संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ षोडशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

उक्तस्त्वया भुमण्डलायमविशेषो यावदा

दित्यस्तपति यत्र चासौ ज्योतिषां

गणैश्चन्द्रमा वा सह दृश्यते ॥१॥

तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः

सत्प सिन्धव उपक्लृइप्ता यत एतस्याः

सप्तद्वीपविशेषविकल्पस्त्वया भगवान

खलु सुचित एतदेवाखिलमहं मानतो

लक्षणतश्च सर्वं विजिज्ञासामि ॥२॥

भगवतो गुणमये स्थुलरुप आवेशितं

मनो ह्यागुणोऽपि सुक्ष्मतम आत्मज्योतिषि

परे ब्रह्माणि भगवति वासुदेवाख्ये क्षमामावेशितुं

तदु हैतद गुरोऽर्हस्यनुवर्णयितुमिति ॥३॥

ऋषिरुवाच

न वै महाराज भगवतो मायागुणविभुतेः काष्ठां

मनसा वचना वाधिगन्तुमलं विबुधायुषापि

पुरुषस्तस्मात्प्राधान्येनैव भुगोलकविशेषं

नामरुपमानलक्षणतो व्याख्यास्यामः ॥४॥

यो वायं द्वीपः कुवलयमकमलकोशाभ्यन्तरकोशो

नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम ॥५॥

यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभि -

र्मर्यदागिरिभिः सुविभक्तनि भवन्ति ॥६॥

एषां मध्ये इलावृतं नामाभ्यन्तरर्ष यस्य

नाभ्यामवस्थितः सर्वतः सौवर्णः कुलगिरिराजो

मेरुर्द्विपायामसमुन्नाहः कर्णिकाभुतः कुवलय

कमलस्य मुर्धनि द्वत्रिशतसहस्रयोजनविततो मुले

षोडशसहस्त्रं तावतान्तर्भुम्यां पविष्टः ॥७॥

उत्तरोअत्तरेणेलावृतं नीलः श्वेतः श्रृंगवानिति त्रयो

रम्यकहिरण्यमयकुरुणां वर्षानां मर्यादगिरयः

प्रागायता उभयतः क्षारोदावधयो द्विसहस्रपृथव

एकैकशः पुर्वस्मात्पुर्वास्मादुत्तर उत्तरो दशांशा

धिकांशेन दैर्घ्य एव ह्रसन्ति ॥८॥

एवं दक्षिणेनेलावृतं निषधो हेमकुटो हिमालय

इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधा

हरिवर्षकिम्पुरुषभारतानां यथासंख्यम ॥९॥

तथैवेलावृतमपरेण पुर्वेण च माल्यवद गन्ध

मादनावानीलनिषधायतौ द्विसहस्त्रं पप्रथतुः

केतुमलभद्रश्वयोः सीमानं विदधाते ॥१०॥

मन्दरो मेरुमन्दरः सुपार्श्चः कुमुद इत्ययुत

योजनविस्तारोन्नाहा मेरोश्चतुर्दिशम अवष्टम्भगिरय

उपक्लृत्पाः ॥११॥

चतुर्ष्वेतेषु चुतजम्बुकदम्बन्यग्रोधाश्चत्वारः

पादपप्रवरः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहा -

स्तावद विटपविततयः शतयोजनपरिणाहाः ॥१२॥

ह्रादाश्चत्वारः पयोमध्विक्षुरसमृष्टजला

यदुपस्पर्शिन उपदेवगणा योगैश्वर्याणि

स्वाभाविकानि भरतर्षभ धारयन्ति ॥१३॥

देवोद्यानानि च भवन्ति चत्वारि नन्दनं

चैत्ररथं वैभ्राजकं सर्वतोभद्रामिति ॥१४॥

येष्वमरपरिवृढाः सह सुरललनाललाम

युथपतय उपदेवगणैरुपगीयमानमहिमानः

किल विहरन्ति ॥१५॥

मन्दरोत्संग एकादशशतयोगजोत्तुगंदेवचुत

शिरसो गिरिशिखरशुलानि फलान्यमृतकल्पानि

पतन्ति ॥१६॥

तेषां विशीर्यामणानमातिमधुरसुरभिसुगन्धि

बहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरि

शिखरान्निपतन्ती पुर्वेनेलावृतमुपल्पावयति ॥१७॥

यदुपजोषणाद्भावान्या अनुचरीणां पुण्यजनवधुनामवयवस्पर्शसुगन्धावातो

दशयोजनं समन्तादनुवासयति ॥१८॥

एवं जम्बुफलानात्मत्युच्चनिपातविशीर्णानाम

अनस्थिप्रायाणामिभकायनिभानं रसेन जम्बु नाम

नदी मेरुमन्दरशिख्रादयुतयोजनादवनितले

निपतन्ती दक्षिणेनात्मनं यावदिलावृत

मुपस्यन्दयति ॥१९॥

तवदुभयोरपि रोधसोर्या मृत्तिका तद्रसेनानु विध्यमना वाय्वर्कसंयोगविपाकेन

सदामरलोका भरणं जाम्बुनदं नाम सुवर्ण भवति ॥२०॥

यदु ह वाव विबुधादयः सह युवतिभिर्मुकुटकटककटिसुत्राद्यभरणरुपेण

खलु धारयन्ति ॥२१॥

यस्तु महाकदम्बः सुपार्श्वनिरुढो यास्तस्य कोटरेभ्यो विनिःसृताः

पंचायामपरिणाहाः पंच मधुधाराः सुपार्श्वशिकह्रत्पतन्त्योऽपरेणात्मान

मिलावृतमनुमोदयन्ति ॥२२॥

या ह्रुपयुत्र्जांनानां मुखनिर्वसितो वायुः समन्ताच्छतयोजनमनुवासयति ॥२३॥

एवं कुमुक्दनिरुढो यः शतवल्शो नाम वटस्तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्यम्बर

शय्यासनाभरणादयः सर्व एव कामदुघा नदाः

कुमुदाग्रापतन्तस्तमुत्तरेणेलावृतमुपयोजयन्ति ॥२४॥

यानुपजुषाणांना न कदाचिदपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्ण

वैवर्ण्योपसर्वाअयस्तापशिषा भवन्ति यावज्जीवं सुखं निरतिशयमेव ॥२५॥

कुरगंकुररकुसुम्भवैकंकत्रिकुटशिशिरपंतंग

रुचकनिषधशिनीवासकपिलशंखंवैदुर्यजरुधि

हंसर्ष भनाकालत्र्जरनारदादयो विंशतिगिरयो

मेरोः कर्णिकाया इव केसरभुता मूलदेशो परित

उपकृत्पः ॥२६॥

जठरदेवकुटौ मेरु पुर्वेणाष्टादशयोजनसहस्त्रमुदगायतौ

द्विसहस्रं पृथुतुगैः भवतः एवमपरेण पवनपारियत्री

दक्षीणेन कैलासकरवीरौ प्रागायतावेवमुत्तरतस्त्रि

श्रृगंमकरावष्टभिरेतैः परिस्तृतोऽग्निरिव परितश्चकास्ति

कात्र्चनगिरीः ॥२७॥

मेरोर्मूर्धनि भगवत आत्मयोनेर्मध्यत

उपक्लृप्तां पुरीमयुतयोजनासहस्त्री समचतुरस्रां

शातकौम्भीं वदन्ति ॥२८॥

तामनु परितो लोकापालानामष्टांना यथादिशं

यथारुपं तुरीयमानेन पुरोऽष्टावुपक्लृप्ताः ॥२९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कन्धे भुवनकोशवर्णनं नाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP