संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः ३७

निर्वाणप्रकरणं - सर्गः ३७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
इच्छाविषविकारस्य वियोगं योगनामकम् ।
शान्तये श्रृणु भूयोऽपि पूर्वमुक्तमपि स्फुटम् ॥१॥
आत्मनो व्यतिरिक्तं चेद्विद्यते तदिहेच्छया ।
इष्यतामसति त्वेतत्स्वात्मान्यत्वं किमिष्यते ॥२॥
निर्भागावयवा सूक्ष्मा व्योम्नः शून्यतरैव चित् ।
सैवाहंजगदाकारा सती किं तत्तयेष्यते ॥३॥
सा व्योमरूपा व्योमैव व्योमात्मवेद्यवेदिका ।
व्योमात्मजगदाभासमत्रेच्छाविषयोऽस्ति कः ॥४॥
ग्राह्यग्राहकसंबन्धः कुतश्चिदिति तन्न नः ।
विद्यतेऽसौ प्रशान्तानां येषामस्ति न वेद्मि तान् ॥५॥
ग्राह्यग्राहकसंबन्धः स्वनिष्ठोऽपि न लभ्यते ।
असतस्तु कथं लाभः केन लब्धोऽसितः शशी ॥६॥
एषैव ग्राहकादीनां सत्ता यन्नात्मनिष्ठता ।
स्वभावावेक्षया सत्या न जाने क्व प्रयान्ति ते ॥७॥
एष एव स्वभावो यद्दृष्टृदृश्यक्षयोऽखिलः ।
ज्ञात्वाऽसत्या विनिर्वाणमहंतात्मनि गच्छति ॥८॥
निर्वाणे नास्ति दृश्यादि दृश्यादौ नास्ति निर्वृतिः ।
मिथोऽनयोरनुभवो न च्छायातपयोरिव ॥९॥
उभे एते मिथोऽसत्ये असत्ये च न निर्वृतिः ।
यतो निर्वाणमजरमदुःखमनुभूयते ॥१०॥
भ्रमभूतं च दृश्यादि नित्यं नात्र सुखप्रदम् ।
असच्च तद्भाव्यतां मा निर्वाणे स्थीयतामजे ॥११॥
शुक्तिकारूप्यसदृशं प्रेक्षितं यन्न लभ्यते ।
अर्थकार्यपि तन्नास्ति किमत्रापह्नवेन च ॥१२॥
तत्सद्भावान्महद्दुःखमसद्भावान्महत्सुखम् ।
अभावः सोपपत्तिस्तु दृढतां याति भावनात् ॥१३॥
तत्किमात्मनि बन्धाय विदग्धं न मुधाधमाः ।
स्पष्ट एवोपचयादेर्वस्तुन्यस्तमिताऽपदे ॥१४॥
कार्यकारणभावादि ब्रह्मैव सकलं यदा ।
तदा तु ब्रह्मता ह्यस्मिन्संविन्मात्रात्मके तते ॥१५॥
मार्गयन्ति प्रबोधाय तैर्मृगैरलमस्तु नः ।
व्योमरूपे किलैकस्मिन्सर्वात्मनि तते सति ॥१६॥
कार्यकारणताढ्यानामुक्तीनामेव कः क्रमः ।
यो हेतुः स्पन्दने वायोर्द्रवत्वे सलिलस्य च ॥१७॥
शून्यत्वे नभसः सौम्य सर्गादित्वे चिदात्मनः ।
कार्यकारणभावादि ब्रह्मैव सकलं यदा ॥१८॥
तदा ब्रह्मणि सर्गाणां कारणार्था विलज्जता ।
न दुःखमस्ति न सुखं शान्तं शिवमयं जगत् ॥१९॥
नास्ति चिन्मात्रतान्यत्वमत इच्छोदयः कुतः ।
मृद्देहयोधसेनायां न मृन्मात्रेतरद्यथा ॥२०॥
न सज्जगदहंतादौ दृश्ये ब्रह्मेतरत्तथा ।
श्रीराम उवाच ।
एवं चेत्तदुदेत्विच्छा मा वोदेतु मुनीश्वर ॥२१॥
सा तु ब्रह्मैव कोऽर्थः स्यादस्या विधिनिषेधने ।
श्रीवसिष्ठ उवाच ।
ज्ञातायां संप्रबुद्धायामिच्छा ब्रह्मैव नेतरत् ॥२२॥
यथा संबुद्धवान्राम तत्सत्यं किं त्विदं श्रृणु ।
यदा यदा ज्ञतोदेति शाम्यतीच्छा तदा तदा ॥२३॥
वस्तुस्वभावादुदयत्यादित्ये यामिनी यथा ।
शाम्यत्येव न तूदेति ज्ञप्ताविच्छादि तत्तथा ॥२४॥
यथा यथोदयो ज्ञप्तेर्द्वैतशान्तिस्तथा तथा ।
वासनाविलयश्चैव कथमिच्छोदयो भवेत् ॥२५॥
तस्या विद्योपशान्तेयं निर्मला मुक्ततोदिता ।
अशेषदृश्यवैरस्याद्यस्येच्छोदेति न क्वचित् ॥२६॥
विरक्ततास्य नो दृश्ये नोदेत्यत्रास्य रक्तता ।
केवलं द्रष्टृदृश्यश्रीः स्वदते न स्वभावतः ॥२७॥
काकतालीययोगेन परप्रेरणयानया ।
यदि किंचित्कदाचिच्च सम्यगिच्छति वा न वा ॥२८॥
तदस्य सेच्छा नेच्छा वा ब्रह्मैवात्र न संशयः ।
इच्छा न जायते ज्ञस्यावश्यमेवानु वा नवा ॥२९॥
ज्ञता चेदुदिता जन्तोस्तदिच्छास्योपशाम्यति ।
नैतयोः स्थितिरेकत्र प्रकाशतमसोरिव ॥३०॥
प्रतिषेधविधीनां तु तज्ज्ञो न विषयः क्वचित् ।
शान्तसर्वैषणेच्छस्य कोऽस्य किं वक्ति किंकृते ॥३१॥
एतदेव ज्ञताचिह्नं यदिच्छास्वतितानवम् ।
ह्लादनं सर्वलोकानामथानुभव एव वा ॥३२॥
दृश्यं विरसतां यातं यदा न स्वदते क्वचित् ।
तदा नेच्छा प्रसरति तदैव च विमुक्तता ॥३३॥
बोधादनैक्यमद्वैतं यः शान्तमवतिष्ठते ।
इच्छानिच्छादयः सर्वे भावास्तस्य शिवात्मकाः ॥३४॥
बोधादस्तमितद्वैतमद्वैतैक्यविवर्जितम् ।
यः स्वच्छो विगतव्यग्रः शान्त आत्मन्यवस्थितः ॥३५॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥३६॥
नानिच्छया नेच्छयाथ न सता नासता सदा ।
नैवात्मना न चान्येन नैतैर्मरणजीवितैः ॥३७॥
इच्छा च तस्य नोदेति निर्वाणस्य प्रबोधिनः ।
यदि चोदेति तस्येच्छा ब्रह्म शाश्वतमेव सा ॥३८॥
न दुःखमस्ति न सुखं शान्तं शिवमजं जगत् ।
इति योऽन्तः शिलेवास्ते तं प्रबुद्धं विदुर्बुधाः ॥३९॥
दुःखं सुखं भावनया कुर्वन्विषमिवामृतम् ।
इति निश्चित्य धीरात्मा प्रबुद्ध इति कथ्यते ॥४०॥
तत्स्थितं व्योमनि व्योम शान्ते शान्तं शिवे शिवम् ।
शून्ये शून्यं सति च सद्यद्ब्रह्मणि जगत्स्थितम् ॥४१॥
असंवेदनसंवित्खे ततेऽविश्वमिति स्थिते ।
सौम्ये समसमे शान्ते शिवेऽहंताभ्रमः क्षयी ॥४२॥
यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् ।
तत्सर्वं शान्तमाकाशं परचिन्तापुरोपमम् ॥५३॥
परचिन्तापुरोमध्ये गतविघ्नं गमागमौ ।
यथान्तस्तव शून्यत्वात्तथैवास्मिञ्जगद्भ्रमे ॥४४॥
अब्धिद्यूर्वीनदीशैलशोभाशून्यतरात्मनि ।
जृम्भते द्रष्टृकरणं मृगतृष्णाम्बुवीचिवत् ॥४५॥
स्वप्ननिर्माणपुरवद्वालवेतालतालवत् ।
यदिदं दृश्यते तत्र किं किलासत्यतेतरत् ॥४६॥
असत्यमेवाहमिति भासते सत्यमेव च ।
भ्रान्तिभाजं विनैवेयं भ्रान्तिः स्फुरति सा सती ॥४७॥
न सन्नासन्न सदसत्किमपीदमतीन्द्रियम् ।
अवाच्यं जगदित्येव भात्यवक्षुभितं खवत् ॥४८॥
इहेच्छानिच्छते ज्ञस्य शाम्यतां यदलं समे ।
तथापि श्रेयसे मन्ये नन्वनिच्छोदयं स्फुटम् ॥४९॥
अहं जगदिति ज्ञप्तिः खे खस्येवेयमास्थिता ।
चिदात्मनो यथा वायोः स्पन्दो नात्रास्ति कारणं ॥५०॥
चितश्चेत्योन्मुखत्वं यत्तच्चित्तं सैव संसृतिः ।
सेच्छा तन्मुक्तता मुक्तिर्युक्तिं ज्ञात्वेति शाम्यताम् ॥५१॥
इच्छा भवत्वनिच्छा वा सर्गो वा प्रलयोऽथवा ।
क्षतिर्न कस्यचित्काचिन्न च किंचिदिहास्ति हि ॥५२॥
इच्छानिच्छे सदसती भावाभावौ सुखासुखे ।
इत्यत्र कलना व्योम्नि संभवन्ति न काश्चन ॥५३॥
इच्छानां तानवं यस्य दिनानुदिनमागतम् ।
विवेकशमतृप्तस्य तमाहुर्मोक्षभागिनम् ॥५४॥
इच्छाक्षुरिकया विद्धे हृदि शूलं प्रवर्तते ।
जयन्ति यत्र नैतानि मणिमन्त्रौषधानि च ॥५५॥
यान्कार्यकरणव्यूहान्कृतवान्पूर्वमेव तान् ।
संप्रेक्षया न पश्यामि मिथ्याभ्रमभरादृते ॥५६॥
भ्रमभूतेन कुर्मश्चेद्व्यवहारमवस्तुना ।
तत्कस्मात्परचित्ताद्रिः कम्बलत्वं न नीयते ॥५७॥
असता व्यवहारश्चेत्प्रेक्षामात्रविनाशिना ।
क्रियते शशशृङ्गेण तत्कथं छाद्यते न खम् ॥५८॥
अहभावाच्चिदाकाशो जाड्यातिशयतः क्षणात् ।
पाषाणतां जलमिव मनस्त्वाद्याति देहताम् ॥५९॥
चित्त्वादनुभवत्येतामसत्यामेव देहिताम् ।
अविनष्टैव चिच्छक्तिः स्वप्ने स्वमरणं यथा ॥६०॥
व्योम्न्यसत्यमवस्तुत्वात्सत्यं चानुभवाद्यथा ।
नीलत्वं तद्वदीशेऽस्मिन्सर्गो नासन्न सन्मयः ॥६१॥
यथा शून्यत्वनभसोर्यथा स्पन्दनभस्वतोः ।
भेदो नास्ति तथा सर्गब्रह्मणोरेकरूपयोः ॥६२॥
नेह संजायते किंचिज्जगदादि न नश्यति ।
स्वप्नो निद्रागतस्येव केवलं प्रतिभासते ॥६३॥
अविद्यमाने पृथ्व्यादौ प्रतिभामात्ररूपिणि ।
सर्गे क इव संरम्भस्त्यागादानैश्चिदम्बरे ॥६४॥
न देहः प्रतिभातोऽस्ति पृथ्व्यादिकारणान्वितः ।
केवलं ब्रह्मचिन्मात्रमेवात्मन्येव संस्थितम् ॥६५॥
बुद्ध्यादेः कारणत्वं च द्वैतैक्यासंभवान्न सत् ।
अनेनेदं क्रियत इत्यस्यार्थं याति संभवात् ॥६६॥
अहेतुरक्रमं भाति चिति कल्पक्रियागणः ।
क्षणेनैव यथा स्वप्ने मृतिजन्मादि सत्वराः ॥६७॥
खमेव पृथ्वी खं शैलाः खमेव दृढभित्तयः ।
खमेव लोकाः स्पन्दः खं सर्गसंवेदनं चितेः ॥६८॥
व्योमभित्तौ जगच्चित्रं चिद्रङ्गमयमाततम् ।
नोदेति नास्तमायाति न शाम्यति न ताम्यति॥६९॥
चिद्वारिणि जगत्तुङ्गतरङ्गद्रवरूपिणि ।
किं नु वा कथमुत्पन्नं किं शान्तं च कदा कथम् ॥७०॥
शान्ते महाचिदाकाशे जगच्छून्यत्वशालिनि ।
चेत्यासंभवतः सन्ति नोदयास्तमयौ कुतः ॥७१॥
पर्वता गगनायन्ते गगनं पर्वतायते ।
संवेदनप्रयोगेण ब्रह्मणः सर्गता स्थितौ ॥७२॥
संविच्चूर्णप्रयोगेण निमेषार्धेन योगिनः ।
कुर्वन्ति जगदाकाशमाकाशं त्रिजगन्ति च ॥७३॥
सिद्धसंकल्पनगराण्यसंख्यानि यथाम्बरे ।
तथा सर्गसहस्राणि सन्ति तानि तु चिन्नभः ॥७४॥
महार्णवे यथावर्ता अन्योन्यमपि मिश्रिताः ।
पृथगेवावतिष्ठन्ते पयसोऽन्ये च नैव ते ॥७५॥
महाचिति महासर्गा अन्योन्यमपि मिश्रिताः ।
पृथगेवावतिष्ठन्ते व्यतिरिक्ता न ते ततः ॥७६॥
सर्गात्सर्गान्तरालोके या प्रबुद्धस्य योगिनः ।
सिद्धलोकान्तरे प्राप्तिः सैवेति विबुधोक्तयः ॥७७॥
अविनाशिनि भूतानि स्थितानि परमे शिवे ।
व्योम्नीव शून्यतोल्लासाः सर्गवर्गा निरर्गलम् ॥७८॥
परमार्थनिजामोदाः सहजाः सर्गविभ्रमाः ।
नोद्यन्ति नोपशाम्यन्ति लेखा इव शिलोदरे ॥७९॥
अन्योन्यं कुसुमामोदा मिलिता अप्यमीलिताः ।
व्योमरूपास्तथा सर्गा अन्योन्यं सिद्धभूमयः ॥८०॥
संकल्पाकाशरूपत्वात्सर्वानुभववत्स्थितेः ।
तनुसंकल्पमोहानां सत्याश्च मननोक्तयः ॥८१॥
न ज्ञानवादिता सत्या न बाह्यानर्थवादिता ।
यथावेदनमेतानि वेदनानि फलन्ति वः ॥८२॥
चिति चित्त्वं यदस्त्यन्तर्जगदित्येव भाविते ।
भेदो द्रवत्वपयसोरिव नात्रोपपद्यते ॥८३॥
कालो जगन्ति भुवनान्यहमक्षवर्ग-
स्त्वं तानि तत्र च तथेति च सर्वमेकम् ।
चिद्व्योम शान्तमजमव्ययमीश्वरात्म
रागादयः खलु न केचन संभवन्ति ॥८४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रक० उत्तरार्धे दृश्योपदेशयोगो नाम सप्तत्रिंशः सर्गः ॥३७॥

N/A

References : N/A
Last Updated : September 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP