श्रीशुक उवाच
अथ तस्मात्परतस्त्रयोदशलक्षयोजनान्तरतो
यत्तद्विष्णोः परमं पदमभिवदन्ति यत्र ह महाभागवतो
ध्रुव औत्तानपादिरग्निनेन्देन प्रजापतिना कश्यपेन
धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः
क्रियमाण इदानीमपि कल्पजीविनामाजीव्य
उपास्ते तस्येहानुभाव उपवर्णितः ॥१॥
स हि सर्वेषां ज्योतिर्गणांना ग्रहनक्षत्रादीना
मनिमिषेणाव्यक्तरंहसा भगवता कालेन
भ्राम्यमाणांना स्थाणुरिवावष्टम्भ विहितः
शश्वदवभासते ॥२॥
यथा मेढीस्तम्भ आक्रमणपशवः संयोजिता
स्त्रिभिस्त्रिभिः सवनैर्यथास्थानं मण्डलानि
चरन्त्येवं भगणा ग्रहाण्य एतास्मिन्नन्तर्बहिर्योगेन
कालचक्र आयोजिता ध्रुवमेवावलम्ब वाय्हुनोदीर्यमाणा
आकल्पान्तं परिचंक्रमन्ति नभासि यथा मेघाः
श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते
एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुहृहिताः
कर्मनिर्मितगतयो भुवि न पतन्ति ॥३॥
केचनैतज्ज्युओतिरनीक शिशुमारसंस्थानेन भगवतो
वासुदेवस्य योगधारणायामनुवर्णयन्ति ॥४॥
यस्य पुच्छाग्रेऽवाकशिरसः कुण्डलीभुतदेहस्य
ध्रुव उपकल्पितस्तस्य लांगुले प्र्जापतिरग्निरिन्दो
धर्म इति पुच्छमुले धाता विधाता च कट्यां
सप्तर्षयः । तस्य दक्षिणपाश्चै तु नक्षत्राण्यपकल्पयन्ति
दक्षिनायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य
पार्श्वयोग्रुभयोरप्यवयावाःसमसंख्या भवन्ति ।
पृष्ठे त्वजवीथी आकाशगंगा चोदरतः ॥५॥
पुनर्वसुपुष्यौ दैक्षिणवामयोः श्रोण्योरार्द्राश्लेषे च
दक्षिणवामयो पंश्चिमयोः पादयोरभिजि दत्तराषाढे
दक्षिणवामयोर्लोचनयोर्धनिष्ठा मुलं च
दक्षिणवामयोः कर्णयोर्मघादिन्यष्ट नक्षत्राणि
दक्षिणायनानि वामपाश्चवड क्रिषु युत्र्जीत तथैव
मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववडक्रिषु
प्रातिलोम्येन प्रयुत्र्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत ॥६॥
उत्तराहनावगस्तिरधराहनौ यमौ मुखेषु
चांगारकः शनैश्वर उपस्थे बृहस्पतिः ककुदि
वक्षस्यादित्यो हृदये नारायणो मनसि चन्द्रो
नाब्यामुशना स्तनयोरश्चिनी बुधः प्राणापानयो
राहुर्गले केतवः सर्वांगेषु रोमसु सर्वे तारागणाः ॥७॥
एतदु हैव भगवतो विष्णोः सर्वदेवतामयं
रुपमहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण
उपतिष्ठेत नमो ज्योतिर्लोकय कालयनाया
निमिषां पतये महापुरुषायाभिधीमहीति ॥८॥
ग्रहर्क्षतारामयमधिदैविकं पापापहं मन्त्रकृतां त्रिकालम ।
नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजमाशु पापम ॥९॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहिताया पंचमस्कन्धे शिशुमारसंस्थावर्णन नाम त्रयोविंशोऽध्यायः ॥२३॥