रहुगण उवाच
नमो नमः कारणविग्रहाय स्वरुपतुच्छीकृतविग्रहाय ।
नमोऽवधुत द्विजबन्धुलिंग निगूढनित्यानुभवय तुभ्यम ॥१॥
ज्वरामयार्तस्य यथागदं सत निदाघदग्धस्य यथा हिमाम्भः ।
कुदेहमानाहिविदष्टदृष्टेर्ब्रह्मन वचस्तेऽमृतमौषधं मे ॥२॥
तस्माद्भवन्तं मम संशयार्थं प्रक्ष्यमि पश्चादधुना सुबोधम ।
अध्यात्मयोगग्रथितं तवोक्त मख्याहि कौतुहलचेतसो मे ॥३॥
यदाह योगेश्वर दृश्यमानं क्रियाफलं सदव्यवहारमुलम \
न ह्यात्र्जसा तत्त्वविमर्शनाय भवानमुष्मिन भ्रमते मनो मे ॥४॥
ब्राह्मण उवाच
अयं जनो नाम चलन पृथिव्यं यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चांडघ्योरधिगुल्फजघं जानुरुपम्ध्योरशिरोधरांसाः ॥५॥
अंसेऽधि दार्वी शिबिका च यस्या सौवीरराजेत्यपदेश आस्ते ।
यस्मिन भवान रुढनिजाभिमानो राजास्मि सिन्धुष्विति दुर्मदान्धः ॥६॥
शोच्यनिमांस्त्वमधिकष्टदीनान विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ॥७॥
यदा क्षितावेव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम ।
तन्नामतोऽन्यद व्यवहारमुलं निरुप्यतां सत क्रिययानुमेयम ॥८॥
एवं निरुक्तं क्षितिशब्दावृत्त मसन्निधानात्परमाणवो ये ।
अविद्यया मानसा कल्पितास्ते येषां समुहेन कृतो विशेषः ॥९॥
एवं कृशं स्थुलमणुर्बहद्यद असच्च सज्जीवमजीवमन्यत ।
द्रव्यस्वभावाशयकालकर्मनाम्राऽजयावेहि कृंत द्वितीयम ॥१०॥
ज्ञानं विशुद्धंपरमार्थमेकमनन्तर त्वबर्हिर्ब्रह्मा सत्यम ।
प्रत्यक प्रशान्त भगवच्छब्दसंज्ञं यद्वासुदेव कवयो वदन्ति ॥११॥
रहुगणैतत्तपसा न याति न चेज्यया निर्वपणाद गृहाद्वा ।
न च्छन्दसा नैव जलाग्र्निसुर्यै र्विना महत्पादरजोऽभिषेकम ॥१२॥
यत्रोत्तमश्लोकगुणानुवादः प्रस्तुयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षो र्मतिं सतीं यच्छति वासुदेवे ॥१३॥
अहं पुरा भरतो नाम राजा विमुक्तदृष्ट श्रुतसंगबन्धः ।
आराधनं भगवत ईहमानो मृगोऽभवं मृगसंगाद्धतार्थः ॥१४॥
सा मां स्मृतिं र्मृगदेहेऽपि वीर कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसंगादसंगो विशंकमानोऽविवृतश्चरामि ॥१५॥
तस्मान्नरोऽसंगसुसगंजात ज्ञानसिनेहैव विवृक्नमोहः ।
हरिं तदीहाकथनश्रुतिभ्यां लब्धस्मृतिर्यात्यतिपारमध्वनः ॥१६॥
इति श्रीमद्भागवाते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे ब्राह्मणहुगणसंवादे द्वादशोऽध्यायः ॥१२॥