ग्रह बल वीर्यं शड्विधमाह कालजबलं चेअबलं स्वोच्चजं दिग्विर्यं त्वयनोद्भवं दिविषदां स्थानोद्भवं च क्रमात् ।
निश्यारेन्दुसिताः परे दिवि सदा ज्ञः शुक्लपक्षे शुभाः कृष्णेऽन्ये च निजाब्दमासदिनहोरास्वङ्ध्रिवृधद्ध्या क्रमात् ॥१॥
राकाचन्द्रस्य चेआबलमुदगयते भास्वतो वक्रगानां युद्धे चोदक्स्थितानां स्फुटबहुलरुचां स्वोच्चवीर्यं स्वतुङ्गे ।
दिग्वीर्यं खेऽर्कभौमौ सुहृदि शशिसितौ विद्गुरू लग्नगौ चेन्मन्देऽस्ते याम्यमार्गे बुधशनिशशिनोऽन्येऽयनाख्ये परस्मिन् ॥२॥
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः षट्सु स्ववर्गेषु वा प्रोक्तं स्थानबलं चतुअयमुखात्पूर्णार्द्धपादाः क्रमात् ।
मध्याद्यन्तकषण्डमर्त्यवनिताः खेटा बलिआः क्रमात् मन्दारज्ञगुरूशनोब्जरवयो नैजे बले वर्द्धनाः ॥३॥
वक्रं गतो रुचिररश्मिमसमहपूर्णो नीचारिभांशसहितोऽपि भवेत्स खेटः ।
वीर्यानिवतस्तुहिनरश्मिरिवोच्चमित्र- स्वक्षेत्रगोऽपि विबलो हतदीधितिश्चेत् ॥४॥
तुङ्गस्था बलिनोऽखिलाश्च शशिनः श्लाघ्यं हि पक्षोद्भवं भानोर्दिग्बलमाह वक्रगमने तराग्रहाणां बलम् ।
कर्क्युक्षाजघटालिगोहिरबलान्त्योक्षाश्विपाश्चात्यगः केतुस्तत्परिवेषधन्वसु बली चेन्द्वर्कयोगो निशि ॥५॥
रूपं मानुषभेऽलिभेऽङ्ध्रेरपरेष्वर्द्धं बलं स्यात्तनोः तुल्यं स्वामिबलेन चोपचयगे नाथेऽतिवीर्योत्कटम् ।
स्वामीड्यज्ञयुतेक्षिते कवियुते चान्यैरयुक्तेक्षिते शर्वर्यांन्निशि राशयोऽहनि परे वीर्यान्विताः कीर्तीताः ॥६॥
स्वोच्चे पूर्णं स्वत्रिकोणे त्रिपादं स्वक्षेत्रऽर्द्धं मित्रभे पाद्दमव ।
द्विट्क्षेत्रेऽल्पं नीचगेऽस्तं गतेऽपि क्षेत्रं वीर्यं निष्फलं स्याद् ग्रहानाम् ॥७॥
केन्द्रे ग्रहाणामुदितं बलं यत्सुखे भवस्यस्तगृहे विलग्ने ।
उपर्युपर्युक्तपदक्रमेण बलाभिवृद्धि हि विकल्पयन्ति ॥८॥
श्रेष्ठेति सा सप्तमदृष्टिरेव सर्वत्र वाच्या न तथाऽन्यदृष्टिः ।
योगादिषु न्यूनफलप्रदेति विशेषदृष्टिर्न तु कैश्चिदुक्ता ॥९॥
नैसर्गिगं शत्रुसुहृत्त्वमेव भवेत्प्रमाणं फलकारि सम्यक् ।
तात्कालिकं कार्यवशेन वाच्यं तच्छत्रुमित्रत्वमनित्यमेव ॥१०॥
निःशेषदोषहरणे शुभवर्द्धने च वीर्यं गुरोरधिकमस्त्यखिलग्रहेभ्यः ।
तद्वीर्यपाददलशक्तिभृतौ ज्ञशुक्रौ चान्द्रं बलं तु निखिलग्रहवीर्यबीजम् ॥११॥
चन्द्रक्रियादि जन्मर्क्षविघती नीतैर्ज्ञानाङ्गैर्ननयैर्भजेत् ।
लब्धाश्चन्द्रक्रियावस्थावेलाख्याम्स्तन्फलं क्रमात् ॥१२॥
चन्द्रक्रिया फल स्थानाद्भ्रास्तप्स्वी परयुवतिरतो द्यूतकृद्धस्तिमुख्या- रूढः सिंहासनस्थो नरपतिररिहा दण्डनेता गुणी च ।
निष्प्रानश्छिन्नमूर्द्धा क्षतकरचरणो बन्धनस्थो विनष्टो राजा वेदानधीते स्वपिति सुचरितः संस्मृतो धर्मकर्ता ॥१३॥
सद्वंश्यो निधिसंगतः श्रुतकुलो व्याख्यापरः शत्रुहा रोगी शत्रुजितः स्वदेशचलितो भृत्यो विनष्टार्थकः ।
अस्थानी च सुमन्त्रकः परमहीभर्ता सभार्यो गज- त्रस्तः संयुगभीतिमानतिभयो लीनोन्नदाताग्निगः ॥१४॥
क्षुद्बाधासहितोऽन्नमत्ति विचरन्मांसानोऽस्त्रक्षतः सोद्वाहो धृतकन्दुको विहरति द्यूतैर्नृपो दुःखितः ।
शयास्थो रिपुसेवितश्च ससुहृद्योगी च भार्यान्वितो मिष्टाही च पयः पिबन् सुकृतकृत् स्वस्थस्तथास्ते सुखम् ॥१५॥
चन्द्र- अवस्था फल आत्मस्थानात्प्रवासो महितनृपहितो दासता प्राणहानि- र्भूपालत्वं स्ववंशोचितगुणनिरतो रोग आस्थानवत्त्वम् ।
भीतिः क्षुद्बाधितत्वं युवतिपरिणयो स्म्यशय्यानुषाक्ति मृर्ष्टाशित्वं च गीता इति नियमवशात्सद्भिरिन्दोरवस्था ॥१६॥
चन्द्रवेला- फल मूर्द्धमयो मुदितता यजनं सुखस्थो नेत्रमयः सुखितता वनिताविहरः ।
उग्रज्वरः कनकभूषणमश्रुमोक्षः क्ष्वेला नं निधुवनं जठरस्य रोगः ॥१७॥
क्रीडा जले हसनचित्रविलेखने च क्रोडश्च नृत्तकरणं घृतभुक्तिनिद्रे ।
दानक्रिया दशनरुक् कलहः प्रयाण- मुन्मत्तता च सलिलाप्लवनं विरोधः ॥१८॥
स्वोच्छास्नानं क्षुद्भयं शास्त्रलाभं स्वैर गोष्ठी योधनं पुन्यकर्म ।
पापा चारः क्रूरकर्मा प्रहर्षं प्राज्ञैरेवं चन्द्रवेला प्रदिष्टा ॥१९॥
जातके च मुहूर्ते च प्रश्ने चन्द्रक्रियादयः ।
सम्यक् फलप्रदास्तस्माद्विशेषेण विचिन्तयेत् ॥२०॥
ओअक्षोद्भवं हिमकरस्य विशेष्शमाहुः स्थानोद्भवं तु बलमप्यधिक्रं परेषां ।
तत्संप्रयुक्तमितरैरधिकाधिकं स्या- दन्यानि तेन सदृशानि बहूनि ते स्युः ॥२१॥
बलपिंड सार्द्धानि षशतीक्ष्णकरो बलीयान् चन्द्रस्तु षशपञ्च वसुन्धराज।
सप्तेन्दुसूनो रविवद्गुरोस्तु सार्द्धानि पञ्चाथ सितो बली स्यात् ॥२२॥
मन्दस्तु पञ्चैव हि षड्बलानां संयोग एवापरथान्यथा स्युः ।
एवं ग्रहाणां स्वबलाबलानि विचिन्त्य सम्यक्कथयेत्फलानि ॥२३॥
लग्नादिकानामधिपस्य पिण्डे रूपान्विते तद्बलपिण्डमाहुः ।
गृहस्य यस्यां दिशादिग्बलं स्यात्तद्भाववीर्य सहितस्य दृष्ट्या ॥२४॥