निर्वाणप्रकरणं - सर्गः १५
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
भुशुण्ड उवाच ।
यत्राहंत्वं जगत्तत्र पूर्वमागत्य तिष्ठति ।
पराण्वन्तरपीन्द्रस्य त्रसरेणूदरे यथा ॥१॥
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अहंभावोऽभिमन्तात्मा मूलमाद्यमुदाहृतम् ॥२॥
वासनारससंसिक्तादहंबीजकणादयम् ।
ब्रह्माद्रौ व्योमविपिने जायते त्रिजगद्द्रुमः ॥३॥
तारकापुष्पनिकरो विलीनाचलपल्लवः ।
सरित्सारशिरापूरो वासनासारतत्फलः ॥४॥
अहंत्वसलिलस्येदं जगत्स्पन्द उदाहृतः ।
चिञ्चमत्करणस्वादुर्वासनाविसरद्रवः ॥५॥
तारकासीकरासारो नभोनन्तनिखातवान् ।
भावाभावमहावर्तो नानागिरितरङ्गकः ॥६॥
त्रिलोकीविलिखल्लेखो विलोलालोकफेनिलः ।
ब्रह्माण्डबुद्बुदोद्भेदः कवाटापीडपीवरः ॥७॥
भूपीठदृढडिण्डीरपिण्डश्चिद्धनमद्गुमान् ।
चित्राजवं जवीभावमज्जनोन्मज्जनात्मकः ॥८॥
जरामरणमोहादिवीचीचयचमत्कृतिः ।
उत्पन्नध्वंसिदेहादिबिन्दुवृन्दैकबन्धुरः ॥९॥
अहंत्वपवनस्पन्दो जगदित्यवगम्यताम् ।
अहंत्वपद्मसौगन्ध्यं जगदित्यवबुध्यताम् ॥१०॥
नाहंत्वजगती भिन्ने पवनस्पन्दवत्सदा ।
पयो द्रवत्वमिव च वह्निरौष्ण्यमिवापि च ॥११॥
जगदस्त्यहमर्थेऽन्तरहमस्ति जगद्धृदि ।
अन्योन्यभाविनी त्वेते आधाराधेयवत्स्थिते ॥१२॥
जगद्बीजमहंत्वं यो मार्ष्टि वोधादवेदनात् ।
अलं चित्रं जलेनेव तेन धौतं जगन्मलम् ॥१३॥
अर्हत्वं नाम तत्किंचिद्विद्याधर न विद्यते ।
अकारणमवस्तुत्वाच्छशशृङ्गमिवोदितम् ॥१४॥
ब्रह्मण्यतिततेऽनन्ते संकल्पोल्लेखवर्जिते ।
अहंत्वकारणाभावान्न कदाचन सन्मयम् ॥१५॥
अवस्तुन्येति सर्गादौ न संभवति कारणम् ।
अतोऽहंत्वादि नास्त्वेववन्ध्यासुत इव क्वचित् ॥१६॥
तदभावाज्जगन्नास्ति चित्त्वं जगदभावतः ।
शिष्टं निर्वाणमेवातः शान्तमास्स्व यथासुखम् ॥१७॥
अभावादुपपत्तिस्थादेवं जगदहंत्वयोः ।
रूपालोकमनस्काराः शान्तास्तव न चेतरत् ॥१८॥
यन्नास्ति तत्तु नास्त्येव शेषं शान्तमसि धुवम् ।
संप्रबुद्धोऽसि मा भूयो निर्मलां भ्रान्तिमाहर ॥१९॥
व्यपगतकलनाकलङ्कशुद्धः
शिवमसि शान्तमसीश्वरोऽसि नित्यः ।
स्वमपि भवति पर्वतोपमानं
जगदपि वा परमाणुरूपमेव ॥२०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे वि० विद्याधरनिर्वाणं नाम पञ्चदशः सर्गः ॥१५॥
N/A
References : N/A
Last Updated : September 26, 2021
TOP