संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ सप्तदशोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

तत्र भगवतः साक्षाद्यज्ञलिंगस्य विष्णो

र्विक्रमतो वामपादांगुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाह

विवरेणान्तः प्रविष्टा या बाह्मजलधारा तच्चरण

पंकजावनेजनारुणकित्र्जल्कोपरत्र्जिताखिल

जगदघमलापहोपस्पर्शनामला साक्षाद्भगात्पदी

त्यनुपलक्षितवचोऽभिधीयमानातिमहता कालेन

युगसहस्त्रोपलक्षणेन दिवो मुर्धन्यवततार यत्तद्विष्णु

पदमाहुः ॥१॥

यत्र ह वाव वीरव्रत औत्तानपादिः परम

भागवतोऽस्मत्कुलदेवताचरणारविन्दोदकमिति

यमनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं

क्लिद्यमानान्तर्हृदय औक्तन्ठ्यविवशामीलित

लोचनयुगलकुडमलविगलितामलबाष्पकलया

भिव्यज्यमानरोमपुलककुलकोऽधुनाप परमादरेण

शिरसा बिभर्ति ॥२॥

ततः सप्त ऋषयस्तत्प्रभावाभिज्ञा यां ननु तपस्य

आत्यन्तिकी सिद्धिरेतावती भगवति सर्वात्मनि

वासुदेवोऽनुपरतभक्तियोअलाभैनैवोपेक्षितान्यार्थात्म

गतयो मुक्तिमिवगतां मुमुक्षव इस सबहुमानमद्यापि

जताजुटैरुद्वहन्ति ॥३॥

ततोऽनेकसहस्त्रकोटिविमानानीकसंकुल

देवयाने नावतरन्तीन्दुमण्डलमावार्य ब्रह्मासदने

निपपति ॥४॥

तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतु

र्दिशमाभिस्पन्दन्तीं नदनदीपतिमेवाभिनिविशाति

सितालकनन्दा चक्षुर्भद्रेति ॥५॥

सीता तु ब्रह्मासदनात्के सराचलादिगिरि

शिखरेभ्योऽधोऽधः प्रस्रवन्ती गन्धमादनमुर्धसु

पतित्वान्तरेण भद्राश्ववर्ष प्राच्यां दिशि

क्षारसमुद्रमभिप्रविशाति ॥६॥

एवं माल्यवच्छिखरान्निष्यतन्त ततोऽनुपरत

वेगा केतुमालमभि चक्षुः प्रतीच्या दिशी सरिप्तत्तिं

प्रविशति ॥७॥

भद्रा चोत्तरतो मेरुशिरसो निपतिता

गिरिशिखराद्गिरिशिखरमतिहाय श्रृंगवतः

श्रृगंदवस्यन्दमाना उत्तरांस्तु कुरुनभित उदीच्या

दिशि जलाधिमभिप्रविशति ॥८॥

तथैवालकनन्दा दक्षिणेन ब्रह्मासदनाद्वहुनि

गिरिकुटान्यतिक्रम्य हेमकुटार्द्धैमकुटान्य

तिरभसतररंहसा लुठयन्ती भारतमभिवर्ष

दक्षिणस्यां दिशि जलाधिमाभिप्रविशति यस्या

स्नानार्थं चागच्छतः पुंसः पदेऽश्वमेधराज

सुर्यादीनां फलं न दुर्लभमिति ॥९॥

अन्ये च नदा नद्यश्च वर्षे वर्षे सन्ति बहुशो

मेर्वादिगिरीदुहितरः शतशः ॥१०॥

तत्रापि भारतमेव वर्षे कर्मक्षेत्रमन्यान्यष्ट

वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि

भौमानि स्वर्गपदानि व्यपदिशन्ति ॥११॥

एषु पुरुषाणामयुतपुरुषायुर्वर्षांणां देवकल्पानां

नागायुतप्राणांना वज्रसंहननबलवयोमोद

प्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षेधृतैक

गर्भकालत्राणां तत्र त्रेतायुगसमः कालोवर्तते ॥१२॥

यत्र ह देवपतयः स्वैः स्वैर्गणनायकैर्विहित

माहर्हणः सर्वर्तुकुसुमस्तबकलफलकिसलय

श्रियाऽ७नम्यमानाविटपलताविटपिभिरुपशुम्भमान

रुचिरकानाना श्रमायतनवर्ष गिरिद्रोणीषु तथा

चामलजलाशयेषु विकचविविधनववनरुहामोद

मुदितराजहंसजलकुकुटकारण्डवसारसचक्र

वाकादिभिर्मधुकरनिकराकृतिभिरुपकू जितेषु

जलक्रीडादिभिर्विचित्राविनोदैः सुललीतसुर

सुन्दरीणां कामकलिलविलासहासलीला

वलोकाकृष्टमनोदृष्ट स्वैरं विहरन्ति ॥१३॥

नवस्वापि वर्षेषु बह्गवान्नारायणो महापुरुषः

पुरुषाणां तदनुग्रहायात्मतत्त्वव्युहेनात्मनाद्यापि

संनिधीयते ॥१४॥

इलावृते तु भगवान भव एक एव पुमान्न

ह्यान्यस्तत्रापरो निर्विशति भवान्याः शापनिमित्ताज्ञो

यत्प्रवेक्ष्यतः स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥१५॥

भवानीनाथै स्त्रीगणार्बुदसहस्त्रैरवरुध्यमानो

भगवतश्चतुर्मुर्तेर्महपुरुषस्य तुरीयां तामसीं मुर्ति

प्रकृतिमात्मनः संकर्षणसंज्ञामात्मसमाधिरुपेण

संनिधाप्यैतदभिगृणन भव उपधावति ॥१६॥

श्रीभगवानुवाच

ॐ नमो भगवते महापुरुषाय सर्वगुणसंगख्यानायानन्तायाव्यक्ताय नम इति ॥१७॥

भजे भजन्यारणपादपकंज भगस्य कृत्स्नस्यं परं परायणम ।

भक्तेष्वलं भावितभुतभावनं भवापहं त्वां भवभावमीश्वरम ॥१८॥

न यस्य मायागुणचित्तवृत्तिभिर्निरीक्षतो ह्याण्वपि दृष्टीरज्यते ।

ईशे यशा नोऽर्जितमन्युरंहसां कस्यं न मन्येत जिगीषुरात्मनः ॥१९॥

असददृशो यः प्रतिभाति मायया क्षीबेव मध्वासवताम्रलोचनः ।

न नागवध्वोऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधार्षितेन्द्रियाः ॥२०॥

यमाहुरस्य स्थितिजन्मसंयमं त्रिभिर्विहीन यमनन्तमृषयः ।

न वेद सिद्धार्थविव क्वचित्स्थितं भुमण्डलं मुर्धसहस्रधामसु ॥२१॥

यस्याद्य असीद गुणविग्रहो महान विज्ञानधिष्णो भगवानजः किलः ।

यत्सम्भवोऽहं त्रिवृता स्वतेजसा वैकारिकं तामसमैन्द्रियं सृजे ॥२२॥

एते वयं यस्य वशे महात्मनः स्थितं शकुता इव सुत्रयन्त्रिताः ।

महानहं वैकृततामसेन्द्रियाः सृजाम सर्वे यदनुग्रहादिदम ॥२३॥

यन्निर्मितां कर्ह्यापि कर्मपर्वणीं मायां जनोऽयं गुणसर्गमोहितः ।

न वेद निस्तारणयोगमत्र्जसा तस्मै नमस्ते विलयोदयात्मने ॥२४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP