आयुर्भाव जाते कुमारे सति पूर्वमार्यै रायुर्विचिन्त्यं हि ततः फलानि ।
विचारणीया गुणिनि स्थितेतद् गुणाः समस्थाः खलु लक्षणज्ञैः ॥१॥
केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् ।
होराविदश्चितनकाययोन्योर्वियोगकालं कथयन्ति लग्नम् ॥२॥
आद्वादशाब्दान्नरयोनिजन्मना- मायुष्कला ।
निश्चयितुं न शक्यते मात्रा च पित्रा कृतपापकर्मण बालग्रहैर्नशमुपैति बालकः ॥३॥
आद्ये चतुष्के जननीकृताघै- र्मध्ये च पित्रार्जितपापसङ्धैः ।
बालस्तदन्त्यासु चतुःशरत्सु स्वकीयदोषैः समुपैति नाशम् ॥४॥
तद्दोषशान्त्यै प्रतिजन्मतार- माद्वदशाब्दं जपहोमपूर्वम् ।
आयुष्करं कर्म विधाय ताता बालं चिकित्सादिभिरेव तक्षेत् ॥५॥
आष्टौ बालारिष्टमादौ नराणं योगारिष्टं प्राहुरावींशति स्यात् ।
अल्पं चाद्वात्रिंशतं मध्यमायु- श्चासप्तत्याः पूर्णमायुः शतान्तम् ॥६॥
नृणां वर्षशतं ह्यायुस्तास्मींस्त्रेधा विभज्यते ।
अल्पं मध्यं दीर्घमायुरित्येतत्सर्वसम्मतम् ॥७॥
मृत्युः स्याद्दिनमृत्युरुग्विषघटीकालेऽथ तिष्येऽम्बुभे ताताम्बासुतमातुलान्पदवशात्त्वाष्ट्रे च हन्यात्तथा ।
मूलर्क्षे पितृमातृवंशविलयं तस्यान्त्यपादे श्रियां सार्पे व्यस्तमिदं फलं न शुभसम्बन्धं विलग्नं यदि ॥८॥
पापाप्तेक्षितराशिसन्धिजनने सद्यो विनाशं ध्रुवं गण्डान्ते पितृमतृहा शिशुमृतिर्जीवेद्यदि क्ष्मापतिः ।
जातः सन्धिचतुष्टयेऽप्यशुभसंयुक्तेक्षिते स्यान्मृति- र्मृर्त्योभार्गगते च सा साति विधौ केन्द्रोऽष्टमे वा मृतिः ॥९॥
चान्द्रं रूपं लोकशूरो वरज्ञः कुड्ये चित्रं भाग्यलोके शुकानाम् ।
मेने राज्यं मृत्युभागाः प्रदिष्टा मेषादिनां वर्णसम्ख्यैहीमांशोः ॥१०॥
दानं धेनो रुद्र रौद्री मुखेन भाग्या भानुर्गोत्र जाया नखेन ।
पुत्री नित्यं मृत्युभागाः क्रमेण मेषादीनां तेषु जाता गतायुः ॥११॥
रन्ध्रे केन्द्रेषु पापैरुदयनिधनगैर्वथ लग्नास्तयोर्व लग्नेऽब्जेवोग्रमध्ये व्ययमृतिरिपुगे दुर्बले शीतभनौ ।
क्षीणेन्दौ साशुभे वा तनुमदगुरुधीभाजि रन्ध्रास्तगोग्रै- मृत्युः स्यादशु केन्द्रे न यदि शुभखगाः सद्युतिर्वीक्षणं वा ॥१२॥
जन्मेशोऽथ विलग्नपो यदिभवेद्दुस्थोऽबलो वत्सरै- स्तद्राशिप्रमितैश्च मारयति तन्मासैदृर्गाणाधिपः ।
अंशेशो दिवसैस्तथा यदि मृतिर्द्वित्र्यादियोगान्बहू- नालोच्य प्रवदेत्सुताष्टमगतैः पापैररिष्टं शिशोः ॥१३॥
लग्नेन्द्वोस्तदधीसयोरपि मिथो लग्नेशरन्ध्रेशयो- र्द्रेक्काणास्वनवांशकादपि मिथस्तद्द्वादशांशात्क्रमात् ।
आयुर्दीर्घसमाल्पतां चरनगव्द्यांगैश्चरेऽथ स्थिरे ब्रूयाद्द्वन्द्वचरस्थिरैरुभयभैः स्थास्नुद्विदेहाटनैः ॥१४॥
लग्नाधीशशुभाः क्रमाद्बहुसमाल्पायुंषि केन्द्रादिगाः रन्ध्रेशोग्रखगास्तथा यदि गता व्यस्तं विदध्युः फलं ।
जन्मेशाष्टमनाथयोरुदयपच्छिद्रेशयोर्मैत्रतो भास्वल्लग्नपयाश्चिरायुरहितेऽल्पायुः समे मध्यमः ॥१५॥
लग्नाधिपो लग्ननवंशनायको जन्मेश्वरो जन्मनवांशनायकः ।
स्वस्वाष्टमेशाद्यदि चेद्बलान्विता दीर्घयुषः स्युविपरीतमन्यथ ॥१६॥
लग्नेश्वरादतिबली निधनेस्वरोऽसौ केन्द्रस्थितो निधनरिः फगतिश्च पापैः ।
तस्यायुरल्पमथवा यदि मध्यमायु- रुत्साहसंकटवशात्परमायुरेति ॥१७॥
नरोऽल्पायुयोर्गे प्रथमभगणे नश्यति शने- र्द्वितीये मध्यायुर्यदि भवति दीर्घयुषि सति ।
तृतिये निर्याणं स्फुटजशनिगुर्वर्कहिमगून् दशां भुक्ति कष्टमपि वदति निश्चित्य सुमतिः ॥१८॥
सपापो लग्नेशो रविहतरुचिर्नीचरिपुगो यदा दुःस्थानेषु स्थितिमुपगतो गोचरवशात् ।
तनौ वा तद्योगो यदि निधनमाहुस्तनुभृतां नवांशाद्द्रेक्काणाच्छिशिरकरलग्नादपि वदेत् ॥१९॥
शशी तदारूढगृहाधिपश्च लग्नाधिनाथश्च यदा त्रयोऽमी ।
गुणाधिकाः सद्ग्रहदृष्टयुक्त गुणधिकं तं कथयन्ति कालम् ॥२०॥
लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभखगैरवलोक्यमानः ।
मृत्युं विहाय विदधाति स दीर्घमायुः सार्द्धं गुणैर्बहुभिरूर्जितराजलक्ष्म्या ॥२१॥
सर्वतिशाय्यतिबलः स्फुरदंशुजालो लग्ने स्थितः प्रशमयेत् सुरराजमन्त्री ।
एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त्या इव चक्रधरे प्रणमः ॥२२॥
मूर्तेस्त्रिकोणागमकण्टकेषु रवीन्दुजीवर्क्षनवांशसंस्थः ।
सुकर्मकृन्नत्यमशेषदोषान्मुष्णाति वद्धिष्णरनुष्णरश्मिः ॥२३॥
केन्द्रत्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थौ ।
भुक्त्वा सुखानि विविधानि सुपुण्यकर्मा जीवेच्च वत्सरशतं स विमुक्तरोगः ॥२४॥
श्चीपत्युदीरितदशाभिरथाष्टवर्गत्- यत्कालचक्रदशयोडुदशाप्रकारात् ।
सम्यक्स्फुटाभिहतया क्रिययाप्तवाक्या- दायुर्बुधो वदतु भूरिपरीक्षया च ॥२५॥