वन्तरपरिवृत्तं कियल्लोकत्रयमिदम ॥२४॥

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न

तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः

परमिति भगवतोपरते खलु स्वपितरि ॥२५॥

तस्य महानुभावस्यानुपथममृजितकषायः

को वास्मद्विधः परिहिणभगवदनुग्रह उप

जिगमिषतीति ॥२६॥

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य

भगवान स्वयमखिलजगद्गुरुर्नारायणो द्वारि

गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो

येनांगुष्ठेन पदा दशकन्धरो योजनायुतायुतं

दिग्विजय उच्चाटितः ॥२७॥

ततोऽधस्तात्तलातले मयो नमा दानवेन्द्र

स्त्रिपुराधिपतिर्भगव्ता पुरारिणा त्रिलोकिशं

चिकीर्षुणा निर्देग्धस्वपुरत्रयस्तत्प्रसादाल्लब्धपदो

मायाविनामाचार्यो महादेवेन परिरक्षितो विगत

सुदर्शनभयो महियते ॥२८॥

ततोऽधस्तान्महातले काद्रवेयानां सर्पाणां नैकशिरसां

क्रोधवशो नाम गणः कुहकतक्षक कालिअसुषेणादिप्रधाना

महाभोगवन्तः पतात्त्रिराजाधिपतेः पुरुषवाहादनवरतमुद्विजमानाः

स्वकलत्रापत्यसुहृत्कुटुम्बसंगेन क्वचित्प्रमता विहन्ति ॥२९॥

ततोऽधस्ताद्रसातले दैतेया दानवाः पणयो नाम निवातकवचाः

कालेया हिरण्य्पुरवासिन इति विबुधप्रत्यनीका उप्तत्त्या महौजसो

महासाहसिनो भगवनः सकललोकानुभावस्य हरेरेव तेजसा

प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूया

वाग्भिर्मन्तवर्णाभिरिन्दाद बिभ्यति ॥३०॥

ततोऽधस्तात्पातले नागलोकपतयो वासुकि प्रमुखाः

शंखकु लिकमहाशंखश्वेतधनत्र्जय

धृतराष्ट्रशंखचुडकम्बलाश्वतरदेवदत्तादयो

महाभोगिनी महामर्शा निवसन्ति येषामु ह वै

पंचमप्त दशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो

रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे राह्वादिस्थितीबिलस्वर्गमर्यादानिरुपं नाम चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP