कपिल उवाच
अथ यो गृहमेधीयान्धर्मानेवावसन गृहे ।
काममर्थं च धर्मान स्वान दोग्धि भुय़ः पिपर्ति तानः ॥१॥
स चापि भगवद्भर्मात्काममुढः पराडमुखः ।
यजते क्रतुभिर्देवान पित्रुश्चं श्रद्धयान्वितः ॥२॥
तच्छ्रद्धयाक्रान्तमातिः पितृदेवव्रतः पुमान ।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥३॥
यदा चाहिन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।
तदा लोका लयं यान्ति त एते गृहमेधिनाम ॥४॥
ये स्वधर्मात्र दुह्यान्ति धीराः कामार्थहेतवे ।
निःसंगा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥५॥
निवृत्तिधर्मनिरता निर्ममा निरहंडकॄताः ।
स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा ॥६॥
सुर्यद्वारेण ये यान्तिक पुरुषं विश्वतोमुखम ।
परावरेशं प्रकृतेमस्योप्तन्तभावनम ॥७॥
द्विपरार्द्धावसाने यः प्रलयो ब्रह्माणस्तु ते ।
तावदध्यासते लोकं परस्य परचिन्तकाः ॥८॥
क्षमाम्भोऽनलानिलवियन्मनइन्द्र्र्यार्थभुतादिभिः परिवृत्तं प्रतिसत्र्जिहीर्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभुय परः स्वयम्भुः ॥९॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्मा प्रधानमुपयान्त्यगताभिमानाः ॥१०॥
अथ तं सर्वभुतानां हृत्पद्येषु कृतालयम ।
श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥११॥
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।
योगेश्वरेः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥१२॥
भेददृष्ट्याभिमानेन निःसंगेनापि कर्मणा ।
कर्तृत्वात्सगुणं ब्रह्मा पुरुषं पुरुषर्षभम ॥१३॥
स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।
जाते गुणव्यतिकरे यथापुर्वं प्रजायते ॥१४॥
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम ।
निषेव्य पुनरायन्ति गुणव्यतिकरे सति ॥१५॥
ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।
कुर्वन्त्यप्रतिप्रषिद्धानि नित्यान्यापि च कृत्स्नशः ॥१६॥
रजसा कुण्ठनमसः कामात्मानोऽजितेन्द्रियाः ।
पितृन यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥१७॥
त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।
कथयां कथनीयोरुविक्रमस्य मधुद्विषः ॥१८॥
नुनं दैवेन विहता ये चाच्युतकथासुधाम ।
हित्वा श्रुण्वान्त्यसद्गाथा ; पुरुषमिव विडभुजः ॥१९॥
दक्षिणेन पाथार्यम्णः पितृलोकं व्रजन्ति ते ।
प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥२०॥
ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।
पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥२१॥
तस्मात्वं सर्वभावेन भजस्व परमेष्ठिनम ।
तदगुणाश्रयया भक्त्या भजनीपदाम्भुजनम ॥२२॥
वासिदेवे भगवति भक्तियोगेः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानं यदब्रह्मादर्शनम ॥२३॥
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृतिभिः ।
न विगृह्णाति वैषम्यं प्रियमप्रियमित्यत ॥२४॥
स तदैवात्मऽऽत्मानं निःसंग समदर्शनम ।
हेयोपादेयरहितमारुढं पदमीक्षते ॥२५॥
ज्ञानमात्रं परं ब्रह्मा परमात्मेश्वरः पुमान ।
दृश्यादाभिः पृथग्भावैर्भगवानेक ईयते ॥२६॥
एतावानेव योगेन समग्रेणेह योगिनः ।
युज्यतेऽभिमतो ह्यार्थो यदसंग्रसतु कृत्स्नशः ॥२७॥
ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्मा निर्गुणम ।
अवभात्यर्थरुअपेण भ्रान्त्या शब्दादिधर्मिणा ॥२८॥
यथा महानहंरुपस्त्रिवृत्पत्र्चविधः स्वराट ।
एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥२९॥
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।
समाहितात्मा निःसंगो विरक्त्या परिपश्यति ॥३०॥
इत्येतत्कथितं गुर्विं ज्ञानं तदब्रह्मादर्शनम ।
येनानुबुद्धयत्ते तत्त्वं प्रकृतेः पुरुषस्य च ॥३१॥
ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।
द्वयोरप्येक एवार्थो भगवच्छद्बलक्षणः ॥३२॥
यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ।
एको नानेयते तद्वद्भगवान शास्त्रवर्त्मभिः ॥३३॥
क्रियया क्रतुभिर्दानैस्तपः स्वाध्यायमर्शनैः ।
आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम ॥३४॥
योगेन विविधाडेन भक्तियोगेन चैव हि ।
धर्मेणोभयचिन्हेन यः प्रवृत्तिनिवृत्तिमान ॥३५॥
आत्मतत्त्वावबोधेन वैरग्येण दृढेन च ।
ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक ॥३६॥
प्रावोचं भक्तियोगस्य स्वरुपं ते चतुर्विधम ।
कलस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥३७॥
जीवस्य संसृतीर्बह्वीरविद्याकर्मनिमित्ताः ।
यास्वंग प्रविशन्नात्मा न वेद गतिमात्मनः ॥३८॥
नैतत्खलयोपदिशेन्नाविनीताय कर्हिचित ।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥३९॥
न लोलुपायोपदिशेन्न गृहारुढचेतसे ।
नाभक्ताय च मे जातु न मद्भक्तद्विषामापि ॥४०॥
श्रद्दधानाय भक्ताय विनीतायानसुयवे ।
भूतेषु कृतमैत्राय शुश्रुषाभिरताय च ॥४१॥
बहिर्जातविरागाय शान्तचित्ताय दीयताम ।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥४२॥
य इदं श्रृणुयादम्ब श्रद्धया पुरुषः सकृत ।
यो वाभिधत्ते मच्चितः स ह्योति पदवीं च मे ॥४३॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहिंताया तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ॥३२॥