संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ प्रथमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

प्रियव्रतो भागवत आत्मारामः कथं मुने ।

गृहेऽरमत यन्मुलः कर्मबन्धः पराभवः ॥१॥

न नुनं मुक्तसंगांना तादृशानां द्विजर्षभ ।

गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥२॥

महतां खलुः विप्रर्षे उत्तमश्लोकपादयोः ।

छायानिर्वृतचित्तानां न कुटुम्बे स्पृहामतिः ॥३॥

संशयोऽयं महान ब्रह्मान्दारागारसुतादिषु ।

सक्तस्य यत्सिद्धिरभुत्कृष्णे च मतिरच्युता ॥४॥

श्रीशुक उवाच

बाढमुक्तं भगवत उत्तमश्लोकस्य

श्रीमच्चरणारविन्दमकरन्दरस आवेशितचेतसो

भागवतपरमहंसदयितकथां किचिंदन्तरायविहतां

स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥५॥

यर्हि वाव ह राजन स राजपुत्रः प्रियव्रतः

परमभागवतो नारदस्य चरणोपसेवयात्र्जसावगत -

परमार्थसतत्त्वो ब्रह्मासत्रेण दीक्षिष्यमाणोऽवनि -

तलपरिपालनायाम्नातप्रवरगुनगणैकान्त -

भाजनतया स्वपित्रोपामन्त्रितो भगवति वासुदेव

एवाव्यवधानसमाधियोगेन समावेशितसकल -

कारकक्रियाकलपो नैवाभ्यनन्दद्यद्यपितदप्रत्या -

म्रातव्यं तदधिकारण आत्मनोऽन्यस्मादसतोऽपि

पराभवमन्वीक्षमाणः ॥६॥

अथ ह भगवानदिदेव एतस्य गुणविसर्गस्य

परिबृहणनुध्यानव्यवस्तिअसकलजगदभिप्राय

आत्मयोनिरखिलनिगमषिजगणपरिवेष्टितः

स्वभवनादवततार ॥७॥

त तत्र तत्र गगनतल उडुपतिरिव विमाना

विलिभिरनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि

च वरुथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुप -

गीयमाणो गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥८॥

तत्र हवा एनं देवर्षिर्हसयानेन पितरं भगवंन्त

हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह

पितापुत्राभ्यामवहितात्र्जलिरुपतस्थे ॥९॥

भगवानपि भारत तदुपनीतार्हणः सुक्तवाके

नातितरामुदितगुणगणावतारसुजयः प्रियव्रत -

मादिपुरुषस्तं सदयहासावलोक इति होवाच ॥१०॥

श्रीभगवानुवाच

निबोध तातेदमॄतं ब्रवीमि मासुयितं देवमर्हस्यप्रमेयम ।

वयं भवस्ते तत एष महर्षि -र्वहाम सर्वे विवशा यस्य दिष्टम ॥११॥

न तस्य कश्चित्तपमा विद्यया वा न योगवीर्येण मनीषया वा ।

नैवार्थधर्मैः परतः स्वतो वा कृतं विहन्तृं तनुभृद्विभुयात ॥१२॥

भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय

सुखाय दुःखाय च देहयोग मव्यक्तदिष्टं जनतांगः धत्ते ॥१३॥

यद्धाचि तन्त्यां गुणकर्मदामभिः सुदुस्तरैर्वत्स वयं सुयोजिताः ।

सर्वें वहामो बलिमीश्वराय प्रोता नसीव द्विपदे चतुष्पदः ॥१४॥

ईशाभिसृष्टं ह्यावरुन्ध्महेऽगं दुःख सुखं वा गुणकर्मसंगात ।

आस्थय त्तत्तद्यदंगुक्त नाथश्चक्षुषतान्धा इव नीयमानाः ॥१५॥

मुक्तोऽपि तावद्विभृयात्स्वदेह मारब्धमन्नभिमानशुन्यः ।

यथानुभुतं प्रतियातनिद्रः किं त्वन्यदेहाय गुणान वृक्ते ॥१६॥

भयं प्रमतस्य वनेष्वपि स्याद यतः स आस्ते सहषटसपत्‍नः ।

जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम ॥१७॥

यः षट सपत्‍नान विजिगीषमाणो गृहेषु निर्विश्य यतेत पुर्वम ।

अत्येति दुर्गाश्रित ऊर्जितारीन क्षीणेषु कामं विचरेद्विपश्चित ॥१८॥

त्वं त्वब्जनाभांडघ्रिसरोजकोश दुर्गाश्रितो निर्जितषटसपत्‍न ।

भुंक्ष्वेहं भोगान पुरुषातिदिष्टान विमुक्तसंगः प्रकृतिं भजस्वः ॥१९॥

श्रीशुक उवाच

इति समाभिहितो महाभागवतो भगवतस्त्रि भुवनगुरोरनुशासनमात्मनो

लघुतयानवतशोरोधरो बाढमिति सबहुमानमुवाह ॥२०॥

भगवानपि मनुना यथावदुपकल्पितापचितिः

प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्म

समवस्थानमवाडमनसं क्षयमव्यवहृतं

प्रवर्तयन्नममत ॥२१॥

मनुरपि परेणैवं प्रतिसन्धितमनोरथः

सुरर्षिवरानुमतेनात्मजमखिलधरामण्डलस्थिति

गुप्तय आस्थाप्य स्वयमतिविषमविषयविष

जलाशयाशाया उपरराम ॥२२॥

इति ह वाव स जगतीपरिरीश्वरेच्छयाधि

निवेशितकर्माधिकारोऽखिलजगद्वन्धध्वसनपरानु

भावस्य भगवत आदिपुरुषस्यांघ्रियुगलानवरत

ध्यानानुभावेन परिरन्धितकशायाशयोऽवदातोऽपि

मानवर्धनो महतां महीतलमनुशशात ॥२३॥

अथ च दुहितरं प्रजापतेइर्विश्वकर्मण उपयेमे

बर्हिष्मती नाम तस्यामु ह वाव आत्मजानत्म

समनशीलगुणकर्मरुपवीर्योदारान्दश भाव -

याम्बभुव कन्यां च यवीयसीमुर्जस्वतीं नाम ॥२४॥

आग्नीध्रेध्मजिह्नायज्ञबाहुमहावीरहिरण्यरेतो -

घृतष्ठसवनमे धातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥२५॥

एतेषा कविर्महावीरः सवन इति त्रय आसन्नुर्ध्वरेतसस्तः आत्मविद्यायामर्भभावादारभ्यकृत -

परिचयः पारमहंस्यमेवाश्रममभजन ॥२६॥

तस्मिन्नु ह वा उपशमशीलाः परमर्षयः ।

शकलजीवनिकायावासस्य भगवतो वासुदेवस्य

भीतांनां शरणभुतस्य श्रीमच्चरणारविन्दा

विरतस्मरणाविगलितपरमभक्तियोगानुभावेन

परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां

भुतानामात्मभुते प्रत्यगात्मन्येवात्मनस्तादात्म्य -

मविशेषेण समीयुः ॥२७॥

अनय्स्यामपि जायायां त्रयः पुत्रा आसन

उत्तमस्तामसो रैवत इति मन्वन्तराधिपरायः ॥२८॥

एवमुपशमायनेषु स्वतनयेष्वथ जगतीपति

र्जगतीमर्बुदान्येकादशु परिवत्सराणमव्यहता

खिलपुरुषकारसारसम्भृतदोर्दण्डयुगलापीडित

मौर्वीगुणस्ततिनविरमितधर्मप्रतिपक्षो बर्हिष्म

त्याश्चानुदिनमेधमानप्रमोदप्रसरणयौषिण्यव्रीडा

प्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः पराभुय

मानविवेक इवानवबुध्यमान इव महामना

बुभुजे ॥२९॥

यावदभवभासयति सुरगिरिमनुपरिक्रामन

भगवानदित्यो वसुधातमर्धेनैव प्रतपत्यर्धे

नावच्छादयति तदा हि भगवदुपासनोपचिताति

पुरुषप्रभावस्तदनाभिनन्दन समजवेन रथेन

ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्त

कुत्वस्तरणिमनुपर्यक्रामद द्वितीय इव पतंगः ॥३०॥

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते स

सत्प सिन्धव आसन यत एव कृताः सप्त भुवो द्वीपाः ॥३१॥

जम्बुप्लक्षाशामलिकुशक्रौत्र्जशाकपुष्कर

संज्ञास्तेषां परिमाणं पुर्वस्मात्पुर्वस्मदुत्तर

उत्तरो यथासंख्य द्विगुनमानेन बहिः समन्तत उपक्लृत्पाः ॥३२॥

क्षारोदेक्षुरसोदसुरोदघृतोदक्षोरोददधिमण्डोद

शुद्धोदाः सप्त जलधयः सप्तः द्वीपपरिखा इवाभ्यन्तर

द्वीपसमाना एकैकश्येन यथानुपर्व सप्तस्वापि

बहिद्वीपेषु पृथकपरित उपकल्पितास्तेषु जम्ब्वादिषु

बर्हिष्मतीपतिरनुव्रतानात्मजानाग्रीध्रे ध्मजिह्न

यज्ञबाहुहिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्र

संज्ञान यथासंख्येनैकैक स्मिनैकमेवाधिपतिं

विदधे ॥३३॥

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासीद

देवयानी नाम काव्यसुता ॥३४॥

नैवंविधः पुरुषकार उरुक्रमस्य

पुंसां तदडघ्रिरजसा जितषडगुणानाम ।

चित्रं विदुरविगतः सकृदाददीत

यन्नामधेयमधुना स जहाति बन्धम ॥३५॥

स एवमपरिमितबलप्राक्रम एकदा तु

देवर्षिचरणानुशयनानुपतितगुणविसर्गसंसर्गेणा

निर्वृतमिवात्मानं मन्यमान आत्मनिर्वेद

इदमाह ॥३६॥

अहो असाध्वनुष्ठितं यदभिनिवेशितोऽह

मिन्द्रियैरविद्यारचितविषमविषयान्धकूपे तद

लमलममुष्या वनिताया विनोदमृगं मां धिग्धिगिति

गर्हयात्र्चकार ॥३७॥

परदेवताप्रसादधिगतात्मप्रत्यवमर्शेनानु

प्रवृत्तेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां

चं महिर्षीं मृतकमिव सहमहविभुतिमहपहाय स्वयं

निहितनिर्वेदो हृदि गृहितहरिविहारानुभावो भगवतो

नारदस्य पदवीं पुनरेवानुससार ॥३८॥

तस्य ह वा एते श्लोकाः

प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम ।

यो नेमिनिमैरकोर्च्छयां घ्रन सप्त वरिधीन ॥३९॥

भुमसस्थान कृतं येन सरिद्रिरिवनादिभिः ।

सीमाअ च भुतनिर्वृत्यै द्विपे द्विपे विभागशः ॥४०॥

भौमं दिव्य मानुषं च महित्वं कर्मयोगजम ।

यश्चक्रे निरयौपम्यं पुरुषनुजनप्रियः ॥४१॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहिताया पंचमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP