फलदीपिकाः - सप्तदशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


निर्याणप्रकरण तत्तद्भावादष्टमेशस्थितांशे तत्त्रिकोणगे व्ययेशस्थितभंशे वा मन्दे तद्भावनाशनम् ॥१॥

रन्ध्रेशे गुलिको मन्दः खरद्रेक्काणपाऽपि वा यत्र तिष्ठति तद्भंशत्रिकोणे रविजे मृतः ॥२॥

उद्यद्दृगाणनाथस्य तथा रन्ध्राधिपस्य च रन्ध्रद्रेक्काणपस्यापि भांशकोणे गुरौ मृतिः ॥३॥

स्वस्फुटद्वादशांशे वा रन्ध्रेशस्थनवांशके लग्नेशस्थनवांशे वा तत्त्रिकोणेऽपि वा मृतिः ॥४॥

रन्ध्रभोर्वा भानोर्वा भानोर्वाभांशकोणं गते विधौ मृतिं वदेत्सर्वमेतल्लग्नाच्चद्राच्च चिन्तयेत् ॥५॥

लग्नेशहीनयमकण्टकभांशकोणं प्राप्तेऽथवा शनिविहीनहिमांशुभांशम् ।

याते गुरौ स्वमरणन्त्वथ राहुहीन- भूसूनुभांशकगुरौ सहजप्रणाशः ॥६॥

भानोः कण्टकवर्जितस्य भवनांषे वा त्रिकोणे गुरौ तातो नश्यति कण्टकोनगुलिकर्क्षंशत्रिकोणे शनौ ।

अर्कोनेन्दुगृहंशकोणगगुरौ चन्द्रोनमन्दात्मज- क्षेत्रेंऽशेऽप्यथवा त्रिकोणगृहगे मन्दे जनन्या मृति ॥७॥

वदेत्प्रत्यरिनक्षत्रनाथाच्च यमकण्टकम् त्यक्त्वा तद्भवने कोणे गुरौ पुत्रविनाशनम् ॥८॥

लग्नार्कमान्दिस्फुटयोगराशेरधीश्वरो यद्भवनोपगस्तु तद्राशिसंस्थे पुरुहूतवन्द्ये तत्कोणगे वा मृतिमेति जातः ॥९॥

मान्दिस्फुटे भानुसुटं विशोध्य राश्यंशकोणे रविजे मृतः स्यात् धूमादिप~चग्रहयोगराशि- द्रेक्काणयातेऽर्कमुते च मृत्युः ॥१०॥

विलग्नमन्दिस्फुटयोगभांशं निर्यणमासं प्रवदन्ति तज्ज्ञाः निर्यणचन्द्रो गुलिकेन्दुयोगो लग्नं विलग्नार्किसुतेन्दुयोगः ॥११॥

मान्दिस्फुटोदितनवांशगतेऽमरड्ये तद्द्वादशांशसहिते दिननाथसूनौ द्रेक्काणकोणभवने दिनपे च मृत्यु- र्लग्नेन्दुमान्दियुतभेशगतोदये स्यात् ॥१२॥

गुलिकं रविसूनुं च गुणित्वा नवसंख्यया उभयोरैक्यराश्यंशगृहगे रविजे मृतिः ॥१३॥

स्फुटे विलग्ननाथस्य विशोध्य यमकण्टकम् तद्राशिनवभागस्थे जीवे मृत्युर्न संशयः ॥१४॥

षष्ठावसानरन्ध्रेशस्फुटैक्यभवनं गते तत्त्रिकोणोपगे वाऽपि मन्दे मृत्युभयं नृणाम् ॥१५॥

उद्यद्दृगाणपतिराशिगते सुरेड्ये तस्य त्रिकोणमपि गच्छति वा विनाशम् रन्ध्रत्रिभागपतिमन्दिरगेऽथ मन्दे प्राप्ते त्रिकोणमथवास्य वदन्ति मृत्युम् ॥१६॥

विलग्नजन्माष्टमराशिनाथयोः खरत्रिभागेश्वरयोस्तयोरपि शशाङ्कमान्द्योरपि दुर्बलांशक- त्रिकोणगे सूर्यसुते मृतिर्भवेत् ॥१७॥

लग्नाधिपस्थितनवांशकराशितुल्यं रन्ध्राधिपस्य गृहमापतिते घटेशे तस्मिन्वदेन्मरणयोगमनेकशास्त्र- संक्षुण्णखिन्नमतिभिः परिकीर्तितं तत् ॥१८॥

शशाङ्कसंयुक्तदृगाणपूर्वतः खरत्रिभागेशगृहं गतेऽपि वा त्रिकोणगे वा मरणं शरीरिणां शशिन्यथ स्यात्तनुरन्ध्ररिःफगे ॥१९॥

निधनेश्वरगतराशौ भानाविन्दौ तु भानुगतराशौ निधनाधिपसंयुक्ते नक्षत्रे निर्दिशेन्मरणम् ॥२०॥

यो राशिर्गुर्लिकोपेतः तत्त्रिकोणगते शनौ मरणं निशिजातानां दिविजानां तदस्तके ॥२१॥

गुरुराहुस्फुटैक्यस्य राशिं यातो गुरुर्यदा तदा तु निधनं विद्यात्तत्त्रिकोणगतोऽथवा ॥२२॥

अष्टमस्य त्रिभागांशपतिस्थितगृहं शनौ तदीहनवभागर्क्षं गते वा मरणं भवेत् ॥२३॥

जन्मकाले शनौ यस्य जन्माष्टमपतेरपि राशेरंशकराशेर्वा त्रिकोणस्थे शनौ मृतः ॥२४॥

निशीन्दुराशौ चेज्जन्म मान्दिभेऽशे मृतिः दिवार्कभे चेत्तद्द्यूनत्रिकोणे वा शनौ मृतिः ॥२५॥

रन्ध्रेश्वराद्यावति भे मान्दिस्तावति भे ततः शनिश्चेन्मरणं ब्रूयादिति सद्गुरुभाषितम् ॥२६॥

जन्मकालीनमृगुजात्कामशत्रु व्यये रवौ मरणं निश्चितं ब्रुयादिति सद्गुरुभाषितम् ॥२७॥

तिष्ठन्त्यष्टमरिःफषष्ठपतयो रन्ध्रत्रिभागेश्वरो मान्दिर्यद्भवनेषु तेष्वपि गृहेष्वार्कीडयसूर्येन्दवः ॥२८॥

सर्वे चारवशात्प्रयान्ति हि यदा मृत्युस्तदा स्यान्नृणां तेषामंशवशाद्वदन्तु निधनं तत्तत्त्रिकोणेऽपि वा ॥२९॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP