पुत्रभाव फल सुस्था विलग्नशशिनोः सुतभेशजीवाः सुस्थाननाथशुभदृष्टियुते सुतर्क्षे ।
लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः ॥१॥
लग्नामरेड्यशशिनां सुतभेषु पापै- र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु ।
पापोभयेषु सुतभेषु सुतेश्चरेषु दुःस्थानगेषु न भवन्ति सुताः कर्थचित् ॥२॥
पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह ।
संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति ॥३॥
सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते ।
चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे- ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः ॥४॥
सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् ।
मन्दे वा बहुपुत्रवाञ्च्छशिनि वा सौम्येऽपि वाल्पात्मजो देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते ॥५॥
सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्- व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः ।
मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः सुते शशिनि नैधनव्ययतनुस्थपापैरपि ॥६॥
पापे लग्ने लग्नपे पुत्रसंस्थे धीशे वीर्ये वेश्मनीन्दावपुत्रः ।
ओजर्क्षेशे पुत्रगे सूर्यदृष्टे चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः ॥७॥
मान्दं सुतर्क्षे यदि वाऽथबौधं मान्द्यर्कपुत्रान्वितवीक्षितं चेत् ।
दत्तात्मजः स्यादुदयास्तनाथ- संबन्धहीनो विबलः सुतेशः ॥८॥
नीचारिपूढोपगते सुतेशे रिःफारिरन्ध्राधिपसंयुते वा ।
सुतस्य नाशः कथितोऽत्र तज्ज्ञैः शुभैरदृष्टे सुतभे सुतेशे ॥९॥
सुतनाथजीवकुजभास्करेषु वै पुरुषंशकेषु च गतेषु कुत्रचित् ।
मुनयो वदन्ति बहुपुत्रतं तदा सुतनाथवीर्यवशतः सुपुत्रताम् ॥१०॥
पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै- र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः ।
स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे ॥११॥
बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् ।
स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः ॥१२॥
अशत्रुनिचारिनवांशकैः सुते सुतेशयुक्तैरपि तैस्तथाविधैः ।
सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते फलैः पुत्रमितिर्विचिन्त्यते ॥१३॥
जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम् ॥
भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् ॥१४॥
पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये- न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि ।
कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः ॥१५॥
विष्टिः स्थिरं वा करणं यदि स्यात् कृष्णं जयेत् पौरुषसूक्तमन्त्रैः ।
पष्ठ्यां गुहार्धनमत्र कार्यं यजेच्चतुर्थ्यां किल नागराजं ॥१६॥
रामायणस्य श्रवणं नवम्यं यद्यष्टमी चेच्छ्रवणव्रतं च ।
चतुर्दशी चेद्यादि रुद्रपूजा स्याद्द्वादशी चेत्समृतमन्नदानम् ॥१७॥
तृप्ति पितॄणामिह पञ्चदश्यां कृष्ंए दशम्याः परतोऽतियत्नात् ।
पक्षत्रिभागेष्वपि नागराजं स्कन्दं च सेवेत हरी क्रमेण ॥१८॥
पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् ।
पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ- प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् ॥१९॥
द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः ।
स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे ॥२०॥
पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म- च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् ।
साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः ॥२१॥
स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् ।
शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते जीवो वाथ शिखी समान्दिरिह चेद्भूदेवत्या.सुतः ॥२२॥
एवं हि जन्मसमये बहुपूर्वजन्म- कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः ।
तत्तद्ग्रहोक्तजपदानशुभक्रिया- भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै ॥२३॥
सेतुस्नानं कीर्तनं सत्कथायाः पूजां शंभोः श्रीपतेः सद्व्रतानि ।
दानं श्चाद्धं कर्जनागप्रतिष्टां कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः ॥२४॥
लग्नास्तपुत्रपतिजीवदशापहारे पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः ।
पुत्रेशराशिमथवा यमकण्टकर्क्षं जीवेगते तनयसिद्धिरथांशभे वा ॥२५॥
लग्नाधीशः पुत्रनाथेन योगं स्वोच्चे स्वर्क्षेचारगत्या समेति ।
पुत्रप्राप्तिः स्यात्तदा लग्ननाथः पुत्रर्क्षं वा याति धीशाप्तभं वा ॥२६॥
विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् ।
सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् ॥२७॥
सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा ।
बलसहितस्य दशायामपहारे वा सुतप्राप्तिः ॥२८॥
जीवे तु जीवात्मजनाथभशक- त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् ।
अथान्यशास्त्रेण च जन्मकालतो निरूपयेत्सन्ततिलक्षणं बुधः ॥२९॥
जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च।
स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः ॥३०॥
निषेकलग्नाद्दिनपस्तृतीये राशौ यदा चारवशादुपैति ।
आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् ॥३१॥
आधानल्ग्नात्सुतभेशजन्म भाग्येऽपि वा पुण्यवशाच्च वाच्यं ।
आधनलग्ने शुभदृष्टियोगे दीर्घयुरैश्वर्ययुतो नरः स्यात् ॥३२॥
तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा ।
तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः ॥३३॥
प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु ।
आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च ॥३४॥