श्रीभगवानुवाच
अथ ते सम्प्रवक्ष्यामि तत्वानां लक्षणं पृथक ।
यद्विदित्वा विमुच्येत पुरुषः प्राक्रुतैर्गुणैः ॥१॥
ज्ञानं निःश्रेयसार्थय पुरुषास्यात्मदर्शनम ।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम ॥२॥
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्धामा स्वयंज्योतिर्विश्वे येन समन्वितम ॥३॥
स एष प्रकृतिं सुक्ष्मां दैवीं गुणमयीं विभुः ।
यदृच्छवैवोपगतामभ्यपद्यत लीलया ॥४॥
गुणैर्विचित्राः सृजतीं स्वरुपाः प्रकृतीं प्रजाः ।
विलोक्या मुमुहे सद्यः स इह ज्ञानगुहया ॥५॥
एवं पराभिध्यनेन कर्तृत्व प्रकृतेः पुमान ।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥६॥
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम ।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मन ॥७॥
कर्यकरनकर्तृत्वे कारणं प्रकृतिं विदुः ।
भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम ॥८॥
देवहुतिरुवाच
प्रकृते पुरुषस्यापि लक्षणं पुरुषोत्तम ।
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम ॥९॥
श्रीभगवानुवाच
यत्तत्रिगुणामव्यक्तं नित्य सदसदात्मकम ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत ॥१०॥
पत्र्चभिः पंचभिर्ब्रह्या चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधनिकं विदुः ॥११॥
महभुतानि पंचैव भुरापोऽग्निऽर्मरुन्नभः ।
तन्मात्राणि तावन्ति गन्धादीनि मतानि मे ॥१२॥
इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकाः ।
वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥१३॥
मनो बुद्धीरहकांरश्चित्तमित्यन्तरात्मकम ।
चतुर्धा लक्ष्यते भेदो वृत्या लक्षणरुपया ॥१४॥
एतावानेन संख्यातो ब्रह्माणाः सगुणस्य ह ।
सन्निवेशो मया प्रोक्ता यः कालः पंचविशकः ॥१५॥
प्रभावं पौरुषं प्राहुः कालमेक यतो भयम ।
अहंकारविमुढस्य कर्तुः प्रकृतिमीयुषः ॥१६॥
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।
चेष्टा यतः स भगवान काल इत्युपलक्षितः ॥१७॥
अन्तः पुरुषरुपेण कालरुपेण यो बहिः ।
समन्वेत्येष सत्वांना भगवानात्मयायया ॥१८॥
दैवात्क्षुभितधर्मिण्यां स्वस्यां योनी परः पुमान ।
आधत्त वीर्य सासुत महत्तत्वं हिरण्यमयम ॥१९॥
विश्वामत्मगतं व्यंजन कुटस्थो जगदंकुर ।
स्वतेजसापिब्गत्तीव्रमात्मप्रस्वापनं तमः ॥२०॥
यत्तत्सत्वगुणं स्वच्छं शान्तं भगवतः पदम ।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम ॥२१॥
स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ।
वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥२२॥
महत्तत्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात ।
क्रियाशक्तिरहकांरस्त्रिविधः समपद्यत ॥२३॥
वैकरिकस्तेजसश्च तामसश्च यतो भवः ।
मनसश्चेन्द्रियाणां च भुतानां महातामपि ॥२४॥
सहस्त्रशिरस साक्षाद्यमनन्त प्रचक्षते ।
संकर्षणाख्यं पुरुषं भुतेन्द्रियमनोमयम ॥२५॥
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम ।
शान्तघोरविमुढत्वमि वा स्यादहंकृते ।२६॥
वैकारिकाद्विकुर्वाणान्मनस्तत्वमजायत ।
यत्संकल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥२७॥
यद्विदुर्ह्य निरुद्धाख्यं हृषीकाणामधीश्वरम ।
शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥२८॥
तैजासात्तु विकुर्वाणाद बुद्धीतत्त्वमभुत्सति ।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणमनुग्रहः ॥२९॥
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक ॥३०॥
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।
प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥३१॥
तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात ।
शब्दमात्रमभुत्तस्मान्नभः श्रोत्रं तु शब्दगम ॥३२॥
अर्थाश्रयत्वं शब्दस्य द्रष्टर्लिडत्वमेव च ।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥३३॥
भुतांना छिद्रदातृत्व बहिरन्तरमेव च ।
प्राणेन्द्रियात्मधिष्णत्वं नभसो वृत्तिलक्षणम ॥३४॥
नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः ।
स्पर्शोऽभवत्ततो वायुस्त्वक स्पर्शस्य च संग्रहः ॥३५॥
मृदत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।
एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥३६॥
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।
सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम ॥३७॥
वायोश्च स्पर्शतन्मत्राद्रुपं दैवेरितारभुत ।
समुत्थितं ततस्तेजश्चक्षु रुपोपलम्भनम ॥३८॥
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।
तेजस्त्वं तेजसः साध्वि रुपमात्रस्य वृत्तयः ॥३९॥
द्योतनं पचनं पानमदनं हिममर्दनम ।
तेजसो वृत्तयस्त्वेताः शोषण क्षुत्तृडेव च ॥४०॥
रुपमात्राद्विकुर्वाणोत्तेजसो दैवचोदितात ।
रसमात्रमभुत्तस्मादम्भो जिह्ला रसग्रहः ॥४१॥
कषायो मधुय्रस्तिक्तः कटवम्ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते ॥४२॥
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम ।
तापापनोदो भुयस्त्वमम्भसो वृत्तयस्त्विमाः ॥४३॥
रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात ।
गन्धमत्रमभुत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः ॥४४॥
करम्भपूतिसौरभ्यशान्तोग्राम्लदिभिः पृथक ।
द्रव्यावयववैषम्याद्रन्ध एको विभिद्यते ॥४५॥
भावनजं ब्रह्माणः स्थानं धारणं सद्विशेषणम ।
सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम ॥४६॥
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।
वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥४७॥
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।
अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः ।
भुमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥४८॥
परस्य दृश्यते धर्मो ह्यापरसिम समन्वयात ।
अतो विशेषो भावानां भुमावेवोपलक्ष्यते ॥४९॥
एतान्यसंहत्य यदा महदादीनि सप्त वै ।
कालकर्मगुणापेतो जगदादिरुपपाविशत ॥५०॥
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम ।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट ॥५१॥
एतदण्डं विशेषाख्यं क्रमवृद्धेर्दशोत्तरैः ।
तोयदिभिः परिवृतं प्रधानेनावृतैर्बहिः ।
यत्र लोकवितानोऽयं रुपं भगवतो हरेः ॥५२॥
हिरण्ययादण्डकोशादुत्थाय सलिलेशयात ।
तमाविश्य महादेवो बहुधा निर्बिभेद खम ॥५३॥
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत ।
वाण्या बह्निरथो नासे प्राणोतो घ्राण एतयोः ॥५४॥
घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः ।
तस्मात्सुर्यो व्यभिद्येतां कर्णो श्रोत्रं ततो दिशः ॥५५॥
निर्बिभेद विराजस्त्वग्रोमश्मश्वादय्स्ततः ।
तत ओषधयश्चासन शिश्नं निर्बिभिदे ततः ॥५६॥
रेतस्तस्मादाप आसन्निरभिद्यत वै गुदम ।
गुदादपानोऽपानाच्च मृत्युर्लोकभयंकरः ॥५७॥
हास्तौ च निरभिद्यतां बलं ताभ्यां ततः स्वराट ।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥५८॥
नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम ।
नद्यस्ततः समभवन्नुदरं निरिभिद्यत ॥५९॥
क्षुत्पिपासे ततः स्यातां समुद्रत्त्वेतयोरभुत ।
अथास्य हृदयं भिन्नं ह्रुदयान्मन उत्थितम ॥६०॥
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः ।
अहंकारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत ॥६१॥
एते ह्याभ्युत्थिता देवा नैवास्योत्थापनेऽशकन ।
पुनराविविशुः खानि तमुत्थापयितं क्रमात ॥६२॥
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट ।
घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट ॥६३॥
अक्षिणी चक्षुषाऽऽतित्यो नोदतिष्ठत्तदा विराट ।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट ॥६४॥
त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट
रेतसा शिश्रमापस्तु नोदतिष्ठत्तदा विराट ॥६५॥
गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट ।
रेतसा शिश्रमापस्तु नोदतिष्ठत्तदा विराट ॥६६॥
विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट ।
नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट ॥६७॥
क्षुत्तृंभ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट ।
हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट ॥६८॥
बुद्धया ब्रहमपि हृदयं नोदतिष्ठत्तदा विराट ।
रुदोभिमत्या हृदयं नोदतिष्ठत्तदा विराट ॥६९॥
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्रविशद्यदा ।
विराट तदैव पुरुषः सलिलादुदतिष्ठत ।७०॥
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ।
प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥७१॥
तमस्मिन प्रत्यगात्मानं धिया योगप्रवृत्तया ।
भक्त्या विरत्क्या ज्ञानेन विविच्यात्मनि चिन्तयेत ॥७२॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे षडविंशोऽध्यायः॥२५॥