फलदीपिकाः - अष्टाविंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


उपसंहाराध्याय संज्ञाध्यायः कारको वर्गसंज्ञो वीर्याध्यायः कर्मजिवाऽथ योगः ।

योगो राज्ञां राशिशीलो ग्रहाणां मेषादिनां लग्नसम्प्राप्तशीलः ॥१॥

भार्याभावो जातक कमिनीना सूनुर्बालारिष्टयोगोऽथ रोगः ।

भावस्तस्माद्द्वादशावाप्तभावा निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥२॥

सूर्यादीनां यत्फलं तदृशाप्तं भावादीनामीश्वराङ्का दशा च ।

सूर्यादीनामन्तराख्या दशाऽथ सव्यासव्या कालचक्रोऽष्टवर्गः ॥३॥

होरासारावाप्तयद्यष्टवर्गो मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः ।

अध्यायानां विंशतिः सप्तयुक्तान् जन्मन्येतद्गोलजं संवदामि ॥४॥

श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै ।

दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥५॥

सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् ।

तत्कटाक्षविशेषेण कृता या फलदीपिका ॥६॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP