प्रव्रज्या योग ग्रहैश्चतुर्भिः सहिते खनोथे त्रिकोणगैः केन्द्रगतैस्तु मुक्तः ।
लग्ने गृहान्ते सति सौम्यभागे केन्द्रे गुरौ कोणगते च मुक्तः ॥१॥
एकर्क्षसंस्थैश्चतुरादिकैस्तु ग्रहैर्वदेत्तत्र बलान्वितेन ।
प्रव्रज्यकां तत्र वदन्ति केचित् कर्मेशतुल्यां सहिते खनाथे ॥२॥
शशी दृगाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् ।
कुजांशके वा रविजेन दृष्तो नवांशतुल्यां कथयन्ति तां पुनः ॥३॥
जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्तः पुरुषस्य सूतौ ।
आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम् ॥४॥
योगीशं दीक्षित वा कलयति तरणिस्तीर्थपान्थं हिमांशु- र्दुर्मन्त्रज्ञं च बौधाश्र्यमवनीसुतो ज्ञो मतान्यप्रविष्टम् ।
वेदान्तज्ञानिनं वा यतिवरममरेड्यो भृगुलिङ्गवृत्त व्रात्य शैलूषवृत्तिं शनिरिह पतितं वाऽथ पाषण्डिनं वा ॥५॥
अतिशयबलयुक्तः शीतगुः शुक्लपक्षे बलविरहितमेन प्रेक्षते लग्ननाथः ।
यदि भवति तपस्वी दुःखितः शोकतप्तो धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥६॥
प्रकथितमुनियोगे राजयोगो यदि स्या- दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।
जनयति पृथिवीशं दीक्षितं साधुशीलं प्रणतनृपहिरोभिः स्पृष्टपादाब्जयुग्मम् ॥७॥
चत्वारो द्युचराः खनाथसहिताः केन्द्रे त्रिकोणेऽथवा सुस्थाने बलिनस्त्रयो यदि तदा सन्याससिद्धिर्भवेत् ।
सब्द्बाहुल्यवशाच्च तत्र सुशुभस्थानस्थितैस्तैर्वदेत् प्रव्रज्यां महितां सताम्भिमतां चेदन्यथा निन्दिताम् ॥८॥