निर्वाणप्रकरणं - सर्गः २१३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
N/Aश्रीवसिष्ठ उवाच ।
यथा यत्पृष्टवानद्य त्वं मामरिनिषूदन ।
शिष्येणैव सता पूर्वमहं पृष्टो गुरुस्त्वया ॥१॥
पुराकल्पे हि कस्मिंश्चित्तत्त्वमात्मादिकात्मिका ।
आसीदियं चित्प्रतिभा गुरुशिष्यात्मना वने ॥२॥
गुरुस्तत्राहमभवं शिष्यस्त्वमभवस्तदा ।
पृष्टवान्मां त्वमग्रस्थ इदमुद्दामधीरधीः ॥३॥
शिष्य उवाच ।
सर्वस्य भगवञ्छिन्धि ममेममतिसंशयम् ।
किं नश्यति महाकल्पे किं वस्तु न विनश्यति ॥४॥
गुरुरुवाच ।
पुत्र शेषमशेषेण दृश्यमाशु विनश्यति ।
यथा तथा स्वप्नपुरं सौषुप्तीं स्थितिमीयुषः ॥५॥
निर्विशेषेण नश्यन्ति भुवः शैला दिशो दश ।
क्रिया कालः क्रमश्चैव न किंचिदवशिष्यते ॥६॥
नश्यन्ति सर्वभूतानि व्योमापि परिणश्यति ।
स सर्वजगदाभासमुपलब्धुरसंभवात् ॥७॥
ब्रह्मविष्ण्विन्द्ररुद्राद्या ये हि कारणकारणम् ।
तेषामप्यतिकल्पान्ते नामापीह न विद्यते ॥८॥
शिष्यते हि चिदाकाशमव्ययस्यानुमीयते ।
तत्कालशेषतानेन सर्गानुभवहेतुना ॥९॥
शिष्य उवाच ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
इदं तत्कथमाभोगि विद्यमानं क्व गच्छति ॥१०॥
गुरुरुवाच ।
न विनश्यत एवेदं ततः पुत्र न विद्यते ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥११॥
यत्तु वस्तुत एवास्ति न कदाचन किंचन ।
तदभावात्म तद्राम कथं नाम विनश्यति ॥१२॥
क्व स्थितं मृगतृष्णाम्बु क्व स्थिरो द्वीन्दुविभ्रमः ।
क्व स्थिरा केशदृग्व्योम्नि क्व भ्रान्त्यनुभवः स्थिरः॥१३॥
सर्वं दृश्यमिदं पुत्र भ्रान्तिमात्रमसन्मयम् ।
स्वप्ने पुरमिवाभाति कथमेतन्न शाम्यति ॥१४॥
शाम्यतीदमशेषेण तथा सर्वत्र सर्वदा ।
यथा जाग्रद्विधौ स्वप्नः स्वप्ने वा जागरो यथा ॥१५॥
यथा स्वप्नपुरं शान्तं न जाने क्वाशु गच्छति ।
शान्तं तथा जगद्दृश्यं न जाने क्वाशु गच्छति ॥१६॥
शिष्य उवाच ।
किमिदं भाति भगवन्न विभाति च किं पुनः ।
कस्येदं वस्तुनो रूपं चिद्व्योम्नो वितताकृतेः ॥१७॥
गुरुरुवाच ।
चिदाकाशमिदं पुत्र स्वच्छं कचकचायते ।
यन्नाम तज्जगद्भाति जगदन्यन्न विद्यते ॥१८॥
अस्यैतद्वस्तुनो रूपं चिद्व्योम्नो वितताकृतेः ।
रूपमत्यजदेवाच्छं यदित्थमवभासते ॥१९॥
कचनाकचनं सर्गक्षयात्मास्य निजं वपुः ।
व्योमात्म शुक्लकृष्णं स्याद्यथावयविनो वपुः ॥२०॥
यथायं त्वं सितोदान्तरेक एवादितः कचैः ।
तथा ब्रह्मैवमच्छात्म सर्गे सर्गक्षयेऽक्षयम् ॥२१॥
यथा स्वप्ने सुषुप्ते च निद्रैकैवाक्षयानिशम् ।
सर्गेऽस्मिन्प्रलये चैव ब्रह्मैकं चितिरव्ययम् ॥२२॥
यथा स्वप्ने जगद्द्रष्टुः शान्तं शाम्यत्यशेषतः ।
तद्वदस्मज्जगदिदं शान्तं शाम्यत्यशेषतः ॥२३॥
तदन्यत्रास्ति खे खाख्यं तथेत्यङ्ग न विद्महे ।
अशङ्क्यं परखे त्वेतदस्मच्चिद्व्योम्नि संभवात् ॥२४॥
यथेहास्मच्चिदाकाशकचनं सर्गसंक्षये ।
तथान्यत्संविदाकाशं नैवमित्यत्र का प्रमा ॥२५॥
शिष्य उवाच ।
एवं चेत्तद्यथा स्वप्ने द्रष्टुरन्यः स दृश्यधीः ।
विद्यते तद्वदन्यत्र मन्येऽस्ति जगदादिधीः ॥२६॥
गुरुरुवाच ।
एवमेतन्महाप्राज्ञ स्वरूपं तु न तज्जगत् ।
चिति भाति स्वरूपं तत्तद्वदेव न भाति च ॥२७॥
न भाति न च तत्किंचिन्न च तत्किंचिदेव सत् ।
तच्चिदाकाशकचनं के तत्र सदसदृशौ ॥२८॥
विद्यते तद्धि सर्वत्र सर्वं सर्वेण सर्वदा ।
न विद्यते च तत्किंचित्सर्वं सर्वत्र सर्वदा ॥२९॥
तत्सत्तत्सर्वदा सर्वमसच्चासद्धि वाखिलम् ।
तन्मयं तच्चिदाकाशं न नाशि न च नाशि तत् ॥३०॥
यन्नाम सच्चिदाकाशं सर्गप्रलयरूपि तत् ।
तदुःखायापरिज्ञातं परिज्ञातं परः शमः ॥३१॥
विद्यते सर्वथैवेदं सर्वं सर्वत्र सर्वदा ।
न विद्यते सर्वथा च सर्वं सर्वत्र सर्वदा ॥३२॥
एष देवो घटः शैलः पटः स्फोटस्तटो वटः ।
तृणमग्निः स्थावरं च जंगमं सर्वमेव च ॥३३॥
अस्ति नास्ति च शून्यं च क्रिया कालो नभो मही ।
भावाभावौ भवो भूतिर्नाशाः पाशाः शुभाशुभाः ॥३४॥
तन्नास्त्येव न यन्नाम नित्यमेकस्तथा बहिः ।
आदिमध्यमथान्तं तु कालत्रितयमेव च ॥३५॥
सर्वं सर्वेण सर्वत्र सर्वदैवात्र विद्यते ।
सर्वं सर्वेण सर्वत्र सर्वदात्र न विद्यते ॥३६॥
यदैवं राम सर्वात्म सर्वमेवास्ति सर्वदा ।
ब्रह्मात्मत्वात्स्वप्नसंवित्पुरन्यायेन वै तदा ॥३७॥
तृणं कर्तृ तृणं भोक्तृ ब्रह्मात्मत्वात्तृणं विभुः ।
घटः कर्ता घटो भोक्ता घटः सर्वेश्वरेश्वरः ॥३८॥
पटः कर्ता पटो भोक्ता पटः सर्वेश्वरेश्वरः ।
दृशिः कर्ता दृशिर्भोक्ता दृशिः सर्वेश्वरेश्वरः ॥३९॥
गिरिः कर्ता गिरिर्भोक्ता गिरिः सर्वेश्वरेश्वरः ।
नरः कर्ता नरो भोक्ता नरः सर्वेश्वरेश्वरः ॥४०॥
प्रत्येकं सर्ववस्तूनां कर्ता भोक्ता परात्परः ।
अनादिनिधनो धाता सर्वं ब्रह्मात्मकं यतः ॥४१॥
तृणकुम्भादयस्त्वेते स्वया विभुतया विभुः ।
एवंरूपा स्थिता रूपं यद्विभातः क्षयोदयौ ॥४२॥
बाह्योऽर्थोस्ति स एवेह कर्ता भोक्ता तथाविधः ।
विज्ञानमात्रमेवास्ति कर्तृ भोक्तृ तथाविदाम् ॥४३॥
न कश्चिच्चैव कर्तेह न च भोक्ता तथाविदाम् ।
कश्चिदीश्वर एवेह कर्ता भोक्ता तथाविदाम् ॥४४॥
सर्वमेव पदे तस्मिन्संभवत्युत्तमोत्तमे ।
विधयः प्रतिषेधाश्च के ते सन्ति न सन्ति के ॥४५॥
शुद्धे द्रष्टेव चिद्व्योम दृश्यतामिव भावयत् ।
स्वमात्मानं जगदिति पश्येत्तिष्ठेदनामयम् ॥४६॥
सर्वा दृशो विधिनिषेधदृशश्च सर्वाः
संकल्पवेदनविशेषसशेषपूर्वाः ।
सत्यात्मिकाः सततमेव न चैव सत्या
रूपं यथानुभवमत्र यतः स्वरूपम् ॥४७॥
इति त्वया शिष्यतया मदन्तिका-
च्छ्रुतं पुरा तेन न चासि बुद्धवान् ।
ततोऽनुभूयान्यजगद्भवाद्भवा-
निहाद्य जातोऽसि तदेव पृच्छसि ॥४८॥
ज्ञानं सदेतदखिलं श्रुतमुत्तमं चि-
त्संसारदीर्घरजनीसितरश्मिबिम्बम् ।
जातस्त्वमभ्युदयवानमलैकबोध
उत्सार्य मोहमनुतिष्ठ यथागतं त्वम् ॥४९॥
तिष्ठंस्तदात्मनि परे विमलस्वभावे
सर्वात्मके तपति सर्वपदार्थमुक्तः ।
निर्वाणशान्तमतिरम्बरकोशकान्तो
धर्मेण राज्यमनुपालय तीर्णतृष्णः ॥५०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे ० मो० नि० उ० प्राक्तनरामशिष्यत्वोपाख्यानं नाम त्रयोदशाधिकद्विशततमः सर्गः ॥२१३॥
N/A
References : N/A
Last Updated : October 10, 2021
TOP