द्विग्रहयोग तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् ।
क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्- लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा ॥१॥
कूट्स्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशी सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् ।
विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् ॥२॥
मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा ।
गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च ॥३॥
सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद् वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः ।
सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि ॥४॥
असितसितसमागमेऽल्पचक्षु- र्युवतिसमाश्चयसम्प्रवृद्धवित्तः ।
भवति च लिखिपुस्तकचित्रवेत्ता कथितफलैः परतो विकल्पनीयाः ॥५॥
भूपो विद्वान् भूपतिर्भूपतुल्य- श्चन्द्रे मेषे मोषको निर्धनश्च ।
निस्स्वः स्तेनो लोकमान्यो महीशः स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः ॥६॥
युग्मस्थेऽयोजीविभूपज्ञधृष्टा- श्चन्द्रे दृष्टे तन्तुवायोऽधनी च ।
स्वर्क्षे योधप्राज्ञसूरिक्षितीशा लोहाजीवो नेत्ररोगी क्रमेण ॥७॥
राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः सिंहे चन्द्रे नापितः पार्थिवेन्द्रः ।
दक्षो भूपः सैन्यपः कन्यकायां निष्णातः स्याद्भूमिनाथश्च भूपः ॥८॥
शठो नृपस्तौलिनि रुक्मकार श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च ।
कीटे नृपो युग्मपिता महीशः स्याद्वस्त्रजीवी विकृताङ्गवित्तः ॥९॥
धूर्तो हयाङ्गे स्वजनं जनेशं नरौघमाश्रित्य शठः सदम्भः ।
भूपो नरेशः क्षितिपो विपश्चि- द्धनी दरिद्रो मकरे हिमांशौ ॥१०॥
कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रो वेश्यापतिर्नृवपरो हिमगौ नृमान्यः ।
अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान् दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते ॥११॥
चन्द्रमा के विभिन्न नवांशों में होने का और उस पर विविध ग्रहों की दृष्टि का फल
आरक्षको वधरुचिः कुशलश्च युद्धे भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे ।
मूर्खोऽन्पदारनिरतः सुक्विः सितांशे सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च ॥१२॥
बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि- गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽशे ।
स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे ॥१३॥
सक्रोधो नरपतिसंमतो निधीशः सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा ।
जीवांशे प्रथितबलो रणोपदेष्टा हास्यज्ञः सचिवविकामवृद्धशीलः ॥१४॥
अल्पापत्यो दुःखितः सत्यपि स्वे मानासत्कः कर्मणि स्वेऽनुरक्तः ।
दुष्टस्त्रीष्टः कोपनश्चार्किभागे चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे ॥१५॥
सूर्यादितोऽत्रांशफलं प्रदिष्टं ज्ञेयं नवांशस्य फलं तदेव ।
राशीक्षणे यत्फलमुक्तमिन्दो- स्तद्द्वादशांशस्य फलं हि वाच्यम् ॥१६॥
वर्गोत्तमस्वपरगेषु शुभं यदुक्तं तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण ।
वीर्यान्वितोंऽशकपर्तिनरुणद्धि पूर्वं राशीक्षणस्य फलमंशफलं ददाति ॥१७॥