कपिल उवाच
तस्यैतस्य जनो नुनं नयं वेदोरुविक्रमम ।
कल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥१॥
यं यमर्थमुपादत्ते दुःखेन सुखहेतवे ।
तं तं धुनोति भगवान पुमात्र्छोचति यत्कृते ॥२॥
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।
ध्रुवाणि मन्यते मोहाद गृहक्षेत्रवसुनि च ॥३॥
जन्तुर्वे भव एतस्मिनं यां यां योनिमनुव्रजेत ।
तस्यां तस्यां स लभते निर्वृत्तिं न विरज्यते ॥४॥
नरकस्थोऽपि देहं वै न पुमांस्त्यकृमिच्छति ।
नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥५॥
आत्मजयासुतागारपशुद्रविणब्रन्धुषु ।
निरुढमुलहृदय आत्मानं बहु मन्यते ॥६॥
सन्दहृआमानसर्वांग एषामुद्वहनाधिना ।
करोत्यविरतं मुढो दुरितानि दुराशयः ॥७॥
आक्षित्पात्मेन्द्रियः स्त्रीणामसतीनां च मायया ।
रहोरचितयाऽऽलापैः शिशुनां कलभाषिणाम ॥८॥
गृहेषु कुटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।
कुर्वन्दुः खप्रतीकारं सुखवन्मन्यते गृही ॥९॥
अर्थेरापदितैर्गुर्व्या हिंसयेतस्ततश्व तान ।
पुष्पाति येषां पोषेण शेषेभुग्यात्यधः स्वयम ॥१०॥
वार्तायां लुप्यमानयामारब्धायं पुनः पुनः ।
लोभाभिभुतो निःसत्वा परर्थे कुरुते स्पृहम ॥११॥
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यम ।
श्रियाः विहिनः कृपाणो ध्यांछसितिमुढधौः ॥१२॥
एवं स्वभरणाकल्पं तत्कलत्रदयस्तथा ।
नाद्रियन्ते यथा पूर्व कीनाशा इव गोजरम ॥१३॥
तत्राप्यजातैनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।
जरयोपात्तवैरुप्यो मरणाभिमुखो गृहे ॥१४॥
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन ।
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः ॥१५॥
वायुनोत्क्रमतोत्तारः कफसंरुद्धानाडिकः ।
कासश्वासकृतायासः कण्ठे घुरघुरायते ॥१६॥
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः ।
वाच्यमानोऽपि न ब्रुते कालपाशवशं गतः ॥१७॥
एवं कुटुम्बभरणे व्यापृत्माजितेन्द्रियः ।
म्रियते रुदतां स्वानामुरुवेदयास्तधीः ॥१८॥
यमदुतौ तदा प्रात्पौ भीमौ सरभसेक्षणी ।
स दृष्ट्र्वा त्रस्तहृदयः शकृन्मूत्रं विमुंचति ॥१९॥
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात ।
नयतो दीर्घमध्वानं दण्डय राजभटा यथा ॥२०॥
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः ।
पथि श्वभिर्भक्ष्यमाण आर्तोंऽघं स्वमनुस्मरन ॥२१॥
क्षुत्तृट्रपरितोऽर्कदवानलानिलैः सन्तप्यमानः पथि तत्पवालुके ।
कृच्छ्रेण पृष्ठे कशया च ताडित श्चंलत्यशक्तोऽपि निराश्रमोदके ॥२२॥
तत्र तत्र पतत्र्छ्रान्तो मुर्च्छितः पुनरुत्थितः ।
पथा पापीयसा नीतस्तमसा यमसादनम ॥२३॥
योजनानां सहस्त्राणि नवतिं नव चाध्वन ।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्रापोति यातनाः ॥२४॥
आदीपनं स्वगात्राणां वेष्टवित्वोल्मुकादिभिः ।
आत्ममांसांदनं क्वपि स्वकृत्तं परतोऽपि वा ॥२५॥
जीवश्चान्त्राभ्युद्धारः श्चरृधैर्यमसादने ।
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम ॥२६॥
कृन्तनं चावयवशो गजादिभ्यो भिदापनम ।
पातनं गिरिश्चगेंभ्यो रोधनं चाम्बुगर्तयोः ॥२७॥
यास्तामिस्रान्धतामिस्रा रौरवद्याश्च यातनाः ।
भुडक्तें नरो वा नारी वा मिथः संगेन निर्मिताः ॥२८॥
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।
या यातना वै नारक्यस्ता इहाप्युलक्षिताः ॥२९॥
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।
विसृज्येहोभयं प्रेत्य भुडक्ते तत्फलमीदृशम ॥३०॥
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम ।
कुशलेतरपार्थेयो भुतद्रोहेण यद भृतम ॥३१॥
दैवेनासादितं तस्य शमलं निरये पुमान ।
भुडक्तें कुटुम्बपोषस्य हृतवित्त इवातुरः ॥३२॥
केवलेन ह्याधर्मेण कुटुम्बभरणोत्सुकः ।
याति जीवोऽन्धतमिस्तं चरमं तमसः पदम ॥३३॥
अधस्तान्नरलोकस्य यावतीर्यातनादयः ।
क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचितः ॥३४॥
इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नाम त्रिंशोऽध्यायः ॥३०॥