राजो वाच
यदेतद्भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन
परिक्रामती राशीनामभिमुखं प्रचलितं चाप्रदक्षिणं
बह्गवतोपवर्णितममुष्य वयं कथमनुमिमीमहिती ॥१॥
सहोवाच
यथा कुलालचक्रेण भ्रमता सह भ्रमतां
तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव
प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेव
नक्षत्रराशिभिरुपलक्षितेन
कालचक्रेण ध्रुवं मेरु च प्रदक्षिणन
परिधावता सह परिधावमानांना
तदाश्रयाणां सुर्यादीनां
ग्रहाणां गतिरन्यैव नक्षत्रान्तरे
राश्यन्तरे चोपलभ्यमानत्वात ॥२॥
स एश भगवानादिपुरुष एव
साक्षान्नारायणो लोकांना स्वस्तय आत्मानं
त्रयीमयं कर्मविशुद्धीनिमित्तं कविभिरति च
वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य
षटसु वसन्तादिष्वुतृषु यथोपजोमृतुगुणान
विदधाति ॥३॥
तमेतमिह पुरुषास्त्रय्या विद्यया वर्नाश्रमा
चारानुपथा उच्चावचैः कर्मभिराम्रातैर्योगवितानैश्च
श्रद्धया यजन्तोऽत्र्जसा श्रेयः समाधिगच्छन्ति ॥४॥
अथ स एष आत्मा लोकांना द्यावापृथिव्योरन्तरेण
नभोवलयस्य कालचक्रगतो द्वादशामासान भुडक्ते
राशिसंज्ञान संवत्सरावयवान्मासः पक्षद्वयं दिवा
नक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं
भुत्र्जीत स वै ऋतुरित्युपदिश्यते संवत्सरावयवः ॥५॥
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं
कलमयनमाचक्षते ॥६॥
अथ च यावन्नभोमण्डलंस ह द्यावापृथिव्यो
र्मण्डलाभ्यां कात्स्न्यैन सह भुत्र्जीत तं
कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं
वत्सरमिति भानोर्मान्द्यशैघ्रयसमगतिभिः
समामनतिः ॥७॥
एवं चन्द्रमा अर्कगभस्तिभ्य उपसिष्ट्गाल्लक्षयोजनत
उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तीं
सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो
भुड्क्ते ॥८॥
अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणभिश्च
कलाभिः पितृमाहोरात्रणि पुर्वपक्षापरपक्षाभ्यां वितन्वानः
सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिशता
मुहुर्तेर्भुडक्ते ॥९॥
य एष षोडशकलः पुरुषो भगवान्मनोमयोऽन्नमयोऽमृतमयो
देवपितृमनुष्यभुतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात्सर्वमय
इति वर्णयन्ति ॥१०॥
तत उपरिष्टत्त्रित्ल क्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन
ईश्वरयोजितानि सहाभिजिताष्टाविशंति ॥११॥
तत उपरिष्टादुशना द्विलक्षयोजनत उपलभ्यते पुरतः
पश्चात्सहैव वार्कस्य शैघ्र्म्यमान्द्यसाम्यभिर्गतिभिरकवच्चर्ति
लोकांना नित्यदानुकुल एव प्रायेण वर्षयं श्चारेणानुमीयते
स वृष्टीविष्टम्भग्रहोपशमनः ॥१२॥
उशनसा बुधो , व्याख्यातस्तत उपरिष्ट्राद द्विलक्षयोजनतो
बुधः सोमसुत उपलभ्यमानः प्राणेय शुभक्रद्यर्काद
व्यतिरिच्येत तदा तिवाताब्रप्रायानावृष्टादिभयमांशसते ॥१३॥
अतं ऊर्ध्वमंगराकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभि
पक्षैरेकैकशो राशीन्द्वादशानुभक्तें यदि न वक्रेणाबिवर्तते प्रायेणाशुभग्रहोऽघशंसा ॥१४॥
तत उपरिष्टाद द्विलक्षयोजनान्तरगतो भगवान
बृहस्पतिरेकैकस्मिन राशौ परिवत्सरं परिवत्सरं
चरति यदि न वक्रः स्यात्प्रोयेनानुकुलो ब्राह्मणकुलस्य ॥१५॥
तत उपरिष्टाद्योजनकक्षद्वयात्प्रतीयमानः शनैश्वर एकैकस्मिन राशौ त्रिंशुन्मासान
विलम्बमानः सर्वानेवानुपर्येत तावाद्भिरनुवत्सरैः
प्रायेण हि सर्वेशमशान्तिकरः ॥१६॥
तत उत्तरस्मादृषय एकादशलक्षयोजनान्तर
उपलभ्यन्ते य एव लोकांना शमनुभावयन्ति
भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥१७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः ॥२२॥