फलदीपिकाः - एकविंशोऽध्यायः

’फलदीपिका’ ग्रंथावरून ग्रहफल, नक्षत्रफल, राशीफल अचूक सांगता येते.


प्रत्यन्तर्दशाफल

अपहारविभागलक्षणं तत्पंक्तिं क्रमशः स्फुटं प्रवचिम् ।

यदुदीरितमत्र तत्समस्तं कथयेत्स्वदशान्तरान्तरादौ ॥१॥

पाकेशाब्दहता दशेश्वरसमा नेत्राङ्कभक्ताः समाः शिष्ट रूपहता नराङ्कविहृता मासा नगैर्वासराः ।

छिद्रादिष्वपि चैवमेव कलयेत्पाकक्रमाच्चेद्दशा- नाथाद्या पुनरन्तरान्तरदशास्तत्पाकनाथक्रमाः ॥२॥

सूर्य महीश्वरादुपलभतेऽधिकं यशो वनाचलस्थलवसतिं धनागमम् ।

ज्वरोष्णरुग्जनकवियोगजं भयं निजां दशां प्रविशति नीक्षणदीधितौ ॥३॥

रिपुक्षयो व्यसनशमो धनागमः कृषिक्रिया गृहकरणं सुहृद्युतिः ।

क्षयानलप्रतिहतिरकर्दायकं शशी यदा हरति जलोद्भवा रुजः ॥४ ॥

रुजागमः पदविरहोऽरिपीडनं वर्णोद्भवः स्वकुलजनैर्वरोधिता ।

महीभृतो भवति भयं धनच्युति यर्दा कुजो हरति तद्ऽर्कर्वत्सरम् ॥५ ॥

रिपूदयो धनहृतिरापदुद्गमो विषाद्भयं विषयविमूढता पुनः ।

शिरोदृशोरधिकरुगेव देहिनाम् अहौ भवेधिमकरायुरन्तरो ॥६॥

रिपुक्षयो विविधधनाप्तिरन्वहं सुरार्चनं द्विजगुरुबन्धुपूजनम् ।

श्रवःश्रमो भवति च यक्ष्मरोगिता सुराचिंते प्रविशति गोपशति गोपतेर्दशाम् ॥७॥

धनाहतिः सुतविरहः स्त्रिया रुजो गुरुव्ययः सपदि परिच्छदच्युतिः ।

मलिष्ठता भवति कफप्रपीदनं शनैश्चरे सवितृदशान्तरं गते ॥८॥

विचन्चिका पिटकसकुष्ठकामिला विशर्धनं जठरकटिप्रपीडनम् ।

महीक्षयः त्रिगदभयं भवेत्तदा विधोः सुते चरति रवेरथाब्दकम् ॥९॥

सुहृव्द्ययुः स्वजनकुटुम्बविग्रहो रिपोर्भयं धनहरणं पदच्युतिः ।

गुरोर्गदश्चरणशिरोरुगुच्चकैः शिखी यदा विशति दशां विवस्वतः ॥१०॥

शिरोरुजा जठरगुदातिंपीडनं कृषिक्रिया गृहधनधन्यविच्युतिः ।

सुतस्त्रियोरसुखमतीव देहिनां भृगोः सुते चरति रवेरथाब्दकम् ॥११॥

चन्द्र- विचार

स्त्रीप्रजाप्तिरमलांशुकागमो भूसुरोत्तमसमागमो भवेत् ।

मातुरिष्टफलमङ्गनासुखं स्वां दशां विशति शीतदीधितौ ॥१२॥

पित्तवह्निरुधिरोद्भवा रुजः क्लेशदुःखरिपुचोरपीडनम् ।

वित्तमानविहतिर्भवेत्कुजे शीतदीधितिदशान्तरं गते ॥१३॥

तीव्रदोषरिपुवृद्धिबन्धुरुङ् मारुताशनिभयातिरुद्भवेत् ।

अन्नपानजनितज्वरोदयाश्चन्द्रवत्सरविहारके ह्यहौ ॥१४॥

दानधर्मनिरतिः सुखोदयो वस्त्रभूषणसुहृत्समागमः ।

राजसत्कृतिरतीव जायते कैरवप्रियवयोहरे गुरऊ ॥१५॥

नैकरोगविहतिः सुहृत्सुत- स्त्रीरुजा व्यसनसंभवो महान् ।

प्राणहानिरथवा भवेच्छनौ मारबन्धुवयसो गतेऽन्तरम् ॥१६॥

सर्वदा धनगजाश्वगोकुल- प्राप्तिराभरणसौख्यसम्पदः ।

चित्तबोध इति जायते विधो- रायुषि प्रवेशति प्रबोधने ॥१७॥

चित्तहानिरपि सपदश्च्युति- र्बन्धुहानिरपि तोयजं भयम् ।

दासभृत्यहतिरस्ति देहिनां केतुके हरति चान्द्रमब्दकम् ॥१८॥

तोययानवसुभूषणाङ्गनाविक्रयक्रयकृषिक्रियादयः ।

पुत्रमित्रपशुधान्यसंयुतिश्चन्द्रदायहरणोन्मुखे भृगौ ॥१९॥

राजमाननमतीव शूरता रोगशान्तिररिपक्षविच्युतिः ।

पित्तवातरुगिने गते तदा स्याच्छशाङ्कपरिवत्सरान्तरम् ॥२०॥

मंगल की महादशा में विविध अन्तर्दशों का फल

पित्तोष्णरुग्व्रणभयं सहजैवियोगः क्षेत्रप्रवादजनितार्थविभूतिसिद्धिः ।

ज्ञात्यग्निशत्रुनृपचोरजनैविरोधो धात्रीसुतो हरति चेच्छरदं स्वकीयाम् ॥२१॥

शस्त्राग्निचोररिपुभूपभयं विषातिः शुक्ष्यक्षिशीर्षजगदो गुरुबन्धुहानिः ।

प्राणव्ययोऽथ यदिवा विपुलापदो वा वक्रायुरन्तरगते भुजगाधिनाथे ॥२२॥

द्विजविबुधसमर्चा तिर्थपुण्यानुसेवा सततमतिथिपूजा पुत्रमित्रादिवृद्धिः ।

श्रवणरुगतिमात्रं श्लेष्मरोगोद्भवो वा भवतिकुजदशान्तः संगते वागधीशे ॥२३॥

उपर्युपरिविनाशः स्वात्मजस्त्रीगुरूणा- मगणितविपदन्तर्दुःखमर्थोपहानिः ।

वसुहरणमरिभ्यो भीतिरुष्णानिलाग्नि- र्भवति कुजदशायामर्कजे सम्प्रयाते ॥२४॥

अरिभयमुरुचोरोपद्रवोऽथार्थहानिः पशुगजतुरगाणां विप्लवोऽमित्रयोगः ।

नृपकृतपरिपीडा शूद्रवैरोद्भवो वा विशति शशितनूजे विष्वधात्रीसुतायुः ॥२५॥

अशनिभयमकस्मादग्निशस्त्रप्रपीडा विगमनमथ देहाद्वित्तनाशोऽथवा स्यात् ।

अपगमनमसुभ्यो योषितो वा विनाशः प्रविशति यदि केतुः क्रूरनेत्रायुरन्तम् ॥२६॥

युधि जनितविमानं विप्रवासः स्वदेशा- द्वसुहृतिरपि चोरैर्वमनेत्रोपरोधः ।

परिजनपरिहानिर्जायते मानवाना- मपहरति यदायुर्भौमिजं भार्गवेन्द्रः ॥२७॥

नृपकृतपरिपूजा यद्धलब्धप्रभावः परिजनधनधान्यश्रीमदन्तःपुरं च ।

अतिविलसितकृत्तः साहसादाप्तलक्ष्मी- स्तिमिरभिदि कुजायुर्दायसंहारिणीति ॥२८॥

विविधधनसुताप्तिविप्रयोगोऽरिवर्गै- र्वसनशयनभूषारत्नसम्पत्प्रसूतिः ।

भवति गुरुजनातिर्गुल्मपित्तप्रपीडा धरणितनयवर्षं शीतगौ सम्प्रयाते ॥२९॥

राहु की महादशा में विविध अन्तर्दशों का फल

विषाम्बुरुग्दुष्टभुजङ्गदर्शनं पराबलासंयुतिरिष्टविच्युतिः ।

अरिष्टवाग्दुष्टजनव्यथा भवेद्विधुंतुदेनापहृते स्ववत्सरे ॥३०॥

सुखोपनीतिः सुरविप्रपूजनं विरोगता वामदृशां समागमः ।

सुपुण्यशास्त्रर्थविचारसम्भवः सुरारिदायान्तगे बृहस्पतौ ॥३१॥

समीरपित्तप्रगदक्षतिस्तनौ तनूजयोषित्सहजैश्च विग्रहः ।

स्वभृत्यनाशश्च पदच्युतिर्भवेत्- दितिप्रजायुः प्रविस्शत्यथार्कजे ॥३२॥

सुतस्वसिद्धिः सुहृदां समागमो मनोविनिन्द्यत्वमतीव जायते ।

पटुक्रियाभूषणकौशलादयो भुजङ्गसंवत्सरहारिणीन्दुजे ॥३३॥

ज्वराग्निशस्त्रारिभयं शिरोरुजा शरीरकम्पः स्वसुहृद्गुरुव्यथा ।

विषव्रणातिः कलहः सुहृज्जनै- रहीन्द्रदायान्तरगे शिखाधरे ॥३४॥

कलत्रलब्धिः शयनोपचारता तुरङ्गमातङ्गमहीसमागमः ।

कफानिलाप्तिः स्वजनैविरोधिता भवेद्भुजङ्गायुरपाहृतौ भृगोः ॥३५॥

अरिव्यथा स्यादतिपीडनं दृशोविंषाग्निशस्त्राहतिरापदुद्गमः ।

वधूसुतातिर्नृपतेर्महद्भयं भुजङ्गवर्षे तिमिरारिणा हृते ॥३६॥

वधूविनाशः कलहो मनोरुजा कृषिक्रयावित्तपशुप्रजाक्षयः ।

सुहृद्विपत्तिः सलिलाद्भयं भवे- द्विधौ दशाभक्तरि देवविद्विधः ॥३७॥

नृपाग्निचोरास्त्रभयं शरीरिणां शरीरनाशो यदि वा महारुजः ।

पदभ्रमो हृन्नयनप्रपीडनं यदात्र सर्पयुषि संचरेत्कुजः ॥३८॥

बृहस्पति की महादशा में विविध अन्तर्दशों का फल

सौभाग्यकान्तितबहुमानगुणोदयः स्यात्सत्पुत्रसिद्धिरवनीपतिपूजनं च ।

आचार्यसाधुजनसंयुतिरिष्टसिद्धिः सवत्सरं हरति देवगुरौ स्वकीयम् ॥३९॥

वेश्याङ्गनामदकृदासवदोषसङ्ग उत्कर्षसौख्यसकुटुम्बपशुप्रपीडा ।

अर्थव्ययोरुभयमक्षिजरुक्सुताति जैवीं दशां विशति दैनकरे नराणाम् ॥४०॥

स्त्रीद्यूतमद्यजमहाव्यसनं त्रिदोषैः केचिद्वदन्त्यपि च केवलमङ्गलाप्तिः ।

देवद्विजार्चनसुतार्थसुखप्रयोगै- र्गीवर्णपूजितदशां हरतीन्दुसूतौ ॥४१॥

शस्त्रव्रणं भवति भृत्यजनैविरोध- श्चित्तव्यथा तनययोषिदुपद्रवश्च ।

प्रणच्युतिर्गुरुसुहृज्जनविप्रयोगः सौरेड्यमायुरपहृत्य ददाति केतुः ॥४२॥

नानाविधार्थपशुधान्यपरिच्छदस्त्री- पुत्रान्नपानशयनाम्बरभूषणाप्तिः ।

देवद्विजार्चनमुपासनतत्परत्व- मायुर्यदा हरति जैवमथासुरेड्यः ॥४३॥

शत्रोर्जयः क्षितिपमाननकीर्तिलाभः स्याच्चण्डता नरतुरङ्गमवाहनाप्तिः ।

श्रेण्यग्रहारपुरराष्ट्रसमस्तसंपद दुच्चैरुचथ्यसहजायुरपाहृतेऽर्के ॥४४॥

योषिद्बहुत्वमरिनाशनमर्थलाभः कृष्यर्थवस्तुपरमोन्नतकीर्तिलाभः ।

दवद्विजार्चनपरत्वमतीव पुंसां संजायते गुरुदशाहृति शर्वरीशे ॥४५॥

बन्धूपतोषणमरिव्रजतोऽर्थलाभः सुक्षेत्रसत्कृतिरिह प्रथितप्रभावः ।

इर्षद्गुरूपहतिरीक्षणसुक्षतिर्वा क्षित्यात्मजे हरति वत्सरमार्यजातम् ॥४६॥

बन्धूपतप्तिरुरुमानसरुग्गदार्ति- श्चोराद्भयं गुरुगदो जठरोद्भवो वा ।

राजेन्द्रपीडनमरिव्यसनं स्वनाशः सम्पद्यते हरति सूरिदशां सुरारौ ॥४७॥

शनि को महादशा में विविध अन्तर्दशों का फल

कृषिवृद्धभृत्यमहिषाभ्युदयः पवनामयो वृषलजातिधनम् ।

स्थविराङ्गनाप्तिरलसत्वमघो निजवत्सरान्तरगते रविजे ॥४८॥

सुभगत्वमस्ति सुखित वनिता नृपलालनं विजयमित्रयुतिः ।

त्रिगदोद्भवः सहजपुत्ररुजा शनिदायहारिणि शशाङ्कसुते ॥४९॥

मरुदग्निपीडनमरिव्यसनं सुतदारविग्रमतिः सततम् ।

अशुभावलोकनमहेश्च भयं मृदुवत्सरं हरति केतुपतौ ॥५०॥

सुहृदङ्गनातनयसौख्ययुतः कृषितोययानजनितार्थचयः ।

शुभकीर्तिरुद्भवति देहभृतां यमदायहारिणि भृगोस्तनये ॥५१॥

मरणं तु वा रिपुभयं सततं गुरुवर्गरुग्जठरनेत्ररुजा ।

धनधान्यविच्युतिरिह प्रभवेत्- रविजायुराविशति तीव्रकरे ॥५२॥

वनिताहतिर्मरणमेव नृणां सुहृदां विपत्तिरथ रोगभयम् ।

जलवातजं भयमतीव भवेत्- रविजायुराविशति रात्रिकरे ॥५३॥

स्वपदच्युतिः स्वजनविग्रहरुक्- ज्वरवाह्नशस्त्रविशभिरथ वा ।

अरिवृद्धिरान्तररुगक्षिभयं रविजायुराविशति भुमिसुते ॥५४॥

अप्मार्गयानमसुभिविरहस्तु अथ वा प्रमेहगुरुगुल्मभयम् ।

ज्वररुक्क्षतिः सततमेव नृणा- मसितान्तरं विशति भोगिपतौ ॥५५॥

अमरार्चनद्विजगणाभिरुचि- र्गृहपुत्रदारविहतिस्तु भवेत् ।

धनधान्यवृद्धिरधिका हि नृणां गतवत्यथार्किवयसीन्द्रगुरौ ॥५६॥

बुध की महादशा में विविध अन्तर्दशों का फल

धर्मार्गनिरतिर्विवपश्चितां सङ्गमो विमलधीर्घनं द्विजात् ।

विद्यया बहुयशः सुखं सदा चन्द्रजे हरति वत्सरं स्वकम् ॥५७॥

दुःखशोककलहाकुलात्मता गात्रकम्पनममित्रसंयुतिः ।

क्षेत्रयान्विप्युतिर्यदा भवेत्- सोममसूनुशरदं गतः शिखी ॥५८॥

देवविप्रगुरुपूजनक्रिया दानधर्मपरतासमागमः ।

वस्त्रभूषणसुहृद्युतिर्भवेद्बोधनायुषि समागते सिते ॥५९॥

हेमविद्रुमतुरङ्गवारणप्रावृतं भवनमन्नपानयुक् ।

भूपतेरपि च पूजनं भवेद्भानुमालिनि बुधाब्दकं गते ॥६०॥

मस्तकव्यसनमक्षिपीडनं कुष्ठदद्रुबहुकण्ठपीडनम् ।

प्राणसंशययुतिर्नृणां भवेज्ज्ञायुषं व्रजति शीतदीघितौ ॥६१॥

अग्निभीतिरपि नेत्रजा रुजा चोरजं भयमतीव दुःखिता ।

स्थानहानिरथ वातरोगिता ज्ञायुषं हरति मेदिनीसुते ॥६२॥

मानहानिरथवाश्रयच्युतिः स्वक्षयोऽग्निविषतोयजं भयम् ।

मस्तकाक्षिजठरप्रपीडनं शीतरश्मिजदशां गतेऽसुरे ॥६३॥

व्याधिशत्रुभयविच्युतिर्भवे- द्ब्रह्मसिद्धिरवनीशसत्कृतिः ।

धर्मसिद्धितपसां समुद्ग्रमो देवमन्त्रिणि विदो दशां गते ॥६४॥

अर्थधर्मपरिलुप्तिरुच्चकैः सर्वकार्यविफलत्वमङ्गिनाम् ।

श्लेष्मवातजनिता रुगुद्भवे- द्वोधनायुषि समागतेऽसिते ॥६५॥

केतु की महादशा में विविध अन्तर्दशों का फल

रिपुजनकलहं सुहृद्विरोधं त्वशुभचः श्रवणं ज्वराङ्गदाहम् ।

गमनपरधाम्नि वित्तनाशं शिखिनि लभेत् दशां गते स्वकीयाम् ॥६६॥

द्विजवरकलहः स्त्रिया विरोधः स्वकुलजनैरपि कन्यकाप्रसूतिः ।

परिभवजननं परोपतापो भवति सिते शिखिवत्सरान्तराले ॥६७॥

गुरुजनमरणं ज्वर्तारः स्वजनविरोधविदेशयानलभः ।

नृपकृतकलहः कफानिलाति- र्विशति रवौ शिखिवत्सरान्तरालम् ॥६८॥

सुलभबहुधनं तथैव हानिः सुतविरहो बहुदुःखभाक्प्रसूतिः ।

परिजनयुवतिप्रजाप्रलाभः शशिनि यदा शिखिदायमभ्युपेते ॥६९॥

स्वकुलजकलहं स्वबन्धुनाशं भयमपि पन्नगजं वदन्ति चोरात् ।

हुतवहभयशत्रुपीडनं च व्रजतिकुजे ध्वजनामखेचरायुः ॥७०॥

अरिकृतकलहं नृपाग्निचौरै- र्भयमपि पन्नगजं वदन्ति तज्ज्ञाः ।

खलजनवचनं दुरिष्टचेष्टा समसि गतेऽत्र शिखीन्द्रदायमाहुः ॥७१॥

सुतवरजननं सुरेन्द्रपूजा धरणिधनाप्तिरुपायनार्थसिद्धिः ।

धनचयजननं महीशमानो भवति गतेऽत्र गुरौ शिखीन्द्रदायम् ॥७२॥

परिजनविहतिं परोपतापं रिपुजनविग्रहमङ्गभङ्गतां च ।

धनपदविर्युतिं तथाहुरार्या गतवति सूर्यसुते शिखाधरायुः ॥७३॥

सुतवर्जननं प्रभुप्रशस्तिः क्षितिधनसिद्धिररीश्वरप्रपीडा ।

पशुकृषीविहतिर्भवेत्तु पुंसां विशति बुधे शिखिवत्सरान्तरालम् ॥७४॥

शुक्र की महादशा में विविध अन्तर्दशों का फल

वसनभूषणवाहचन्दना- द्यनुभवः प्रमदासुखसम्पदः ।

द्युतियुतिः क्षितिपाद्धनलब्धयो भृगुसुते स्वदशां प्रविशत्यपि ॥७५॥

नयनकुक्षिकपोलगदोद्भवः क्षितिभृतो भयमस्ति शरीरिणाम् ।

गुरुकुलोद्भवबान्धवपीडनं भृगुसुतायुषि भानुमति स्थिते ॥७६॥

नखशिरोरदनक्षतिरुच्चकैः पवनपित्तरुगर्थविनाशनम् ।

ग्रहणिगुल्मकयक्ष्मकपीडनं सितवयोहृति तत्र हिमल्विषि ॥७७॥

रुधिरपित्तगदातिसमाश्रयः कनकताम्रचयावनिसंग्रहः ।

सुवतिदूषणमुद्यमविच्युति- र्वृषभवल्लभवत्सरगे कुजे ॥७८॥

निधिभवः सुतलब्धिरभीष्तवाक् स्वजनपूजनमप्यरिबन्धनम् ।

दहनचोरविषोद्भवपीडनं तुलधरेश्वरवत्सरगेऽसुरे ॥७९॥

विविधधर्मसुरेशनमस्क्रिया भवति चात्मजवामदृगागमः ।

विविधराज्यसुखं च शरीरिणां कविदशाहृति कार्मुकनायके ॥८०॥

नगरयोधनृपोद्भवपूजनं प्रवरयोषिदवाप्तिरथास्ति वा ।

विविधवित्तपरिच्छदसंयुति- दितिपूजितदायगते शनौ ॥८१॥

तनयसौख्यमागमसम्पदां निचयलब्धिरतिप्रभुता यशः ।

पवनपित्तकफातिररिच्युतिर्- दनुजमन्त्रिदशाहृति चन्द्रजे ॥८२॥

सुतसुखादिबहिः स्थितिरग्निजं भयमतीव विनाशनमङ्गरुक् ।

अपि च वारवधूजनसंयुतिः शिखिनि यात्यलमौशनसीम् दशाम् ॥८३॥

दशापहारेषु फलं यदुक्तं वर्णाधिकारानुगुणं वदन्तु ।

छिद्रेषु सूक्ष्मेष्वपि तत्फलाप्तिः छायाङ्कवार्तश्रवणानि वा स्युः ॥८४॥

N/A

References : N/A
Last Updated : April 13, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP