श्रीशुक उवाच
अथ सिन्धुसौवीरपते रहुगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवस
उपलब्ध एष पीवा युवा सहंननांगोः गोखरवद्धरं वोढुमलमिति पुर्वविष्टिगृहीतिः सह गृहीतः
प्रसभमतदर्ह उवाह शिबिकां स महानुभावः ॥१॥
यदा हि द्विजवरस्येषुमात्रावलोकानुगर्तेर्न समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां
रहुगण उपधार्य पुरुषानधिवहत आह हे वोढारः साध्वतिक्रमत किमित विषममुह्याते यानमिति ॥२॥
अथ त ईश्वरवचः सोपालम्भमुपाकण्यौपाय तुरीयाच्छकींतमनसस्तं विज्ञापयाम्बभुवुः ॥३॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव वहामः अयमधुनैव नियुक्तेऽपि न द्रुतं
व्रजति नानेन सह वोढुमु ह वयं पारयाम इति ॥४॥
सांसर्गिको दोष एव नुनमेकस्यपि सर्वेषां सांसर्गिकाणां भवितुमर्हतीत निश्चित निशम्य कृपणवचोराजा
राहुनगण उपासितव्रुद्धोऽपि निसंर्गेण बलात्कृत ईषदुत्थितमन्युरविस्पष्टब्रह्माह्यातेजसं
जातवेदसमिव रजसाऽऽवृतमतिराह ॥५॥
अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो
दीर्घामध्वानमेक एव ऊहिवान सुचिरं नातिपीवा न संहननंगो जरसा चोपद्रुतो भवान सुखे नो एवपर
एते संगट्टिन इति बहुविप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरेऽवस्तुनि
संस्थानविशेषेऽहं ममेत्यध्यारोपित्मिथ्याप्रत्ययो
ब्रह्मभुतस्तुष्णीं शिबिकां पुर्ववदुवाह ॥६॥
अथ पुनः स्वधिबिकायां विषमगतायां प्रकृपित उवाच रहुगणः किमिदमरे त्वं जीवन्मृतो
मां कदर्थीकृत्य भर्तृशसनमतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिरिव जनताया
यथा प्रकृतिं स्वां भिजिष्यस इति ॥७॥
एवं बह्नबद्धमपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं
पण्डितमानिनं स भगवान ब्राह्मणो ब्रह्माभुतः सर्वभुतसुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयामान
इव विगतस्मय इदमाह ॥८॥
ब्राह्मण उवाच
त्वयोदितं व्यक्तविप्रलब्धं भर्तुः समे स्याद्यादि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा र्पावेति राशी न विदां प्रवादः ॥९॥
स्थौल्यं कार्श्य व्याधय आधयश्च क्षुत्तृंभयं कलिरिच्छा जरा च ।
निद्रा ररिर्मन्युरहमंदः शुचो देहेन जातस्य हिमनसन्ति ॥१०॥
जीवनमृतात्व नियमेव राजन आद्यन्तवद्यद्विकृत तस्य दृष्टम ।
स्वस्वाम्यभावो ध्रुव इंड्य यत्र तर्याच्यतेऽसु विधिकृत्ययोगः ॥११॥
विशेश्य्हबुद्धेर्विवरं मनाक च पश्याम यत्र व्यवहरतोन्यत ।
क ईश्वरस्तत्र किमीशितव्य तथापि राजन करवाम किं ते ॥१२॥
उन्मत्तमत्तजडवत्स्वसंस्थां गतस्य मे वीर चिकीत्सितेन ।
अर्थः कियान भवता शिक्षेतेन स्तब्धप्रमत्तस्य च पिष्टपेषः ॥१३॥
श्रीशुक उवाच
एतावदनुवादपरिभाषय प्रत्युदीर्य मुनिवर उपशमशील
उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन राजयानमपि तथोवाह ॥१४॥
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्व जिज्ञासायां सम्यक
श्रद्धयाधिकृताधिकारस्तद हृदयग्रन्थोमचनं द्विजवच आश्रुत्य बहुयोगग्रन्थाम्मतं
त्वरयावरुह्या शिरसा पादमुलमुपसृतः क्षमापयनण विगतनृपदेवस्मय उवाच ॥१५॥
कत्स्वं निगूढश्वरसि द्विजानां बिभर्षि सुत्रं कतमोऽवधुतः ।
कस्यासि कुत्रत्य इहापि कस्मात क्षेमाय नश्चेदासि नोत शुक्लः ॥१६॥
नाहं विशके सुररजवज्रा न्नत्र्यक्षशुत्रान्न यमस्य द्ण्डात ।
नाग्नर्कसोमनिलवित्तपास्त्रा च्छंकेः भूशं ब्रह्माकुलावमानात ॥१७॥
तद ब्रुहासंगो जडवन्निगुढ विज्ञानवीर्या विचरस्यपारः ।
वंचासि योगग्रथितानि साधो ननः क्षमन्ते मनसापि भेत्तुम ॥१८॥
अहं च योगेश्वरमात्मतत्त्व विदां मुनींना परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत साक्षाद्धरिं ज्ञानकलवतीर्णम ॥१९॥
स वै भवाँल्लोकनिरिक्षणार्थ मव्यक्तलिंगो विचरत्यपिस्वित ।
योगेश्वरांणं गतिमन्धबुद्धीः कथं विचक्षीत गृहानुबन्धः ॥२०॥
दृष्ट श्रमः कर्मत आत्मनो वै भर्तृर्गन्द्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात समुल इष्टो व्यवहारमार्गः ॥२१॥
स्थाल्याग्नितापाप्पयसोऽभितापस्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वशयसन्निकर्षात तत्संसृतिः पुरुषस्यानुरोधात ॥२२॥
शास्तभिगोप्ता नृपतिः प्रजाणां यः किंकरो वै न पिनष्टि पिष्टम ।
स्वधर्ममराधनमच्युतस्य यदीहमनो विजहात्यघौघम ॥२३॥
तन्मे भवान्नरदेवाभिमान मदेन तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवाध्यानमंहः ॥२४॥
न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभितेस्तवापि ।
महद्विमानात स्वकृताद्भि मदृं नंक्ष्यत्यदुरादपि शुलपाणिः ॥२५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे दशोऽध्यायः ॥१०॥