प्रष्टकवर्गफल
अर्कस्थितस्य नवमो राशिः पितृगृहः स्मृतः तद्राशिफलसंख्याभिर्वर्द्धयेच्क्षोध्यपिण्डकम् ॥१॥
सप्तविंशहृताल्लब्धं नक्षत्रं याति भानुजे ।
तस्मिन् काले पितृक्लेशो भवेष्यति न संशयः ॥२॥
तत्त्रिकोणगते वाऽपि पितृतुल्यस्य वा मृतः ।
संयोगः शोध्यशिषाणां शोध्यपिण्ड इति स्मृतः ॥३॥
लग्नात्सुखेश्वरांशेशदशायां च पितृक्षयः ।
सुखनाथदशायां वा पितृतुल्यमृतिं वदेत् ॥४॥
संशोध्य पिण्डं सूर्यस्य रन्ध्रमानेन वर्द्धयेत् ।
द्वादशेन हताच्छेषराशिं याते दिवाकरे ॥५॥
तत्त्रिकोणगते वाऽपि मरणं तस्य निर्दिशेत् ।
एवं ग्रहाणां सर्वेषां चिन्तयेन्मतिमान्नरः ॥६॥
चन्द्रात्सुखफलैः पिन्डं हत्वा सारावशेषितम् ।
शनौ याते मातृहानिः त्रिकोणर्क्षगतेऽपि वा ॥७॥
चन्द्रात्सुखाष्टमेशंशत्रिकोणे विदेसाधिपे ।
मातुविंयोगं तन्मासे निर्दिश्लेल्लग्नतः पितुः ॥८॥
भौमात्तृत्तीयराशिस्थफलैभ्रातृगणं वदेत् ।
बुधात्सुखफलैर्बन्धुगणं वा मातुलस्य च ॥९॥
गुरुस्थितसुतस्थाने यावतां विद्यते फलम् ।
शत्रुनीचग्रहं स्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥१०॥
गुरोरष्टकवर्गे तु शोध्यशिष्टफलानि वै ।
क्रूरराशिफलं त्यक्त्वा शेषास्तस्यात्मजाः स्मृताः ॥११॥
फलाधिकं भृगोर्यत्र तत्र भार्याजनिर्यदि ।
तस्यां वंशाभिवृद्धिः स्यादल्पे क्षीणार्थसंततिः ॥१२॥
शोध्यपिण्डं शनेर्लग्नाद्धत्वा रन्ध्रफलैः सुखैः ।
हृत्वावशेषभं याते मन्दे जीवेऽपि वा मृतिः ॥१३॥
लग्नादिमन्दान्तफलैक्यसंख्या- वर्षे विपत्तिस्तु तथार्कपुत्रात् ।
यावद्विलग्गान्तफलानि तस्मिन्- नाशो हि तद्योगसमानवर्षे ॥१४॥
अष्टमस्त्थफलैर्लग्नात्पिण्डं हत्वा सुखैर्भजेत् ॥१५॥
फलमायुविजानीयात्प्राग्वद्वेलां तु कल्पयेत् त्रिकोण शोधन त्रिकोणेषु तु यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् ।
एकस्मिन् भवने शून्ये तत्रिकोणं न शोधयेत् ॥१६॥
भवनद्वयशून्ये तु शोधयेदन्यमन्दिरम् ।
समत्वे सर्वगेहेषु सर्वं संशोधयेत्तदा ॥१७॥
एकाधिपत्य शोधन त्रिकोणशोधनां कृत्वा प्रश्चदैकाहिपत्यकम् ।
क्षेत्रेद्वये फलानि स्युस्तदा संशोधयेत्सुधीः ॥१८॥
ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ।
ऊनेन सदृशन्त्वस्मिन् शोधयेद्ग्रहवर्जिते ॥१९॥
फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वम्त्सृजेत् ।
सग्रहाग्रहतुल्यत्वे सर्वं संशोध्यमग्रहात् ॥२०॥
उभाभ्यां ग्रहहीनाभ्यांसमत्वे सकलं त्यजेत् ।
उभयोर्ग्रहसंयुक्ते न संशोध्यं कदाचन ॥२१॥
एकस्मिन् भवने शून्ये न संशोध्यं कदाचन ।
द्वावग्रहौ चेद्यन्नयूनं तत्तुल्यं शोधयेद्द्वयोः ॥२२॥
शोध्यावशिष्टं संस्थाप्य राशिमानेन वर्द्धयेत् ।
ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥२३॥
राशि गुणक आउर ग्रह गुणक गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिभे ।
वणिङ्मेषौ च मुनिभिः कन्यकामकरे शरैः ॥२४॥
शेषाः स्वमानगुणिताः कर्किचापघटीभुषाः ।
एते राशिगुणाः प्रोक्ताः पृथग्ग्रहगुणाः पृथक् ॥२५॥
जीवारशुक्रसौम्यानां दशवसुमप्तेन्द्रियैः क्रमाद्गुणिता ।
बुधसंख्या शेषाणां राशिगुणाद्ग्रहगुणः पृथक्कार्यः ॥२६॥
एवं गुनित्वा संयोज्य सप्तभिर्गुणयेत्पुनः ।
सप्तविंशहृतालब्धवर्षाण्यत्र भवन्ति हि ॥२७॥
द्वादशाद्गुणयेल्लब्धा मासाहर्घतिकाः क्रमात् ।
सप्तविंशति वर्शाणि मण्डलं शोधयेत्पुनः ॥२८॥
अन्योऽन्यमर्द्धहरणं ग्रहयुक्ते तु कारयेत् ।
नीचेऽर्द्धमस्तगेऽप्यर्द्धहरणं तेषु कारयेत् ॥२९॥
शत्रुक्षेत्रे त्रिभागोनं दृश्यार्द्धहरणं तथा ।
त्र्यंशोनहरणं भङ्गे सूर्येन्द्वोः पातसंश्रयात् ॥३०॥
बहुत्वे हरणे प्राप्ते कारयेद्वलवत्तरम् ।
पश्चात्तान् सकलान् कृत्वा वराङ्गेण विवर्द्धयेत् ॥३१॥
मातङ्गलब्धं शुद्धायुर्भवतीति न संशयः ।
पूर्ववद्दिनमासाब्दान् कृत्वा तस्य दशा भवेत् ॥३२॥
एवं ग्रहानां सर्वेषं दशां कुर्यात् पृथक् पृथक् ।
अष्टवर्गदशामार्गः सर्वेषामुत्तमोत्तमः ॥३३॥
बलो बलिष्तो लवणागमोसुरो रागी मुररिः शिखरीन्द्रगाथया ।
भौमो गणेन्द्रो लघुभावतासुरो गोकर्णरक्ता तु पुरणर्मथिली ॥३४॥
रुद्रः परं गह्वरंभैरवस्थली रागी वली भास्वरगीर्भगाचलाः ।
गिरौ विवस्वान्बलवद्विवक्षया शुली मम प्रीतिकरोऽत्र तीर्थकृत् ॥३५॥
सर्वकर्मफलोपेतमष्टवर्गकमुच्यते ।
अन्यथा बलविज्ञानं दुर्ज्ञेयं गुणदोषजम् ॥३६॥
त्रिंशाधिकफला ये स्यू राशयस्ते शुभप्रदाः ।
पञ्चविंशात्परं मध्यं कष्टं तस्मादधः फलम् ॥३७॥
मध्यात्फलाधिकं लाभे लाभात् क्षीणतरे व्यये ।
यस्य व्ययाधिके लग्ने भोगवानर्थवान् भवेत् ॥३८॥
मूर्त्यादि व्ययभावान्तं दृष्ट्वा भावफलानि वै ।
अधिके शोभनं विद्याद्धीने दोषं विनिर्दिशेत् ॥३९॥
षष्ठाष्ठमव्ययांस्त्यक्त्वा शेषेष्वेव परकल्पयेत् ।
श्रेष्ठराशिषु सर्वाणि शुभकार्याणि कारयेत् ॥४०॥
लग्नात्प्रभृति मन्दान्तमेकीकृत्य फलानि वै ।
सप्तभिर्गुणयेत्पश्चात्सप्तविंशहृतात्फलम् ॥४१॥
तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् ।
एवं मन्दानि लग्नान्तं भौमराह्वोस्तथा फलम् ॥४२॥
शुभग्रहाणां संयोगसमानाब्दे शुभं भवेत् ।
पुत्रवित्तसुखादीनि लभते नात्र संशयः ॥४३॥
संग्रहेण मया प्रोक्तमष्टवर्गफलं त्विह ।
तज्ज्ञैर्विस्तरतः प्रोक्तमन्यत्र पटुबुद्धिभिः ॥४४॥